________________
२।१३]
द्वितीयोऽध्यायः
स्थानशीलाः स्थावरा इति चेत्; न; वाय्वादीनामस्थावरत्वप्रसङगात् ।४। स्यादेतत्तिष्ठन्तीत्येवं शीला: स्थावरा इति ? तन्न; किं कारणम् ? वाय्वादीनामस्थावरत्वप्रसङ्गात् । वायुतेजोऽम्भसां हि देशान्तरप्राप्तिदर्शनादस्थावरत्वं स्यात् । कथं तहर्यस्य निष्पत्ति:-'स्थानशीलाः स्थावराः' इति ? एवं रूढिविशेष बललाभात्' क्वचिदेव वर्तते । ___इष्टमेवेति चेत्, न; समयार्थानवबोधात् ।। अथ मतमेतत्-इष्टमेव वाय्वादीनामस्थाव- ५ रत्वमिति ; तन्न; किं कारणम् ? समयार्थानवबोधात् । एवं हि समयोऽवस्थितः सत्प्ररूपणायां कायानुवादे *"त्रसा नाम द्वीन्द्रियादारभ्य आ अयोगिकवलिनः " [षट्खं०] इति। तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वं कर्मोदयापेक्षमेवेति स्थितम् ।
त्रसग्रहणमादौ अल्पान्तरत्वादहितत्वाच्च ।६। त्रसग्रहणमादौ क्रियते। कुतः ? अल्पाचतरत्वाद् अभ्यहितत्वाच्च । सर्वोपयोगसंभवादभ्यहितत्वम् ।
सामान्यविशेषसंज्ञाहितभेदमात्रविज्ञाने सति विशेषेणाऽनिर्जातानां त्रसस्थावराणां निर्ज्ञाने कर्तव्ये एकेन्द्रियाणामतिबहुवक्तव्याभावाद् विभज्यानुपूर्वी स्थावरभेदप्रतिपत्त्यर्थमाह
पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ नामकर्मोदयानिमित्ताः पृथिव्यादयः संज्ञाः ।। स्थावरनामकर्मभेदाः पृथिवीकायादयः सन्ति, 'तदुभयनिमित्ता जीवेषु पृथिव्यादयः संज्ञा वेदितव्याः । प्रथनादिप्रकृतिनिष्पन्ना २० . अपि रूढिवशात् प्रथनाद्यनपेक्षा वर्तन्ते । ____एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तं प्रत्येकम् । तत्कथमिति चेत् ? उच्यते-पृथिवी पृथिवीकायः पृथिवीकायिकः पृथिवीजीव इत्यादि । तत्र अचेतना'वैश्रसिकपरिणामनिर्वृत्ता काठिन्यादिगुणात्मिका पृथिवी । अचेतनत्वादसत्यपि पृथिवीकायिकनामकर्मोदये प्रथनक्रियोपलक्षितवेयम् । अथवा, पृथिवी सामान्यम् ; उत्तरत्रये संभवात् । कायः शरीरम्, पृथिवी- २५ कायिकजीवपरित्यक्तः पृथिवीकायः, मृतमनुष्यादिकायवत् । पृथिवी कायोऽस्यास्तीति पृथिवीकायिकः तत्कायसंबन्धवशीकृत आत्मा। समवाप्तपृथिवीकायिकनामकर्मोदयः कार्मणकाययोगस्थः, यो न तावत् पृथिवीं कायत्वेन गृह्णाति स पृथिवीजीवः । एवमापः, अप्कायः, अप्कायिकः, अप्जीवः। तेजः, तेजस्कायः, तेजस्कायिकः, तेजो जीवः। वायुर्वायुकायो वायुकायिको वायुजीवः। वनस्पतिर्वनस्पतिकायो वनस्पतिकायिको वनस्पतिजीव इति योज्यम्। ३० __सुखग्रहणहेतुत्वात् स्थूलमूर्तित्वादुपकारभूयस्त्वाच्चादौ पृथिवीग्रहणम् ।२। पृथिव्यां हि सत्यामपां कुम्भादिभिः अग्नेश्च शरावादिभिः वायोश्च चर्मघटादिभिः सुखेन ग्रहणं क्रियते ।
१-लाभात्तु क्व- श्र०, मू०। २ वर्तन्ते ता०, १०,मु०, २०, प्रा०, ब०, मु०।३ "तसकाइया बीइंबियप्पहुडि जाव अजोगिकेवलि त्ति ।"-षट् खं०सं०सू०४४।४ असनाम श्र० सानां द्वी--प्रा० ब०, व०, मु०।५बाह्याभ्यन्तर । ६ पृथुत्व धारणादि । ७"उक्तञ्च-पुढवी पुढवीकायो पुढवीकाइय पुढविजीयो य। साहारणोपमक्को सरीरगहिवो भवंतरिदो।" -स०सि०२।१३। प्राविशब्देन अबावीनां चातविष्य योज्यम् । ६ स्वभावजात । १० -नामोदयः प्रा०, ब०, द०, मु०, मू०, ता० । ११ चतुर्णामपि पृथिवीशम्दवाच्यत्वेऽपि शुद्धपुद्गलपथिव्या जीवपरित्यक्तपथवीकायस्य च नेह ग्रहणम्, तयोरचेतनत्वेन तत्कर्मोदयासंभवात् तत्कृतपथिवीव्यपदेशासिद्धेः । तस्माज्जीवाधिकारात् पृथिवीं कायत्वेन गृहीतवतः पृथिवीका. यिकस्य विग्रहगत्यापन्नस्य च पृथिवीजीवस्य च ग्रहणम्, तयोरेव पृथिवीस्थावरनामकर्मोदयसंभवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org