________________
संख्याविशेषनिर्देशात्तनिश्चयः ॥३॥ यतः संख्याविशेषनिर्देशः क्रियते- 'अष्टभेदश्चतुर्भेदः' ५. इति, ततस्तस्य निश्चयो वेदितव्यः । ननु च चतुःशब्दस्य पूर्वनिपातेन भवितव्यम् *"संख्याया अल्पीयस्या: " [पा० वा० २।२।३४] इति वचनात् यथा चतुर्दशेति; नैष दोषः उक्तमेतत्'अर्ध्याहतत्वात् पूर्वनिपातः' इति ।
१५
तत्र ज्ञानोपयोगोऽष्टविधः - मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मन:पर्ययज्ञानं केवलज्ञानं मत्यज्ञानं श्रुताऽज्ञानं विभङ्गज्ञानं चेति । दर्शनोपयोगश्चतुर्विधः - चक्षुर्दर्शनम् अचक्षुर्दर्शनमवधि१० दर्शनं केवलदर्शनं चेति । एषां च लक्षणादीनि व्याख्यातानि । अवग्रहान्नान्यत् दर्शनमिति चेत्; व्याख्यातमन्यत्वम् । छद्मस्थेषु तयोः क्रमेण वृत्तिः, निरावरणेषु युगपत् ।
यथोक्तेनानेनाहितपरिणामेन' सर्वात्मसाधारणेनोपयोगेन' ये उपलक्षिता उपयोगिनः
ते द्विविधा:
२०
तत्त्वार्थवार्तिके
[ २१०
अर्ध्याहतत्वाज्ज्ञानग्रहणमादौ |२| ज्ञानं हयभ्यर्हितम् अर्थानां 'विभावकत्वात्, दर्शनमालोचनमात्रम्, अतस्तस्मात् पूर्वकालभाविनोऽपि दर्शनाज्ज्ञानं प्राग्गृहयते । कथं पुनर्ज्ञायते ज्ञानग्रहण मादी क्रियत इति ?
२५
१२४
३०
संसारिणो मुक्ताश्च ॥१०॥
आत्मोपचितकर्मवशादात्मनो भवान्तरावाप्तिः संसारः । १ । 'आत्मनोपचितं कर्माष्टविषं प्रकृतिस्थित्यनुभागप्रदेशबन्ध भेदभिन्नम्, तद्वशादात्मनो भवान्तरावाप्तिः संसार इति ।
उच्यते - द्विरात्मग्रहणं किमर्थम् ? 'आत्मैव कर्मण: कर्ता, तत्फलस्य च आत्मैव भोक्ता' इत्येतस्य प्रदर्शनार्थम् ।
'अन्ये तु 'गुण्यं कर्तृ, परम् आत्मा भोक्ता' इति मन्यन्ते; तदयुक्तम्; अचेतनस्य पुण्यपापविषयकर्तृ तानुपपत्तेर्घटादिवत् । परकृतफलभोगे "चानिर्मोक्षप्रसङ्गः स्यात् "कृतप्रणाशश्चेति । तस्माद्यः कर्ता स एव भोक्तेति युक्तम् ।
संसारः पञ्चविधः द्रव्यतः क्षेत्रतः कालतो भावतो भवतश्चेति, स येषामस्ति ते संसारिणः । निरस्तद्रव्यभावबन्धा मुक्ताः |२| बन्धो द्विविधो द्रव्यबन्धो भावबन्धश्चेति । तत्र द्रव्यबन्धः कर्म नोकर्मपरिणतः पुद्गलद्रव्यविषयः । तत्कृतः क्रोधादिपरिणामवशीकृतो भावबन्धः । स उभयोsपि निरस्तो यैः ते मुक्ताः ।
द्वन्द्वनिर्देशो लघुत्वादिति चेत्; नः अर्थान्तरप्रतीतेः । ३ । स्यान्मतम् - द्वन्द्वनिर्देशोऽत्र युक्तः । कुतः ? लघुत्वात्, द्वन्द्वे हि सति उक्तार्थत्वाच्चशब्दाप्रयोगे लाघवं भवति इति; तन्न; कि कारणम् ? अर्थान्तरप्रतीतेः । संसारिणश्च मुक्ताश्चेति द्वन्द्वे सति अल्पाच्तरत्वादभ्यर्हितत्वाच्च मुक्तशब्दस्य पूर्वनिपाते सति मुक्तसंसारिण इति प्राप्नोति, तथा च सत्यर्थान्तरं प्रतीयेतमुक्तः संसारो येन भावेन स मुक्तसंसारस्तद्वन्तः मुक्तसंसारिण इति । तथा सति मुक्तानामेवोपयोगित्वमुक्तं " स्यान्न संसारिणाम्, अतो वाक्यमेव क्रियते ।
१ निश्चायकत्वात् । २ -यसः भ०, मू० । ३ - नमिति श्र०, मू० । ४ भेवेन । ५ नोपलक्षिता उप- आ०, ब०, ४०, मु० ६ श्रात्मोपचि- प्रा०, ब०, ६०, मु०, ता० । ७ वार्तिके । सांख्याः - सम्पा० । ९ प्रधानम् । १० वानिम- प्रा०, ब०, ६०, मु० । ११ प्रकृतेः । १२ तत्कृतको भू० । १३ अल्पाक्षर - मु० । १४ - योगत्वमुक्तं - प्रा०, ब०, द०, मु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org