________________
२११]
द्वितीयोऽध्यायः
समुच्चयाभिव्यक्त्यर्थं चशब्दोऽनर्थक इति चेत्; न; उपयोगस्य गुणभावप्रदर्शनार्थत्वात् ॥४॥ स्यान्मतम्- चशब्दोऽनर्थकः । कुतः ? अर्थभेदात् समुच्चयसिद्धेः । भिन्ना हि संसारिणो मुक्ताश्च ततो विशेषणविशेष्यत्वानुपपत्तेः समुच्चयः सिद्धः यथा * " पृथिव्यापस्तेजोवायुः " [ ] इति; तन्नः किं कारणम् ? उपयोगस्य गुणभावप्रदर्शनार्थत्वात् । नायं चशब्दः समुच्चये, क्व तर्हि ' ? अन्वाचये' । तत्र हयेकः प्रधानभूतः 'इतरो गुणभूतः यथा 'भैक्षं चर देवदत्तं चानय' ५ इति प्रधानशिष्टं भैक्षचरणं देवदत्तानयनमप्रधानशिष्टम् । तथा संसारिणः प्राधान्येनोपयोगिनो मुक्ता गुणभावेनेत्येतस्य प्रदर्शनार्थः । कथं संसारिषु मुख्य उपयोगः कथं वा मुक्तेषु गौणः ?
१२५
परिणामान्तरसंक्रमाभावाद् ध्यानवत् ॥ ५॥ यथा एकाग्र चिन्तानिरोधो ध्यानमिति छद्मस्थे ध्यानशब्दार्थों मुख्यश्चिन्ता विक्षेपवतः तन्निरोधोपपत्तेः, तदभावात् केवलिन्युपचरितः फलदर्शनात्, तथा उपयोगशब्दार्थोऽपि संसारिषु मुख्यः परिणामान्तरसंक्रमात्, मुक्तेषु तदभावाद् गौणः १० कल्प्यते 'उपलब्धिसामान्यात् ।
संसारिग्रहणमादी बहुविकल्पत्वात् तत्पूर्वकत्वात् स्वसंवेद्यत्वाच्च । ६ । संसारिग्रहणमादी क्रियते बहुविकल्पत्वात्, बहवो हि संसारिणां विकल्पा गत्यादयः । किञ्च तत्पूर्वकत्वात् । संसारपूर्वका हि मुक्ताः, न मुक्तपूर्वाः संसारिण इति । स्वसंवेद्यत्वाच्च । स्वसंवेद्या हि संसारिणो गत्यादिपरिणामानामनुभूतत्वात्, मुक्ताः पुनरत्यन्तपरोक्षाः, तदनुभवस्याप्राप्तत्वात् । तत्र य एते शुभाशुभकर्म फलानुभवनसंबन्धवशी कृतस्वभावा अप्रच्युतसंसरणाः पूर्वकृतनामकर्मनिमित्तजनित' करणविशेषाः प्राणिनः ते खलु
१५
समनस्काऽमनस्काः ॥ ११ ॥
मनःसन्निधानासन्निधानापेक्षया द्विविधाः संसारिणः | १ | मनो द्विविधम्- द्रव्यमनो भावमनश्चेति । तत्र पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः । वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमा- २० पेक्षा आत्मनो विशुद्धिर्भावमनः । तेन मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां ते अमनस्का इति द्विविधाः संसारिणो भवन्ति । अत्राह
द्विविधजीवप्रकरणाद्यथासंख्यप्रसङ्गः |२| द्विविधा हि जीवाः प्रकृताः संसारिणो मुक्ताश्च । तत्र संसारिणः समनस्काः मुक्ताश्चाऽमनस्का इति यथासंख्यं प्राप्नोति ।
इष्टमिति चेत्; न; सर्वसंसारिणां समनस्कत्वप्रसङ्गात् । ३ । स्यादेतत् - इष्टमेवेदं संसा- २५ रिणः समनस्का मुक्ताश्चामनस्का इति; तन्न; किं कारणम् ? सर्व संसारिणा समनस्कत्वप्रसङ्गात् । एकद्वित्रिचतुरिन्द्रियाणां पञ्चेन्द्रियेषु च केषाञ्चित् मनोविषय विशेषव्यवहाराभावात् अमनस्कतेष्टा तद्व्याघातोऽतः स्यात् । अत्रोच्यते
पृथग्यो प्रक्लृप्तेः संसारसंप्रत्ययः ॥ ४॥ यदिदं पृथग्योगकरणं तेन ज्ञायते संसारिणोऽत्र संबन्ध्यन्त इति । इतरथा हि एक एव योगः क्रियते - संसारिणो मुक्ताश्च समनस्कामनस्काः' ३० इति ।
१ पृथिव्यप्तेजो- प्रा०, ब०, ब०, मु० । “पृथिव्यापस्तेजोवायुरिति तस्त्वानि तत्समुदाये शरीरेन्द्रियविषय सज्ञाः ।" -तत्त्वोप० पृ० १।२ किं तर्हि आ०, ब०, ६०, ६०, मु० । ३ प्रधानाप्रधानविवक्षायामन्वाचयः । ४ इतरे गुणभूताः प्रा०, ब०, ब०, मु०, ता० । ५ - नार्थम् भ० । ज्ञान । ७ -त्वाच्च स्व- प्रा०, ब०, ब०, मु० ८ -जनितवि- प्रा०, ब०, ब०, मु० ।
६ केवल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org