Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 229
________________ तत्त्वार्थवार्तिके [ ३३८ धान्यमाषफलमेकम्, द्वे धान्यमाषफले गुञ्जाफलमेकम्, द्वे गुञ्जाफले रूप्यमाष एकः, षोडशरूप्यमाषकाः धरणमेकम्, अर्धतृतीयधरणानि सुवर्णः, स च कंसः, चत्वारः कंसाः पलम्, पलशतं तुला, अर्धकंसः त्रीणि च पलानि कुडवः, चतुःकुडवः प्रस्थः, चतुःप्रस्थ माढकम्, चतुराढकं द्रोणः, षोडश द्रोणा खारी, विंशति खार्यो वाह इत्यादि 'मागधकप्रमाणम् । मणिजात्यश्वादेर्द्रव्यस्य ५ दीप्त्युच्छ्राय गुणविशेषादिमूल्यपरिमाणकरणे प्रमाणमस्येति तत्प्रमाणम् । तद्यथा - मणिरत्नस्य दीप्तिर्यावक्षेत्रमुपरि व्याप्नोति तावत्प्रमाणं सुवर्णकूटं मूल्यमिति । अश्वस्य च यावानुच्छ्रायस्तावत्प्रमाणं सुवर्णकूटं मूल्यम् । यावता रत्नस्वामिनः परितोषः तावद्रत्नमूल्यम् एवमन्येषामपि द्रव्याणाम् । लोकोत्तरं चतुर्धा द्रव्यक्षेत्र कालभावभेदात् |४| लोकोत्तरं प्रमाणं चतुर्धा भिद्यते । १० कुतः ? द्रव्यक्षेत्र कालभावभेदात् । तत्र द्रव्यप्रमाणं जघन्यमध्यमोत्कृष्टम् एकपरमाणु द्वित्रिचतुरादिप्रदेशात्मकम् आमहास्कन्धात् । क्षेत्रप्रमाणं जघन्यमध्यमोत्कृष्टमेकाकाशद्वित्रिचतुरादिप्रदेशनिष्पन्नमा सर्वलोकात् । कालप्रमाणं जघन्यमध्यमोत्कष्टमेकद्वित्रिचतुरादिसमयनिष्पन्नम् आ अनन्तकालात् । भावप्रमाणमुपयोगः साकाराऽनाकारभेदः जघन्यः सूक्ष्मनिगोतस्य, मध्यमो - ऽन्यजीवानाम्, उत्कृष्टः केवलिनः । २०६ १५ तत्र द्रव्यप्रमाणं द्वेषा संख्योपमाभेदात् ॥५॥ संख्याप्रमाणमुपमाप्रमाणं चेति द्वेधा द्रव्यप्रमाणं विभज्यते । तत्र संख्याप्रमाणं त्रिधा संख्येयासंख्येयानन्तभेदात् । तत्र संख्येयप्रमाणं त्रेधा, इतरे द्वे नवधा नवधा ज्ञेये । जघन्यमजघन्योत्कृष्टमुत्कृष्टं चेति संख्येयं त्रिविधम् । संख्येयप्रमाणावगमार्थ जम्बूद्वीप तुल्यायामविष्कम्भा योजनसहस्रावगाहः बुद्धया कुशूलाश्चत्वारः कर्तव्याः - शलाका - प्रतिशलाका - महाशलाकाख्यास्त्रयोऽवस्थिताः चतुर्थोऽनवस्थितः । अत्र द्वो २० सर्षपौ निक्षिप्तो जघन्यमेतत्संख्येयप्रमाणम्, तमनवस्थितं सर्षपैः पूर्ण गृहीत्वा कश्चिद् देवः एकैकं सर्वमेकस्मिन् द्वीपे समुद्रे च प्रक्षिपेत् तेन विधिना स रिक्तः । रिक्त इति शलाकाकुशले एकं सर्षपं प्रक्षिपेत् । यत्र अन्त्यसर्षपो निक्षिप्तस्तमवधिं कृत्वा अनवस्थितं कुशूलं परिकल्प्य सर्षपैः पूर्ण कृत्वा ततः परेषु द्वीपसमुद्रेष्वेकैकसर्षपप्रदानेन स रिक्तः कर्तव्यः । रिक्त इति शलाकाकुले पुनरेकं प्रक्षिपेत् । अनेन विधिना अनवस्थितकुशूलपरिवर्धनेन शलाकाकुले २५ परिपूर्ण, पूर्ण इति प्रतिशलाकाकुशूले एकः सर्षपो निक्षेप्तव्यः । एवं तावत्कर्तव्यो यावत्प्रतिशलाकुशूल: परिपूर्णो भवति । परिपूर्णे इति महाशलाका कुशूले एकः सर्षपः प्रक्षेप्तव्यः । सोऽपि तथैव' परिपूर्णः । एवमेतेषु चतुर्ष्वपि पूर्णेषु उत्कृष्टसंख्येयमतीत्य जघन्यपरीतासंख्येयं गत्वैकं रूपं पतितम्, ततः एकस्मिन् रूपे अपनीते उत्कृष्टसंख्येयं भवति । मध्यममजघन्योत्कृष्टसंख्येयम् । यत्र संख्येयेन प्रयोजनं तत्राजघन्योत्कृष्टसंख्येयं ग्राह्यम् । यदसंख्येयं तत्त्रिविधं परीतासंख्येयं युक्तासंख्येयं असंख्येयासंख्येयं चेति । तत्र परीतासंख्येयं त्रिविधं जघन्योत्कृष्टमध्यमभेदात् । एवमितरे चाऽसंख्येये भिद्येते । I तथा अनन्तमपि त्रिविधं परीतानन्तं युक्तानन्तं अनन्तानन्तं चेति । तदपि प्रत्येकं पूर्ववस्त्रिधा भेद्यम् । यज्जघन्यपरीतासंख्येयं तद्विरलीकृत्य मुक्तावलीकृता अत्रैकैकस्यां मुक्तायां जघन्यपरीता संख्येयं देयम् । एवमेतद्वगितम् । प्राथमिकीं मुक्तावलीमपनीय "यान्येकैकस्यां मुक्तायां जघन्यपरीतासंख्येयानि दत्तानि तानि संपिण्ड्य मुक्तावली कार्या । ततो यो जघन्य ३० १ कुडुवः ता० भ०, मू० । २ नागरिकप्र- प्रा०, ब०, द०, मु० । मागधिकप्र - ता० । ३ नवधा ज्ञेये प्रा०, ब०, ६०, मु० । ४ पूर्णः श्र० म० । ५ यानेकैकस्याम् श्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454