________________
४४२] चतुर्थोऽध्यायः
२५५ मनुष्य एव न स्यात्, पुद्गलादिष्वपि दृष्टत्वात् द्रव्यत्ववत् । तथा, यथा इहत्यतया अस्ति तथा विरोधिदिगन्तानियतदेशस्थतयापि यदि स्यात् ; तथा चासो मनुष्य एव न स्यात् विरोधिदिगन्तानियतसर्वदेशस्थत्वात् आकाशवत् । तथा, यथा वर्तमानकालतया अस्ति तथा अतीतनारकाद्यनागतदेवादिकालतयापि स्यात्, तथा चासौ मनुष्य एव न स्यात् सर्वकालसंबन्धित्वात् जीवत्ववत् । यथा च इह-देशकालविशेषसंबन्धितया अस्मप्रत्यक्षत्वं तथाऽतीतानागतकालान्यदेशसंबन्धि त्वेनापि अस्मत्प्रत्यक्षत्वं स्यात्, यथा यौवनेन " तथा वृद्धत्वेन अन्यद्रव्यगतरूपरसादिभिर्वा यदि स्यात् तथा चासौ मनुष्य एव न स्यात् सर्वथाभावित्वात् भवनवत् । तस्मात् स्यादस्ति स्यान्नास्ति ।
इतश्च स्यादस्ति स्यानास्ति स्वपरसत्ताभावाभावोभयाधीनत्वात् जीवस्य। यदि परसत्तया अभावं स जीवः स्वात्मनि नापेक्षते, अतः स जीव एव न स्यात् सन्मानं स्यात्, १० नासौ जीवः सत्त्वे सति विशेषरूपेण अनवस्थितत्वात् सामान्यवत् । तथा । परसत्ताभावापेक्षायामपि जीवत्वे यदि स्वसत्तापरिणति नापेक्षते तथापि तस्य वस्तुत्वमेव न स्यात् जीवत्वं वा, सद्भावापरिणतत्वे पराभावमात्रत्वात् खपुष्पवत्। अतः पराभावोऽपि स्वसत्तापरिणत्यपेक्ष एव अस्तित्वस्वात्मवत्'। यथा अस्तित्वस्वात्मा अस्तित्वस्वात्मना' अस्ति न नास्तित्वस्वात्मनेति स्यादस्ति, स्यान्नास्ति 'इतरथा हि वस्त्वभावः स्यात् । कथम् १५ अभावो हि भावनिरपेक्षोऽत्यन्तशून्यं वस्तु प्रतिपादयेत् अन्वयाप्रतिलम्भात् । भावोऽपि वा अभावनिरपेक्षः 'सर्वरूपं वस्तु प्रतिपादयेत् व्यतिरेकाप्रतिलम्भात् । न च सर्वथा सता सर्वाभावरूपेण वा शक्यं भवितुम् । किं हि वस्तु सर्वात्मकं सर्वाभावरूपं वा दृष्टमिति ? तद्धि वस्त्वेव न स्यात् सर्वाभावरूपत्वात् खपुष्पवत् । न च वस्तुत्वं सर्वात्मकत्वात् शक्यं प्रतिपत्तुम् असाधारणत्वात्, वस्तुत्वे चाऽवस्तुत्वे चाऽदर्शनात् श्रावणत्ववत् । अभावता हि भावरूप- २० "वलक्षण्यात् "क्रियागुणव्यपदेशाभावात् अवतिष्ठते । भावतापि अभाववैलक्षण्यात् क्रियागुण- व्यपदेशवत्त्वात् सिध्यतीति परस्परापेक्षे भावाभावरूपत्वे । अपि च, अभावः स्वसद्भावं भावाभावं च अपेक्षमाणः सिध्यति । भावोऽपि स्वसद्भावं अभावाभावं चाऽपेक्ष्य सिद्धिमुपयाति । यदि तु अभाव एकान्तेनाऽस्ति इत्यभ्युपगम्यत ततः सर्वात्मनाऽस्तित्वात् "स्वरूपवद्भावात्मनापि स्यात, तथा च भावाभावरूपसङकरादस्थितरूपत्वादुभयोरप्यभावः । अथ एकान्तेन नास्ति २५ इत्यभ्युपगम्येत ततो "यथा भावात्मना नास्ति तथा तथाऽभावात्मनापि न स्यात्, ततश्च अभावस्याऽभावात् भावस्याप्रतिपक्षत्वात् भावमात्रमेव स्यात् । तथा खपुष्पादयोऽपि भावा एव अभावाभावरूपत्वात् घटवत् इति सर्वभावप्रसङ्गः । एवं भावास्तित्वैकान्तेऽपि योज्यम् । तस्माद्भावः स्यादस्ति स्यान्नास्ति तथा अभावोऽपि। एवं जीवोऽपि स्यादस्ति स्यान्नास्तीत्यवसेयम्। ____ एवं "स्वात्मनि घटादिवस्तुसिद्धौ च भावाभावयोः परस्परापेक्षत्वात् यदुच्यते-१५ *"अर्थात् प्रकरणाद्वा घटे अप्रसक्तायाः पटाविसत्तायाः किमिति निषेधः क्रियते" ? [ ।
१ परसत्ताया मु०, द०। २-त्वे वापरा- मु०, ८० । ३ स्वरूपवत् । ४ - मनेति स्याश्र०, मू०। -त्मनास्ति नास्ति च नास्तित्व- मु०, ०। ५ नास्तित्वस्वात्मना नास्ति।" ६ -ज्यं च वस्तु ब०, मु०। ७-येदन्यदन्वयाप्रति- मु०, २०। ८ सामा- भा०२। ६ घटपटादि। १० अनित्यः शम्बः श्रावणत्वात्, नित्यः शम्बः श्रावणत्वात् । ११-पत्वव-२०, म०। १२ वैलक्षण्यं कीदशमित्युक्ते प्रतिपादयन्नाह-। १३ प्रभावस्वरूपवत् । १४ सतोऽयं-- म०, ०। १५ अभावरूपे। १६ परेण ।
.
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org