________________
२८] द्वितीयोऽध्यायः
૨૨૧ 'उपयोगस्य लक्षणत्वानुपपत्तिलक्ष्याभावात् ।१५। इह लोके सतो लक्ष्यस्य लक्षणं भवति यथा सतो देवदत्तस्य दण्डादिः । न चासतः शशविषाणादेः किञ्चिल्लक्षणमस्ति । तथा स एवात्मा लक्ष्यो दुरुपपाद: । तदभावात् कुत उपयोगस्य लक्षणत्वमिति ? तत्कथमिति चेत् ? उच्यते
तदभावश्चाकारणत्वादिभिः।१६। तस्य लक्ष्यस्यात्मनोऽभावः । कुतः ? अकारणत्वादेः मण्डूकशिखण्डवत् ।
सत्यपि लक्षणत्वानुपपत्तिरनवस्थानात् ।।१७। सत्यप्यात्मनि लक्ष्ये उपयोगस्य लक्षणत्वं नोपपद्यते । कुतः?अनवस्थानात् । उपयोगो हि ज्ञानदर्शनस्वभावः, स चानवस्थितः क्षणिकत्वात् । न चानवस्थितं लक्षणं भवति । तदपाये तदनुपलब्धेः, यथा 'कतरद्देवदत्तस्य गृहम् ? अधो यत्रासौ काकः' इत्युत्पतिते काके 'नष्टं तद्गृहं भवति तथा ज्ञानादिलक्षणस्यात्मनस्तदभावे अभावः प्राप्नोति इति ।
१० अत्रोच्यते--
आत्मनिह्नवो न युक्तः साधनदोषदर्शनात् ।१८। इहात्मनो निह्नवो न युक्तः । कुतः ? साधनदोषदर्शनात् ।
___यत्तावदुक्तम्--'नास्त्यात्मा अकारणत्वात् मण्डूकशिखण्डवत्' इति; हेतुरयमसिद्धो विरुद्धोऽनै कान्तिकश्च । कारणवानेवात्मा इति निश्चयो नः', नरकादिभवव्यतिरिक्तद्रव्यार्थाभावात्, तस्य च मिथ्यादर्शनादिकारणत्वादसिद्धता । अत एव द्रव्यार्थाभावात् १५ पर्यायस्य च पर्यायान्तरानाश्रयत्वाद् आश्रयाभावादप्यसिद्धता' । अकारणमेव हयस्ति सर्व घटादि, तेनायं द्रव्यार्थिकस्य विरुद्ध एव । सतोऽकारणत्वात् , यदस्ति तन्नियमेनैवाकारणम्, न हि किञ्चिदस्ति च कारणवच्च । यदि तदस्त्येव किमस्य कारणेन नित्यनिर्वृत्तत्वात् ? कारणवत्त्वं चासत एव कार्यार्थत्वात् कारणस्येति विरुद्धार्थता । मण्डूकशिखण्डकादीनाम् "असत्प्रत्ययहेतुत्वेन परिच्छिन्नसत्त्वानामभ्युपगमात्तेषां च कारणाभावात् "उभयपक्षवृत्तेर- २० नैकान्तिकत्वम् ।
दृष्टान्तोऽपि साध्यसाधनोभयधर्मविकल: । "कर्मावेशवशात् नानाजातिसंबन्धमापन्नवतो जीवतो जीवस्य मण्डूकभवावाप्ती तद्व्यपदेशभाजः पुनर्युवतिजन्मन्यवाप्ते 'यः शिखण्डकः॥ स एवायम्' इत्येकजीवसंबन्धित्वात्" मण्डूकशिखण्ड इत्यस्ति । पुद्गलद्रव्यस्याप्यनाद्यनन्तपरिणामस्य युवतिभुक्ताहारादिकेशभावपरिणामाच्छिखण्डनिष्पत्तेः कारणत्वमिति नास्तित्वाकारण- २५ त्वधर्माभावात् । एवं वन्ध्यापुत्र-शशविषाणादिष्वपि योज्यम् ।
आकाशकुसुमे कयम् ? तत्रापि यथा वनस्पतिनामकर्मोदयापादितविशेषस्य वृक्षस्य जीवपुद्गलसमुदायस्य 'पपुष्पमिति व्यपदिश्यते, अन्यदपि पुद्गलद्रव्यं पुष्पभावेन परिणतं तेन व्याप्तत्वात्, एवमाकाशेनापि व्याप्तत्वं समानमिति तत्तस्यापीति व्यपदेशो युक्तः । अथ तत्कृतोपकारापेक्षया तस्येत्युच्यते; आकाशकृतावगाहनोपकारापेक्षया कथं तस्य न स्यात् ? ३० वृक्षात् प्रच्युतमप्याकाशान्न प्रच्यवते इति नित्यं तत्संबन्धि । 'अथ अर्थान्तरभावात्तस्य न
१ उपयोगलक्षणानप-प्रा०, ब०, २०, म०।२ अशक्यसमर्थनः। ३न दृष्टम् । ४ स्याद्वादिनाम् । ५मात्माभावादित्यर्थः । ६ पाश्रयासिद्धतेति यावत् । ७हेतुः। ८ निष्पन्नावस्थायां कुलालाधभावात् । ६अनुत्पन्नस्यैव कारणवत्त्वम् । १०नास्तीति ज्ञानस्य ।११ अस्तित्वनास्तित्वेति । १२ कर्मोद्रेक । १३ बसः। १४-सम्बन्धत्वात् प्रा०, ब०, २०, म०। १५ स्वस्वामिसम्बन्धे । १६ अर्था- प्रा०,ब०, १०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org