________________
११६ तत्त्वार्थवार्तिके
[२७ कजीवभावो नाम उपशान्तकषायो मनुष्यः । तृतीय औपशामिकक्षायिकसान्निपातिकजीवभावो नाम उपशान्तक्रोधः क्षायिकसम्यग्दृष्टि: । चतुर्थ औपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम उपशान्तकषायः अवधिज्ञानी। पञ्चम औपशमिकपारिणामिकसान्निपातिकजीव
भावो नाम उपशान्तदर्शनमोहो जीवः । द्वयोः क्षायिकयोः सन्निपातात् क्षायिकस्य चौदयिका५ दिभिः चतुभिरेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैक: क्षायिकक्षायिकसान्निपातिकजीवभावो नाम क्षायिकसम्यग्दृष्टि: क्षीणकषायः। द्वितीयः क्षायिकौदयिकसान्निपातिकजीवभावो नाम क्षीणकषायो मनुष्यः। तृतीयः क्षायिकौपशमिकसान्निपातिकजीवभावो नाम क्षायिकसम्यग्दृष्टिरुपशान्तवेदः । चतुर्थः क्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम क्षीण
कषायो मतिज्ञानी। पञ्चमः क्षायिकपारिणामिकसान्निपातिकजीवभावो नाम क्षीणमोहो १० भव्यः । द्वयोः क्षायोपशमिकयोः सन्निपातात् क्षायोपशमिकस्य चौदयिकादिभिश्चतुर्भि
रेकशः सन्निपातात् पञ्च भङगाः । तत्रैक: क्षायोपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम संयतः अवधिज्ञानी। द्वितीयः क्षायोपशमिकौदयिकसान्निपातिकजीवभावो नाम संयतो मनुष्यः । तृतीयः क्षायोपशमिकौपशमिकसान्निपातिकजीवभावो नाम संयत उपशान्त
कषायः। चतुर्थः क्षायोपशमिकक्षायिकसान्निपातिकजीवभावो नाम संयतासंयतः क्षायिक१५ सम्यग्दृष्टिः । पञ्चमः क्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम अप्रम
तसंयतो जीवः। द्वयोः पारिणामिकयोः सन्निपातात् पारिणामिकस्य चौदयिकादिभिः चतुर्भिरेकशः सन्निपातात् पञ्च भङगाः। तत्रैकः पारिणामिकपारिणामिकसान्निपातिक जीवभावो नाम जीवो भव्यः । द्वितीयः पारिणामिकौदयिकसान्निपातिकजीवभावो नाम जीवः
क्रोधी। तृतीयः पारिणामिकौपशमिकसान्निपातिकजीवभावो नाम भव्य उपशान्तकषायः । २० चतुर्थः पारिणामिकक्षायिकसान्निपातिकजीवभावो नाम भव्यः क्षीणकषायः । पञ्चमः
पारिणामिकक्षायोपशमिकसान्निपातिकजीवभावो नाम संयतो भव्यः (भव्यः संयतः)। एते द्विभावसंयोगाः पञ्चविंशतिस्त्रिभावसंयोगभङगा दश पूर्वोक्ताः पञ्चभावसंयोगेन चैकः । एते सपिण्डिताः षट्त्रिंशत् ।।
'पूर्वोक्तचतुर्भावसंयोगोत्पन्न'पञ्चभङगक्षेपाद् एत एव षड्विंशदेकचत्वारिंशद्भङगा २५ भवन्ति । एवमादयोऽन्ये च विकल्पा नेतव्या आगमाविरोधेन ।
__ औपशमिकाद्यात्मतत्त्वानुपपत्तिः, अतद्भावादिति चेत् न तत्परिणामात् ।२३। स्यान्मतम्-य एत औपशमिकादयो भावा एतेषामात्मतत्त्वव्यपदेशो नोपपद्यते । कुतः ? अतद्भावात् । सर्वे हि ते पौद्गलिकाः कर्मबन्धोदयनिर्जरापेक्षत्वादिति; तन्न; किं कारणम् ? तत्परिणामात् ।
पुद्गलद्रव्यशक्तिविशेष वशीकृत आत्मा तद्रञ्जनः संस्तन्निमित्तं यं यं परिणाममास्कन्दति यदा ३० तदा तन्मयत्वात्तल्लक्षण एव भवति। उक्तं च
*"परिणमदि जेण दव्वं तकालं तम्मयंति पण्णत्तं । तम्हा धम्मपरिणदो आदा धम्मो "मुणयन्वो ॥" [प्रवचनसा० ११८] इति । स परिणामोऽन्यद्रव्यासाधारणत्वाद् आत्मतत्त्वमित्याख्यायते।
१ततस्त एते प्रा०, ब०, २०, मु०। २ पूर्वोत्पन्न च- प्रा०, ब०, द०, मु०, मू०। ३ -गात्पञ्चपञ्चभङ्गसंक्षेपा-मा०, ब०, ८०, मु०१४ परिणमति येन द्रव्यं तत्कालं तन्मयमिति प्रज्ञप्तम् । तस्मात् धर्मपरिणत प्रात्मा धर्मो मन्तव्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org