________________
२७]
द्वितीयोऽध्यायः 'अमूतित्वादभिभवानुपपत्तिरिति चेत् न तद्वद्विशेषसामोपलब्धेश्चैतन्यवत् ।२४। अथ मतमेतत्-अमूर्तिरात्मा कर्मपुद्गल भिभूयते ततस्तत्परिणामाभाव इति ? तन्न; किं कारणम् ? तद्वद्विशेषसामोपलब्धेः । सोऽस्य अनादिकर्मबन्धसन्तानोऽस्तीति तद्वान्, तद्वतो विशेषसामर्थ्य तद्वद्विशेषसामर्थ्यम् । कथम् ? चैतन्यवत् । यथा अनादिपारिणामिकचैतन्यवशीकृत आत्मा तद्वान्, तस्य तद्वतश्चैतन्यवतः नारकादिमत्यादिपर्यायविशेषवृत्तिरपि चेतना, तथा अना- ५ दिकार्मणशरीराक्तत्वात् कर्मवत् आत्मनो मूर्तिमत्त्वात् गत्यादि मत्यादिपर्यायविशेषसामोपलब्धिरपि मूर्तिमतीति । एवं सति नामूर्तिरात्मा । किञ्च,
अनेकान्तात् ।२५। अनादिकर्मबन्धसन्तानपरतन्त्रस्यात्मनः "अमूर्तत्वं प्रत्यनेकान्त:-बन्धपर्यायं प्रत्येकत्वात् स्यान्मूत्तिः, तथापि ज्ञानादिस्वलक्षणापरित्यागात् स्यादमूत्तिः, इत्यादि पूर्ववत् । यस्यैकान्तेनाऽमूत्तिरेवात्मा भवेत्। तस्यायं दोषो नाहतस्य । किञ्च,
१० सुराभिभवदर्शनात् ।२६। मदमोहविभ्रमकरी सुरां पीत्वा नष्टस्मृतिर्जनः काष्ठवदपरिस्पन्द उपलभ्यते, तथा 'कर्मोदयाभिभवादात्मा अनाविर्भूतस्वलक्षणो मूर्त इति निश्चीयते ।
करणमोहकरं मद्यमिति चेत्; न; तद्विविधकल्पनायां दोषोपपत्तेः ।२७। स्यादाकूतम्चक्षुरादीनां करणानां व्यामोहकारणं मद्यं पृथिव्यादिभूतप्रसादात्मकत्वात् इन्द्रियाणां नात्मगणस्य अतित्वादिति. तन्न: कि कारणम ? तद द्विविधकल्पनायां दोषोपपत्तेः । इदमिह १५ संप्रधार्यम्-तानि करणानि चेतनानि वा स्युः, अचेतनानि वा ? यद्यचेतनानि; अचेतनत्वातेषां न मदकरं मद्यम् । यदि स्यात, प्रागेव स्वभाजनानां मदकरं स्यात् । अथ चेतनानि; पृथगनुपलब्धचैतन्यस्वभावानां पृथिव्यादीनां चेतनाद्रव्यसंबन्धत्वादेव चैतन्यव्यपदेश इत्यात्मगुणस्यैव मोहकरत्वं सिद्धम् । __अथ मतमेतत्-पृथिव्यादीनामेव संयोगविशेषे सति पिष्टकिण्वोदकादि समाहारे मद- २० शक्तिव्यक्तिवत् सुखदुःखाद्यभिव्यक्तिरिति; नैतद्युक्तम्। रूपादिवैधात् । रूपादयो हि पृथिव्यादिगुणाः सन्तो विभक्तेष्वविभक्तेषु च क्रमेणैव हानिमास्कन्दन्ति । न च तथा शरीरावयवेषु विभक्तेष्वविभक्तेषु च सुखादीनां क्रमेणैव हानिः, युगपच्चोपलभ्यते, तस्मान्न पृथिव्यादिगुणाः।
किञ्च, यदि पृथिव्यादिगुणाः सुखादयो 'ननु शवशरीरावस्थायामप्युपलभ्यरेन् रूपादि- २५ वत् । सूक्ष्मभूतापगमान्नोपलब्धिरिति चेत् ; भूयसां स्थूलानां संभवात् तदुपलब्धिः स्यात् ।
किञ्च, तदपाये तदनुपलब्धेस्तेषामेवर ते१२ गुणा इति; समुदायधर्मत्वाभावात् मद्यदृष्टान्तायुक्तिः ।
किञ्च, भूतसूक्ष्मास्तित्व (सूक्ष्मभूतास्तित्व) सिद्धिवद् आत्मसिद्धिरपि स्यात् ।
अथवा, तान्यन्तःकरणानि वा स्युः, बहिःकरणानि वा ? यदि बहिःकरणानि; तेषा- ३० मचेतनत्वात् व्यामोहाभावः । अथान्तःकरणानि; तेषामपि चेतनत्वम्, अचेतनत्वं वा स्यात्?
१ अमूर्तत्वा- प्रा०, २०, २०, मु०श्र०, ता० । २ -रात्मकत्वात् श्र०। -रात्मत्वात् ता० । -राशक्तत्वात् मु०, ब० ।-प्रशक्तत्वात् प्रा० । ३ -दिप- प्रा०, ब०, ८०, मु०। ४ प्रमूर्ति प्रति मु०। अमूर्तित्वं प्रति प्रा०, ब०, २०, मू०। ५ कर्मेन्द्रियाभि-प्रा०, ब०, ८०, मु०। ६कतः । ७ सुराबीजगुगदि । ८ लतादाविषु । ६ मवशव-प्रा०, ब०, २०, मु०, मू०।१०शरीरावयवानाम् । ११ सूक्मभूतानाम् । १२ सुखादयः। १३ चेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org