________________
१५
२९] द्वितीयोऽध्यायः
१२३ अस्मदात्मास्तित्वप्रत्ययस्य सर्वविकल्पेष्विष्टसिद्धः ।२०। योऽयमस्माकम् 'आत्माऽस्ति' इति प्रत्ययः स संशयानध्यवसायविपर्ययसम्यक्प्रत्ययेषु यः कश्चित् स्यात, सर्वेषु च विकल्पेविष्टं सिध्यति । न तावत्संशयः; निर्णयात्मकत्वात् । सत्यपि संशये तदालम्बनात्मसिद्धिः । न हि अवस्तुविषयः संशयो भवति। नाप्यनध्यवसायो जात्यन्धबधिररूपशब्दवत्; अनादिसंप्रतिपत्तेः । स्याद्विपर्ययः; एवमप्यात्मास्तित्वसिद्धिः पुरुषे स्थाणप्रतिपत्तौ स्थाणुसिद्धिवत् । ५ स्यात्सम्यक्प्रत्ययः; अविवादमेतत्-आत्मास्तित्वमिति सिद्धो न पक्षः । ___ सन्तानादिति चेत्, न; तस्य संवृतिसत्त्वात्, द्रव्यसत्त्वे वा संज्ञाभेदमात्रम् ॥२१॥ स्यान्मतम्सन्तानो नाम कश्चिदर्थोऽस्ति एकोऽनेकक्षणवृत्तिः, तदाश्रयं ग्रहणविज्ञानात्मस्वभावस्थानादिसंप्रतिपादनमिति'; तन्न; किं कारणम् ? तस्य संवृतिसत्त्वात् । स हि सन्तानः संवृतिसन्, तस्मिन्नसति कल्पितात्मनि' कथं 'स्यात्तद्विशेषप्रत्ययः ? अथ द्रव्यसत्त्वमस्यावसीयते; संज्ञा- १० भेदमात्रम्-आत्मा सन्तान इति नार्थविप्रतिपत्तिः ।
यदप्युक्तम्-'सत्यपि लक्षणत्वानुपपत्तिरनवस्थानात्' इति, कथञ्चिदवस्थानादुपयोगस्य लक्षणत्वोपपत्तिः । न हि सर्वथा विनाशोऽवस्थानं वोपयोगस्याभ्युपगम्यते । किं तहि ? कथञ्चिद्विनाशः कथञ्चिदवस्थानं च । पर्यायार्थादेशात् सतोऽर्थस्यानुपलब्धेविनाशो द्रव्यार्थादेशादवस्थानमिति असकृत्परीक्षितमेतत् । तस्मादुपयोगस्य लक्षणत्वमुपपद्यते ।
तदुपरमाभावाच्च ।२२। कस्यचिदुपयोगस्योत्पादः कस्यचिद्विनाश इत्युपयोगपरम्परा नोपरमतीति तस्य लक्षणत्वमवसे यम्।
सर्वथा विनाशे पुनरनुस्मरणाभावः ।२३। यदि सर्वथोपयोगस्य विनाशः स्यात्; अनुस्मरणं न स्यात् । अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नाननुभूतस्य नान्येनानुभूतस्य । तदभावात्तन्मूलः सर्वलोकसंव्यवहारो विनाशमुपगच्छेत् ।
उपयोगसंबन्धो लक्षणमिति चेत्, न; अन्यत्वे संबन्धाभावात् ।२३। स्यान्मतम्-उपयोगो लक्षणमात्मनो नोपपद्यते। कुतः ? अन्यत्वात् । किं तर्हि ? तत्संबन्धो लक्षणम् । यथा देवदत्तस्य न दण्डो लक्षणम्, किं तहि? संबन्धः। यदि हि दण्डो लक्षणम् “असंसक्तोऽपि लक्षणं स्यात्, एवं च कृत्वोक्तम्-*"क्रियावद्गुणवत्समवायिकारणं द्रव्यलक्षणम्" [वशे० १११११५] इति; तन्न, कि कारणम् ? अन्यत्वे संबन्धाभावात्। द्रव्याद् गुणोऽर्थान्तरभूतो यदि स्यात्। तस्य संबन्धाभाव २५ इत्युक्तं पुरस्तात् । तस्मादात्मभूत उपयोगो लक्षणमिति न कश्चिद्दोषः । य उक्त उपयोगस्तद्भेददर्शनार्थमाह
स द्विविधोऽष्टचतुर्भेदः ॥६॥ कथं द्विविधः ?
साकारानाकारभेदाद् द्विविधः ।१॥ साकार उपयोगोऽनाकार उपयोगश्चेति द्विविधः । साकारं ज्ञानम्, अनाकारं दर्शनम् ।
२०
-
१-सिद्धःपा०, ब०, द०, म०। २ ज्ञानविषयसम्प्रतिपत्तिः। ३ सं उपचारः वृतिसन् प्रा०। मिण्यारूपेण सन् विद्यमानः। ४ स्वरूपे। ५ स्याद्विशे-पा०, ब०, २०, मु०। ६ यदुक्तं प्रा० ब०, १०, मु०, ता०। ७-तं त-पा०, २०, २०, मु०, ता०। ८ असक्तोऽपि प्रा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org