________________
१२८ तत्त्वार्थवार्तिके
[२११४ स्थूलमूर्तिश्च पृथिवी विमानभवनप्रस्तारादिभावपरिणामात् । स्नानपानाद्युपकारांदपां पाकशोषप्रकाशनाद्युपकाराच्चाग्नेः स्वेदखेदापनोदाद्युपकाराच्च वायोभू यानुपकारः पृथिव्या अशनाच्छादनवसनादिभावो वनस्पतेः। अबादीनां यश्चोक्त उपकारः प्रतिनियत इति स सत्यां
पृथिव्यां संभवति, इतरथा हि क्वावस्थितानां स उपकारः स्यात्, अतः पृथिव्या ग्रहणमादौ ५ क्रियते।
तदनन्तरमपा वचनं भूमितेजसोविरोधादाधेयत्वाच्च ।३। तदनन्तरमपां वचनं क्रियते । कुतः ? भूमितेजसोविरोधादाधेयत्वाच्च । भूमेहि तेजो विरोधि विनाशकत्वात्, अतोऽद्भिव्यवधानं क्रियते । भूरपामाधारः आधेया आप इति च ।
__ ततस्तेजोग्रहणं तत्परियाकहेतुत्वात् ।। पृथिव्या अपां च परिपाकहेतुस्तेजः, तदनन्तरं १. तस्य ग्रहणं क्रियते ।
__तेजोऽनन्तरं वायुग्रहणं तदुपकारकत्वात् ५। वायुहि तिर्यक्प्लवनकर्मा तेजसः प्रेरणेन उपकरोतीति तदनन्तरं गृह्यते। __अन्ते वनस्पतिग्रहणं सर्वेषां तत्प्रादुर्भाव निमित्तत्वादनन्तगुणत्वाच्च ।६। वनस्पति
प्रादुर्भावे हि पृथिव्यादयः सर्वे निमित्ततामुपत्रजन्ति । सर्वेषां तेषां वनस्पतिकायिका अनन्त१५ गुणास्ततोऽन्ते वनस्पतिग्रहणं क्रियते । एते पञ्चविधाः प्राणिनः स्थावराः ।
कति पुनरेषां प्राणाः ? चत्वारः-स्पर्शनेन्द्रियप्राण: कायबलप्राण उच्छ्वासनिश्वासप्राण आयुःप्राणश्चेति । अथ के वसा इति ? अत्रोच्यते -
हीन्द्रियादयस्त्रसाः ॥१४॥ __ आदिशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्था संप्रत्ययः ११॥ अयमादिशब्दोऽनेकार्थःव्यवस्थाप्रकारसामीप्यादिवचनत्वात्, तत्र विवक्षात इह व्यवस्थायां गृहयते । आगमे हि ते व्यवस्थिताद्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियश्चेति। कोऽस्य विग्रहः ? द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः स आदियेषां ते द्वीन्द्रियादय इति । यद्येवम्
अन्यपदार्थनिर्देशाद् द्वीन्द्रियाग्रहणम् ।२। अन्यपदार्थोऽत्र प्राधान्येनाश्रितः। द्वीन्द्रियग्रहण२५ मुपलक्षणम्, अतस्त्रसग्रहणे द्वीन्द्रियस्य ग्रहणं न प्राप्नोति यथा 'पर्वतादीनि क्षेत्राणि' इति न पर्वतः क्षेत्रग्रहणेन गृहयते ।
न वा तद्गुणसंविज्ञानात् ।३। न वैष दोषः; किं कारणम् ? तद्गुणसंविज्ञानात् । यथा शुक्लवाससमानयेति तद्गुण आनीयते तथेहापि द्वीन्द्रियस्याप्यन्तर्भावो भवति ।
__अवयवेन विग्रहे सति समुदायस्य वृत्त्यर्थत्वाद्वा।।। अथवा "अवयवेन विग्रहः समुदायो ३० वृत्त्यर्थः" [पात० महा० २।२।२४] इति द्वीन्द्रियस्योपलक्षणस्यापि त्रसत्वेऽन्तर्भावः, यथा
"सर्वादिः सर्वनाम" [जैनेन्द्र० ११११३५] इति । कथं तहि पर्वतादीनि क्षेत्राणीति पर्वतस्य बहिर्भावः ? पर्वतस्य क्षेत्रत्वसंभवाभावाद् व्युदासः । ते एते चतुर्विधाः प्राणिनस्त्रसाः ।
१ स्नपनायु- ता०, प्रा०, ब० । स्नापनाधु-सू० । स्थापनाधु-व०। २ तत्पाक-श्र०, मू० । ३ तिर्वपचन- प्रा०, द०, मु०। तिर्यपतन-ब० तिर्यकप्रचलन- सा०। ४ इत्युच्यते प० । ५-स्थार्थगतिःभा० ११६ द्वीन्द्रियग्र- श्र० । ७ अवयवन विग्रहः समुदायः समासार्थः।-पात० महाभा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org