________________
१३०
तत्त्वार्थवार्तिके
[ शट
'यथा क्षीरं क्षीरात्मकं न तत्तेनात्मनोपयुज्यते इति नः अतस्तत्सिद्धेरित्येव । यथा तृणजलादिकारणवशात् क्षीरभावावाप्ति प्रत्यभिमुखं क्षीरं क्षीरव्यपदेशभाक् तच्छक्त्यव्यतिरेकात् 'क्षीरात्मना परिणमति' इत्युच्यते, तथा आत्मापि ज्ञानादिस्वभावशक्तिप्रत्यय वशात् घटपटाद्याकारावग्रहरूपेण परिणमतीत्युपयोगः सिद्धः । इतरथा हयतद्भावे तद्भावाऽभावादुपयोगाभावः स्यात् । किञ्च,
उभयथापि त्वद्वचनासिद्धेः | १० | अनेकान्तवादप्रवण मार्हन्त्यन्यायमविज्ञाय यदुपादिक्षत् भवान् -' यद्यदात्मकं न तस्य तेनैव परिणामः' इति नन्वेवमुभयथापि त्वदीयस्य वचसोऽसिद्धिः । तद्यथा - तदात्मकानुपयोगवादिनः स्ववचसः स्वपरपक्षसाधनदूपणात्मकस्य स्वपक्षपरपक्षयोः साधकत्वदूषकत्वापरिणामात् यत्रोपदिष्टः तत्रासाचकस्तेऽयं हेतुः । यथा क्षीरस्य दधित्वेन १० परिणाम इष्यते न क्षीरत्वेनैव तथैव त्वद्वचसः स्वपक्षसाधनात्मकस्य तेनैवापरिणामाद् दूषकत्वेन परिणाम एषितव्यो न साधकत्वेन । अस्यैव च परपक्ष दूषकात्मकस्य तेनैवापरिणामात् साधकत्वेन परिणाम एषितव्यो न दूषकत्वेन । अतः 'तदात्मकत्वेऽनुपयोगात्' इति त्वद्वचनासिद्धिः । अथ त्वद्वचनं स्वपरपक्ष साधे कदूषकात्मकमपि सत् स्वपरपक्षयोः साधक दूषकपर्यायाभ्यां परिणमति; नन्वेवमपि यदवोचद्भवान् - 'तदात्मकत्वेऽनुपयोगान्न तस्य तेनैव परिणामः' इति; १५ तदसत् । किञ्च,
५
२०
स्वसमयविरोधात् । ११। यदि ' यद्यदात्मकं न तत्तेनैव परिणमति' इतीष्टं वः ननु पृथिव्यप्तेजोवायु महाभूतानां रूपाद्यात्मकत्वात् रूपाद्यात्मना अविपरिणामः स्यात् । इष्यते च शुक्लादिरूपादिविशेषपरिणामः । अतः स्वसमयविरोधः । किञ्च,
चिद्विज्ञानात्मकत्वात् ॥ १२ ॥ यस्यैकान्तेन ज्ञानात्मक आत्मा स्यात्, मस्य ज्ञानात्मना परिणामाभावः परिणतत्वात् । आर्हतस्य तु केनचिद्विज्ञानात्मकः तत्पर्यायादेशात्, केनचिदन्यात्मक इतरपर्यायादेशादिति कथञ्चित्तदात्मकत्वात् केनचिदतदात्मकत्वात् परिणामसिद्धिः । यदि चैकान्तेन ज्ञानात्मक एव स्यादितरात्मक एव वा; तद्भावाविरामः स्यात् । विरामे चात्मनोऽपि विरामः प्रसक्तः । किञ्च,
तदात्मकस्य तेनैव परिणामदर्शनात् क्षीरवत् | १३ | यथा क्षीरं द्रवमधुरादिक्षीरस्वभा२५ वमजहद् गुडादिद्रव्यसंबन्धाद् गुडक्षीरादिपरिणामान्तरमास्कन्दति, गवादे: स्तनान्तरनिर्गतमात्रं चोष्णं पुनः शीतं भवति, पुनश्चाग्निद्रव्यसंबन्धादुष्णं घनं च भवति, तदभावे च शीतमिति क्षीरजातिमजहदुष्णक्षीरादिव्यपदेशभागिति क्षीरं क्षीरात्मनैव परिणतम् । यदि क्षीरं क्षीरात्मना न परिणमेत्; तत्र तत्र क्षीरव्यपदेशाभावः स्यात् । तथोपयोगात्मक आत्मा उपयोगस्वभावमजहज्ज्ञानाद्यात्मना ' परिणाममियर्तीति नास्ति विरोधः । अतश्चैतदेवं यदि हि न स्यात् ;
३०
निःपरिणामत्वप्रसङ्गोऽर्थस्वभावसंकरो वा । १४ । यदि यद्यदात्मकं तस्य तेनापरिणामः स्यात्; भावानां निष्परिणामत्वप्रसङ्गः । ततश्च सर्वथा नित्यत्वे क्रियाकारकव्यवहारलोपः स्यात् । 'परिणामवत्त्वे च 'परात्मना परिणामात् सर्वपदार्थ स्वभाव संकरप्रसङ्गः स्यात् । अथैतदुभयं नेष्यतेः सिद्धः स्वेनात्मना परिणामः । कश्चिदाह-
१ उत्तरम् । २ द्रव्यम् । ३ द्रव्यक्षीरमित्यर्थः । ४ तव । ५ श्रपर्यवसानः । ६ ज्ञानात्मना श्रा०, श्रादिशब्देन सुखादि । ७ जीवादिद्रव्यं ज्ञानादिपरिणामरूपम् । ८ परिणामत्वे ता० ।
० मु० । ६ घटापिटादिस्वरूपेण । १० प्रपरिणामः पररूपपरिणामश्चेति द्वयम |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org