Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith

Previous | Next

Page 277
________________ २५४ तत्त्वार्थवार्तिके [४॥४२ विशेषः यथा अनित्यमेव कृतकमिति अनित्यत्वस्याभावे कृतकत्वस्याप्यभाव एवेत्यवधारणात्, यत्कृतकं तत्सर्वमनित्यमिति, न हि सर्वप्रकारेण अनित्यत्वेन 'सर्वप्रकारं कृतकत्वं व्याप्यते किन्तु अनित्यत्वसामान्येन, नाऽनित्यत्वव्यक्तया घटपटरथादिगतयेति । एवं तर्हि त्वयैवाभ्युपगतं अवधारणनिष्फलत्वं सामान्याऽनित्यत्वेनाऽनित्यत्वं न विशेषाऽनित्यत्वेनेति । स्वगतेनापि विशेषेणानित्यं भवत्येवेति चेत् ; न; स्वगतेनेति विशेषणात्, परगतेन विशेषेणाऽनित्यत्वं न भवतीति आपद्यते, अनवधारणकं वा वाक्यं प्रयोक्तव्यम्-अनित्यं कृतकमिति । तथा चाऽनित्यस्याऽनवघृतत्वात् नित्यत्वप्रसङगोऽपि । एवं यद्यस्तित्वसामान्यनास्ति जीव: न तु पुद्गलादिगतयाऽस्तित्वव्यक्तया, अतो न पुद्गलाद्यस्तित्वेन अस्तित्वं जीवस्येति ब्रुवता त्वयैवाभ्युपगतं सामान्यरूपं विशेषरूपं चेति प्रकारवदस्तित्वमिति । तथा सति सामान्यास्तित्वेनास्ति विशेषास्तित्वेन नास्तीति स्यादस्ति स्यानास्तीति प्राप्तमवधारणनिष्फलत्वम् । सर्वेण हि प्रकारेणाऽस्तित्वाभ्युपगमे नास्तित्वनिरासेन अवधारणं फलवत् स्यात् । अनियमे तु अव्यावृत्तत्वात् पुद्गलाद्यस्तित्वेनापि प्रातिरित्यवश्यम् एकान्तवादिनाऽवधारणमभ्युपगमनीयम् । तथा च सति पूर्वोक्तो दोषः । स्यादेतत्-यदस्ति तत् स्वायत्तद्रव्यक्षेत्रकालभाव'रूपेण भवति नेतरेण तस्याऽ१५ प्रस्तुतत्वात् । यथा घटो द्रव्यतः पार्थिवत्वेन, क्षेत्रत इहत्यतया, कालतो वर्तमान कालसंबन्धितया, भावतो रक्तत्वादिना, न परायत्तैर्द्रव्यादिभिस्तेषामप्रसक्तत्वात्' इति । एवं चेत् द्रव्यक्षेत्रकालभावान्तरसंबन्धितया नास्तीत्यतः स्यादस्ति स्यानास्तीति सिद्धम। नियमानभ्यपगमे त स घटो न स्यादेव' असामान्यत्वे सति नियतद्रव्य क्षेत्रकालभावसंबन्धित्वेनाऽभूतत्वात् शशविषाणवत् । अनियतद्रव्यादिरूपत्वे वा सर्वथाभावात् २० सामान्यमेव स्यात् नासो घटः, अनियतद्रव्यादिरूपत्वात् महासामान्यवत् । कथम् ? यदि हि असौ द्रव्यतः पार्थिवत्वेन तथोदकादित्वेनापि भवेत्, ततोऽसौ घट एव न स्यात् पृथिब्युदकदहनपवनादिषु वृतत्वात् द्रव्यत्ववत् । तथा, यथा इहत्यतया अस्ति तथाविरोधिदिगन्तानियतदेशस्थतयापि यदि स्यात्तथा चासौ घट एव न स्यात् विरोधिदिगन्ताऽनियतसर्वदेशस्थत्वात् आकाशवत् । तथा, यथा वर्तमानघटकालतया अस्ति तथाऽतीतशिवकाद्यनागतकपालादिकालतयापि स्यात् तथा चाऽसौ घट एव न स्यात् सर्वकालसंबन्धित्वात् मृद्र्व्यवत् । यथा चेहदेशकालविशेषसंबन्धितया अस्मत्प्रत्यक्षत्वं तथा अतीतानागतकालान्यदेशसम्बन्धित्वेनाप्यस्मत्प्रत्यक्षत्वं स्यात्, उदकाद्यानयनादिसंव्यवहारपातित्वं वा । तथा, यथा नवत्वेन तथा पुराणत्वेन, सर्वरूपरसगन्धस्पर्शसंख्यासंस्थानादित्वेन वा स्यात् ; तथा चासो घट एव न स्यात् सर्वथाभावित्वात् भवनवत् । यथा हि भवनं रूपं रसो गन्धः स्पर्शश्च भवति पृथुः महान् ह्रस्वः पूर्णः रिक्तो वा भवतीति न कुतश्चित् वस्तुनो वस्तुधर्माद्वा व्यावर्तते तच्च न घटः, एवं घटोऽपि स्यात । एवं जीवस्यापि मनष्यत्वेनाऽlमाणस्य स्वद्रव्यादिरूपतयेवाऽस्तित्वं नेतरथा। यदीतरथापि स्यात्; मनुष्य एव न स्यात् नियतद्रव्यक्षेत्रकालभावसम्बन्धित्वेनाऽभूतत्वात् खरविषाणवत्। अनियतद्रव्यादिरूपत्वे वा सर्वथाभावात् सामान्य मेव स्यात् । नासौ मनुष्यः अनियतद्रव्यादिरूपत्वात् महासामान्यवत् । कथम् ? ३१ यदि हि असौ यथा जीवद्रव्यत्वेनाऽस्ति एवं पुद्गलादित्वेनापि स्यात् ततोऽसौ १ सर्वप्रकारः कृतक: व्या- मु०, द०। २ न त्वनि-- म०, ८०। ३ -भावेन भ- म०, व०। ४-मप्रस्तुतत्वात् मु०, ०। ५ -नास्ति। ६ सत्तासामान्यवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454