________________
रा] द्वितीयोऽध्यायः
११६ क्ष्यत इति; नैष दोषः; चैतन्यं नामात्मधर्मः सामान्यभूतः, यस्याऽसन्निधानादितरेषु द्रव्येषु जीवव्यपदेशो नास्ति, यद्भेदाश्चैते ज्ञानदर्शनादयः, तेषां समुदाये वर्तमानश्चैतन्यशब्दः क्वचिदवयवेऽपि सुखादौ वर्तते-*"समुदायेषु हि प्रवृत्ताः शब्दा' अवयवेष्वपि वर्तन्ते" [पात० महा० पस्पशा ०] इति । इह पुनः समुदाय एव वर्तमानः परिगृहीतः, उत्तरत्र च तद्भेदा ज्ञानदर्शनविकारा वक्ष्यन्ते इति नास्ति विरोधः। अथ किं लक्षणम् ?
परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् ।२। बन्धपरिणामानुविधानात् परस्परप्रदेशानुप्रवेशाद् व्यतिकीर्णस्वभावत्वेऽपि सत्यन्यत्वप्रतिपत्तिकारणं लक्षणमिति समाख्यायते । यथा सुवर्णरजतयोः सत्यपि बन्धं प्रत्येकत्वे वर्णप्रमाणादिरसाधारणो धर्मः अजहदुपलभ्यते उत्तरकालं सति विवेके तद्दर्शनात्, तथा पुद्गलद्रव्येण बन्धं प्रत्यविभागेऽपि विभागहेतुः ज्ञानादिरुपयोगो लक्षणं भवति ।
तल्लक्षणं द्विविधम्-आत्मभूताऽनात्मभूतभेदात् उष्णदण्डवत् ।३। तदेतल्लक्षणं द्विविधम्आत्मभूतमनात्मभूतञ्चेति । तत्र आत्मभूतमग्नेरोष्ण्यम्, अनात्मभूतं देवदत्तस्य दण्डः । इह आत्मभूतं लक्षणमुपयोगः।
गुणगुणिनोरम्यत्वमिति चेत्, न; उक्तत्वात् ।४। स्यादेतत-औष्ण्यं गुणोऽग्निर्गुणी तथा च आत्मा गुणी ज्ञानादिर्गुण इति । तयोश्च लक्षणभेदादन्यत्वमिति; तन्न; किं कारणम् ? १५ उक्तत्वात् । उक्तेमतत्'-'अतत्स्वाभाव्येऽनवधारणप्रसङ्गोऽग्निवत्' इत्यादि ।
लक्ष्यलक्षणभेदादिति चेत्, न; अनवस्थानात् ५॥ अथ मतमेतत्-लक्ष्यो गुणी गुणो लक्षणम्, लक्ष्याच्च लक्षणेनार्थान्तरभूतेन भवितव्यमित्यतोऽनयोरन्यत्वमितिः तन्न; किं कारणम् ? अनवस्थानात् । येन लक्षणेन लक्ष्यं लक्ष्यते 'तत् सलक्षणम्, अलक्षणं वा ? यदि तदलक्षणम्; मण्डूकशिखण्डवदभावमापद्येत । असति च तस्मिन् लक्ष्यानवधारणम् । अथ सल- २० क्षणम् तदपि ततोऽन्यत्, तदपि ततोऽन्यदित्यनवस्था स्यात् । किञ्च,
__ आदेशवचनात् ।। "लक्ष्यलक्षणयोरव्यतिरेकात् स्यादेकत्वम्, संज्ञादिभेदत्वाच्च स्यान्नानात्वम्' इत्यादेशवचनात् एकान्तदोषानुषङ्गाभावः । कश्चिदाह--
न उपयोगलक्षणो जीवस्तदात्मकत्वात् ।७। इह लोके यद्यदात्मकं न तत्तेनोपयुज्यते यथा क्षीरं क्षीरात्मकं न ततेनैवात्मनोपयुज्यते । एवमात्मनोऽपि ज्ञानाद्यात्मकत्वान्न तेनैवोपयोग २५ इति जीवस्योपयोगाभावः। कुतश्च (इतश्च),
विपर्ययप्रसङगात् ।८। सति चानन्यत्वे उपयोगमिच्छ'तोऽनिच्छतश्च कस्यचिद्विपर्ययः प्राप्नोति । कथम् ? अविपर्ययवत् । तद्यथा-'जीव एव ज्ञानादनन्यत्वे सति ज्ञानात्मनोपयुज्यते' इति मन्यसे न क्षीरादयः क्षीराद्यात्मभिः; एवं क्षीरादय एव क्षीराद्यात्मभिः परिणमेयुः, "न तु जीवो ज्ञानात्मनोपयुज्यते । अनिष्टं चैतत् ।
न; अवस्तत्सिद्धेः ।९। नेतद्युक्तम् । कुतः ? अतस्तत्सिद्धेः । यत एवानन्यत्वमत एवोपयोगः सिद्धः । नयत्यन्तमन्यत्वे उपयोगः सिद्धयति आकाशस्य रूपाधुपयोगाभाववत् । ननु चोक्तम्
१ अङ्गं प्रति कोऽवयव इत्यादयः । २ परस्परप्रवेशा-पा०, ब०, द०, मु०। ३ -धर्मः अलक्षणमुपयोगो गुण-मा०, २०, २०, मु०। ४ पृ० ५। ५ तत्सल्लक्ष-मु० । ६ लक्ष्यप्तलक्षणानपपसिलक्ष्याभावात् भा० १। ७परिणमनम्। आत्मनः। ९ क्षीरस्य । १० विपर्ययाभाववत । ११ ननु जीवो ज्ञानात्मना नोप- मा०, ब०, २०, मु०। १२ -भावात् नन प्रा०,०, २०, म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org