________________
१२६
[२२१२
तत्त्वार्थवार्तिके औपरिष्टसंसारिवचनप्रत्यासत्तश्च ५। औपरिष्टमस्ति संसारिवचनम्, तस्य प्रत्यासतेरभिसंबन्धाच्च संसारिसंप्रत्ययो भवति। अत्राह
तदभिसंबन्धे यथासंख्यप्रसङगः।६। यदि तदभिसंबन्धः क्रियते तत्तत्र त्रसस्थावरग्रहणमस्ति तेन यथासंख्यं प्राप्नोति 'समनस्कास्त्रसा अमनस्काः स्थावराः' इति । ५ इष्टमेवेति चेत्, न; सर्वत्रसानां समनस्कत्वप्रसङगात् ७। स्यादेतत्-इष्टमेवेदं त्रसाः
समनस्काः स्थावरा अमनस्का इति; तन्न; किं कारणम् ? सर्वत्रसानां समनस्कत्वप्रसङ्गात्, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणामपि समनस्कत्वं प्रसज्येत । अनिष्टं चैतत् । अत्रोच्यते
नानभिसंबन्धात् । संसारिग्रहणमात्रमत्राभिसंबध्यते न त्रसस्थावरग्रहणम् । इच्छावशेन हि संबन्धो भवति ।
एकयोगाकरणात् ।९। यदि त्रसस्थावरग्रहणेनापि संबन्ध इष्टः स्यात् एक एव योगः क्रियेत-'समनस्कामनस्काः संसारिणस्त्रसस्थावराः' इति । नत्वेवं कृतः । तेन ज्ञायते त्रसस्थावरग्रहणं न संबध्यत इति । अथवा, एकयोगाकरणात् मन्यामहे-अतीतस्य संसारिमुक्तग्रहणस्य वक्ष्यमाणस्य च त्रसस्थावरग्रहणस्य समनस्कामनस्कग्रहणेनाभिसंबन्धो न भवतीति ।
इतरथा अन्यतरत्र संसारिग्रहणे सतीष्टार्थस्वादुपरि संसारिग्रहणमनर्थकम् ।१०। इतरेण १५ प्रकारेणेतरथा। कथम् ? यदि संसारिमुक्तग्रहणेन त्रसस्थावरग्रहणेन चास्याभिसंबन्धःस्यात् एक
एव योगः क्रियेत-'संसारिमुक्ताः समनस्कामनस्कास्त्रसस्थावराश्च' इति । तथा सत्यन्यतरत्र संसारिग्रहणं कर्तव्यं स्यात् । क्वान्यतरत्र ? समनस्कामनस्कसूत्रस्यादावन्ते वा । एवं सतीष्टार्थस्य सिद्धत्वात् 'संसारिणः त्रसस्थावराः' इत्यत्र संसारिग्रहणमनर्थकं स्यात् ।
आदौ समनस्कग्रहणमभ्यहितत्वात् ॥११॥ आदौ समनस्कग्रहणं क्रियते । कुतः ? अहि। २० तत्वात् । कथमभ्यहितत्वम् ? तत्र हि समग्राणि करणानीति ।
य एते स्वकृतकर्मफलापेक्षपरिपूर्णापरिपूर्णकरणग्रामाहितद्वैविध्यविशिष्टाः कार्मणशरीरप्रणालिकापादितनियतावस्थाविशेषाः, ते खलु
संसारिणस्त्रसस्थावराः ॥१२॥ अत्राह-के त्रसाः, के स्थावरा इति ? उच्यन्ते
असनामकर्मोदयापादितवृत्तयस्त्रसाः ॥१॥ त्रसनामकर्मणो जीवविवाकिन उदयापादितवृत्तिविशेषाः नसा इति व्यपदिश्यन्ते।
असेरुद्वेजनक्रियस्य असा इति चेत; न; गर्भादिषु तदभावाद् अत्रसत्वप्रसङगात् ।। स्यान्मतम्-त्रसेरुद्वेजनक्रियस्य त्रस्यन्तीति वसा इति ? तन्न; किं कारणम् ? गर्भादिषु तद
भावाद् अत्रसत्वप्रसङ्गात् । गर्भाण्डजमूच्छितसुषुप्तादीनां त्रसानां बाह्यभयनिमित्तोपनिपाते ३. सति चलनाभावादत्रसत्वं स्यात् । कथं तर्यस्य निष्पत्तिः 'त्रस्यन्तीति त्रसाः' इति ? व्युत्पत्तिमात्रमेव नार्थः प्राधान्येनाश्रियते गोशब्द प्रवृत्तिवत् ।
स्थावरनामकर्मोदयोपजनितविशेषाः स्यावराः ।३। स्थावरनामकर्मणो जीवविपाकिन उदयेनोपजनितविशेषाः स्थावरा इत्याख्यायन्ते।
१-तत्र श्र०, मू०, ता० । २ क्रियते अ०, मू० । ३ बाह्योभय- मु०, शु०। ४-शम्रवृत्ति१०, मू०।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org