________________
११८ तत्त्वार्थवार्तिके
[२८ अचेतनत्वे पूर्ववन्मोहाभावः । चेतनत्वे विज्ञानरूपत्वाद् व्यामोहो युक्तः, न युक्तम्-'अमूर्तत्वादभिभवाभावः' इति ।
यद्येवं कर्मोदयमद्यावेशवशीकृतस्य तस्यास्तित्वं दुरुपलक्ष्यम् ? नैष दोषः; तदावेशेऽपि स्वलक्षणत्वेनोपलब्धिर्भवति । उक्तञ्च--
*"बंधं पडि एयत्तं लक्खाणदो होदि तस्स णाणतं ।
तम्हा अमुत्तिभावो यंतो होदि जीवस्स' ॥' [ ] यद्येवं तदेव तावदुच्यतां लक्षणं यत्सन्निधानाद् बन्धपरिणामं प्रत्यविवेकेऽपि सति विभागोऽवगृह्यते जीवस्येति ? अत आह--
उपयोगो लक्षणम् ॥८॥ उपयोग इत्युच्यते । क उपयोगो नाम ?
बाहयाभ्यन्तरहेतुद्वयसन्निधाने यथासंभवमुपलब्धुश्चैतन्यानुविधायी परिणाम उपयोगः ।१। द्विविधो हेतुर्बाहय आभ्यन्तरश्च । द्वाववयवौ यस्य स द्वयः' । ननु च स्वरूपनिर्देशादेव द्वित्वप्रतीतेयवचनमनर्थकम्; नानर्थकम्, प्रत्येक द्वैविध्यसंप्रत्ययार्थम्-वायो हेतुईय
आभ्यन्तरश्चेति । तत्र बायो हेतुद्विविधः-आत्मभूतोऽनात्मभूतश्चेति । तत्रात्मना' संबन्ध१५ मापन्नविशिष्टनामकर्मोपात्तपरिच्छिन्नस्थानपरिमाणनिर्माणश्चक्षुरादिकरणग्राम आत्मभूतः ।
प्रदीपादिरनात्मभूतः । आभ्यन्तरश्च द्विविध:-अनात्मभूत आत्मभूतश्चेति । तत्र मनोवाक्कायवर्गणालक्षणो द्रव्ययोगः चिन्ताद्यालम्बनभूतः अन्तरभिनिविष्टत्वादाभ्यन्तर । इति व्यपदिश्यमान आत्मनोऽन्यत्वादनात्मभूत इत्यभिधीयते । तन्निमित्तो भावयोगो वीर्यान्तरायज्ञान
दर्शनावरणक्षयक्षयोपशमनिमित्त आत्मनः प्रसादश्चात्मभूत इत्याख्यामर्हति । तस्यैतस्य हेतु२१ विकल्पस्य यथासंभवमुपलब्धुः सन्निधानं भवति। तद्यथा-प्रदीपादेस्तावत् केषाञ्चित् सन्नि
धानं तेन विना चक्षुरादिविज्ञानाप्रवृत्तः, केषाञ्चित्तु द्वीपिमार्जारादीनां तमन्तरेणाप्युपलब्धेरनियमः । चक्षुरादीनामपि पञ्चेन्द्रियविकलेन्द्रियैकेन्द्रियविषयत्वेन “सन्निधानाऽसन्निधानं प्रत्यनियमः। अन्तः करणमपि' असंज्ञिनां मनोवजितम्, संज्ञिनां त्रितयम्, एकेन्द्रियाणां विग्रह
गतिमुपगतानां समुद्घातगतानां च सयोगकेवलिनामेक एव काययोगः, भावयोगश्च तत्कृतः, २५ तत्र तत्र नियतः क्षयोपशमश्च आक्षीणकषायात् । अत ऊर्ध्व क्षय इति । एवं यथासंभवं
सन्निधाने सति । चैतन्यमात्मनः स्वभावोऽनादिः तमनुविदधातीत्येवंशीलश्चैतन्यानुविधायी "सुवर्णस्वभावानुविधायी (यि) कटकाङगदकुण्डलादिविकारवत् । स एवं प्रकार आत्मनः परिणाम उपयोग इत्युपदिश्यते ।
___अत्र "कश्चिदाह-चैतन्यं सुखदुःखमोहरूपं तदनुविधायिना परिणामेन सुखदुःखक्रोधादिना ३० भवितव्यम्, उत्तरत्र च उपयोगप्रकारा ज्ञानदर्शनविकारा वक्ष्यन्ते, तदिदं पूर्वापरविरुद्धमाल
१कर्मोदयावेशेऽपि । २ स्वलक्षणे चोप- श्र०, ता०, मू०, द०। स्वलक्षणेनोप- प्रा०, ब० । ३बन्धं प्रत्येकत्वं लक्षणतो भवति तस्य नानात्वम् । तस्मादमूर्तिभावो नकान्तो भवति जीवस्य ।। उद्धतेयं स० सि० २।७। ४ द्वित्रिभ्यां लग्वेति युटो लुक्। ५ सह। ६ अकर्मकर्मनोकर्नजातिभेदेषु वर्गणा । ७ श्रुतज्ञान । सन्निधानं प्रत्य- प्रा०, ब०, २०, मु०। ६ अपिशब्देन बाह्यकरणं चक्षुरादिकं ययायोग्यं योज्यम् । १० जोवानाम् । ११ सुवर्णाभावान-पा० ब०, २०, मु०। १२ सांख्यः -सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org