Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith

Previous | Next

Page 231
________________ २०८ तरवार्थवार्तिके [३३३० प्रमाणाङगुलं भवति । एतदेव चावसर्पिण्यां प्रथमचक्रधरस्याऽऽत्माङगुलं भवति । तदानीं तेन ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । इतरेषु युगेषु मनुष्याणां यद्यदात्माङगुलं तेन तेन तदा ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । यत्तत्प्रमाणाङगुलं तेन द्वीपसमुद्रजगतीवेदिकापर्वतविमाननरकप्रस्ताराद्यकत्रिमद्रव्यायामविष्कम्भादिपरिच्छेदोऽवसेयः । तत्र षडङगुल: पाद: । द्वाद५ शाङगुलो वितस्तिः । द्विवितस्तिः हस्तः । द्विहस्त: किष्कुः । द्विकिष्कुर्दण्डः । द्वे दण्डसहस्रे गव्यूतम् । चतुर्गव्यूतं योजनम् ।। पल्यं त्रिविधं व्यवहारोद्धाराद्धाविकल्पादन्वर्यात् ।७। व्यवहारपल्यम् उद्धारपल्यम् अद्धापल्यमिति त्रिधा पल्यं विभज्यते । अन्वर्थश्चायं विकल्पः। आद्यं व्यवहारपल्यमुत्तरपल्यव्यवहारबीजत्वान्नानेन किञ्चित्परिच्छेद्यमस्ति । द्वितीयमुद्धारपल्यंतत उद्धृतर्लोमच्छेदैर्वीपसमुद्रसंख्यानिर्णय इति । तृतीयमद्धापल्यं अद्धाकाल इत्यर्थः। अतो हि स्थितेः परिच्छेदः इति । तद्यथा-प्रमाणाङगुलपरिमितयोजनायामविष्कम्भावगाहानि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादिसप्तान्ताहोरात्रिजाताविकलोमाग्राणि तावच्छिन्नानि यावद् द्वितीयं कर्तरीच्छेदं नावाप्नुवन्ति । तादृशेर्लोमच्छेदैः परिपूर्ण धनीकृतं व्यवहारपल्यमित्युच्यते । ततो वर्षशते 'वर्षशते अतीते एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत् तावत्कालो व्यवहारपल्योपमाख्यः । १५ तैरेव रोमच्छेदैः प्रत्येकमसंख्येयवर्षकोटिसमयमात्रच्छिन्नैः पूर्णमुद्धारपल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवेत् तावत्काल: उद्धारपल्योपमाख्यः । एषामुद्धारपल्यानां दशकोटीकोट्यः एकमुद्धारसागरोपमम् । अर्धतृतीयोद्धारसागरोपमाणां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः । पुनरुद्धारपल्यरोमच्छेदैर्वर्षशतसमयमात्र च्छिन्नैः पूर्णमद्धापल्यम् । ततः समये समये एककस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन २० तद्रिक्तं भवति तावत्काल: अद्धापल्योपमाख्यः । एषामद्धापल्यानां दशकोटीकोटय एकमद्धासा गरोपमम् । दशाद्धासागरोपमकोटीकोट्य एकाऽवसर्पिणी, तावत्येवोत्सर्पिणी। अनेन अद्धापल्येन नारकतर्यग्योनानां देवमनुष्याणां च कर्मस्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या । अद्धापल्यस्याऽर्द्धच्छेदेन शलाकाविरलीकृत्य प्रत्येकमद्धापल्यप्रदानं कृत्वा अन्योऽन्यगुणिते कृते यावन्तश्छेदास्तावद्भिराकाशप्रदेशमुक्तावली कृता सूच्यङगुलमित्युच्यते । २५ तदेवाऽपरेण सूच्यङगुलेन गुणितं प्रतराङगुलम् । तत्प्रतराङगुलमपरेण सूच्यङगुलेनाऽभ्यस्तं' घनाङगुलम् । असंख्येयानां वर्षाणां यावन्तः समयास्तावत्खण्डमद्धापल्यं कृतम्, ततोऽसंख्येयान् खण्डानपनीयाऽसंख्येयमेकं भागं बुद्धया विरलीकृत्य एककस्मिन् घनाङगुलं दत्त्वा 'परस्परेण गुणिता' जाता जगच्छृणी। सा अपरया जगच्छ् ण्या अभ्यस्ता प्रतरलोकः । स एवाऽपरया जगच्छ् ण्या संवर्गितो घनलोकः । क्षेत्रप्रमाणं द्विविधम्-अवगाहक्षेत्रं विभागनिष्पन्नक्षेत्रं चेति । तत्रावगाहक्षेत्रमनेकविधम्-एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तप्रदेशपुद्गलद्रव्यावगाह्येकाद्यसंख्येयाकाशप्रदेशभेदात् । विभागनिष्पन्नक्षेत्रं चाऽनेकविधम्-असंख्येयाकाशश्रेणयः, क्षेत्रप्रमाणाङगुलस्यकोऽसंख्येयभागः, असंख्येयाः क्षेत्रप्रमाणाङगुलाऽसंख्येयभागाः क्षेत्रप्रमाणाङगुलमेकं भवति। पादवितस्त्यादि पूर्ववद्वेदितव्यम् । कालप्रमाणमुच्यते-सर्वजघन्यगतिपरिणतस्य परमाणो: स्वावगाढप्रदेशव्यतिक्रमकाल: परमनिषिद्धो निर्विभागः समयः । असंख्येयाः समयाः आवलिका । असंख्ययावलिका -मेषलोमानीत्यर्थः। २-वर्षशतेऽपनीते ता०, द० । ३-गुणितम् । ४-परस्सरगुणिता श्र० । ५-ता जग-प्रा०, ब०, द०, मु०। ६-पक्तयः । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454