________________
१२२ तत्त्वार्थवार्तिके
[રાર स्यादिति मतम्; वृक्षस्यापि न स्यात् । सर्वत्रैवात्र नामाद्यपेक्षया संबन्धो योजयितव्यः । बहिरङ्गाकारपरिणतविज्ञानविषयत्वापेक्षया वा दोषोद्भावनमूहितव्यम् ।
यदप्युच्यते-नास्त्यात्मा अप्रत्यक्षत्वाच्छशशृङ्गवदिति; अयमपि न हेतुः असिद्धविरुद्धानकान्तिकत्वाप्रच्युतेः । सकलविषयकेवलज्ञानप्रत्यक्षत्वाच्छुद्धात्मा प्रत्यक्षः, कर्मनोकर्मबन्धपर५ तन्त्रपिण्डात्मा च अवधिमनःपर्ययज्ञानयोरपि प्रत्यक्ष इति 'अप्रत्यक्षत्वात्' इत्यसिद्धो हेतुः ।
इन्द्रियप्रत्यक्षत्वाभावादप्रत्यक्ष इति चेत् नः तस्य परोक्षत्वाभ्युपगमात् । अप्रत्यक्षा घटादयोऽग्राहकनिमित्तग्राहयत्वाद् धूमाद्यनुमिताग्निवत् । अग्राहकमिन्द्रियं तद्विगमेऽपि गृहीतस्मरणात गवाक्षवत् । किञ्च, प्रत्यक्षादन्योऽप्रत्यक्ष इति पर्युदासो वा स्यात्, प्रत्यक्षो न भवतीत्यप्रत्यक्ष
इति प्रसज्यप्रतिषेधो वा ? यदि पर्युदासः; अन्यत्वस्य द्विष्ठत्वाद्वस्तुत्वसिद्धेः नास्तित्वविरो१० ध्यस्तित्वसाधनाद्विरुद्धः । अथ प्रसज्यप्रतिषेधः; सति प्रतिषेध्य प्रतिषेध सिद्धेः विधिविषय
सिद्धिरिति कथञ्चित् प्रत्यक्षत्वोपपत्तेः पुनरप्यसिद्धता । असति च शशशृङ्गादौ सति च विज्ञानादौ अप्रत्यक्षत्वस्य वृत्तेरनैकान्तिकता । अथ विज्ञानादेः स्वसंवेद्यत्वात् योगिप्रत्यक्षत्वाच्च हेतोरभाव इति चेत्, आत्मनि कोऽपरितोषः ? दृष्टान्तोऽपि साध्यसाधनोभयधर्मविकल: पूर्वोक्तेन विधिना अप्रत्यक्षत्वस्य नास्तित्वस्य चासिद्धेः ।
किञ्च, सर्वस्य वागर्थस्य विधिप्रतिषेधात्मकत्वात्, न हि किञ्चिद्वस्तु सर्वनिषेधगम्यमस्ति । अस्ति त्वेतत' उभयात्मकम, यथा कूरवका रक्तश्वेतव्यदासेऽपि नाऽवर्णा भवन्ति नापि रक्ता एव श्वेता एव वा प्रतिषिद्धत्वात् । एवं वस्त्वपि परात्मना नास्तीति प्रतिषेधेऽपि स्वात्मना अस्तीति सिद्धम । तथा चोक्तम
"अस्तित्वमुपलब्धिश्च कथञ्चिदसतः स्मृतेः । नास्तितानुपलब्धिश्च कथञ्चित्सत एव ते ॥१॥ सर्वथैव सतो नेमो धमौं सर्वात्मदोषतः।
सर्वथैवाऽसतो नेमौ वाचा गोचरताऽत्ययात् ॥२॥" [ ] इति । नास्तित्वाप्रत्यक्षत्वाभ्यामपि रहितं तदवस्त्विति धर्मासिद्धिश्च । एवमन्येऽपि हेतव एकान्तवादिभिरुपनीता दोषवत्तयोत्प्रेक्ष्याः । तदस्तित्वं च साध्यते
ग्रहणविज्ञानासंभविफलदर्शनाद् गृहीतृसिद्धिः ।१९। यान्यमूनि ग्रहणानि पूर्वकृतकर्मनितितानि हिरुक्कृतस्वभावसामर्थ्यजनितभेदानि रूपरसगन्धस्पर्शशब्दग्राहकाणि चर्रसनघाणत्वक्श्रोत्राणि । 'यानि च ज्ञानानि तत्सन्निकर्षजानि तानि", तेष्वसंभविफलमुपलभ्यते । किं पुनस्तत् ? आत्मस्वभावस्थानज्ञानविषयसम्प्रतिपत्तिः । तदेतद् ग्रहणानां तावन्न संभवतिः
अचेतनत्वात्, क्षणिकत्वाच्च । विज्ञानानां च न संभवति, एकार्थग्राहित्वादुत्पत्त्यनन्तरनिरो१. धाच्च । दृश्यते चेदम् । अकस्माच्च न भवतीति तत्प्रत्तिपत्तिपतिना ततो व्यतिरिक्तेन केनचिद्भवितव्यमिति गृहीतृसिद्धिः । किञ्च,
१ -कताप्र-प्रा०, ब०, ८०, मु०, ता०। २ अनियतकारण। ३ वस्तुनि। ४ वस्तु । ५ अनुभवात् । ६धर्माभ्याम् । ७ अथ परपक्षं दूषयित्वा स्वपक्षं साधयति तदित्यादिना। ८ पृथक्कत। हिरक नाना च वर्जने इत्यभिधानात् । हिरुककृतपृथक्कृतस्वभाव-ब०, ता०, मू०, द० । नानास्वभावता, टि। हिरुकसहकृतपृथक्कृतस्व- प्रा० । ६ एतानि च प्रा०, ब०, द०, मु०। १०-पंज'नितानि प्रा०, ब०, द०, मु०। ११ इन्द्रियाणाम् । १२ -त्तिपटुना प्रा०, ब०, द०, मु, मू०। पटुना इति वा पाठः-श्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org