Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 249
________________ २२६ तत्त्वार्थवार्तिके [४१९ सहस्राणि देवानां पञ्चपल्योपमायुषाम् । चन्द्रा नाम मध्यपरिषत् चतुर्दशसहस्राणि देवानां चतुःपल्योपमायुषाम् । जातुर्नाम बाह्यपरिषत् षोडशसहस्राणि देवानां त्रिपल्योपमायुषाम् । आभ्यन्तरपरिषदि देवानामेकैकस्य देवस्य देव्यः सप्तशतसंख्या अर्धतृतीयपल्योपमस्थितयः । मध्यमपरिषदि देवानामेकैकस्य देवस्य देव्यः षट्शतसंख्याः द्विपल्योपमस्थितयः । बाह्य५ परिषदि देवानामेकैकस्य देवस्य देव्यः पञ्चशतसंख्याः अध्यर्धपल्योपमस्थितयः, तावदेवी रूपविकरणसमर्थाः। अष्टानामपि अग्रमहिषीणामभ्यन्तरपरिषत् सप्तदेवीशतानि। मध्यमपरिषत् षड्देवीशतानि । बाह्यपरिषत् पञ्चदेवीशतानि । एतासु तिसृषु अपि परिषत्सु देव्यः अर्धतृतीयपल्योपमस्थितयः ।. पदात्यश्वगजवृषभरथनर्तकीगन्धर्वाख्यानि सप्तानी कानि पल्योपमस्थितीनि। अनीकमहत्तराश्च पल्योपमायुषः । तत्र वायु म पदात्यनीक१० महत्तरः सप्तभिः कक्षाभिः परिवृतः। प्रथमा कक्षा चतुरशीतिः पदातिशतसहस्राणि । द्वितीया तद्विगुणा। एवं द्विगुणा' द्विगुणा पदातिसंख्या आसप्तम्याः । हरिरश्वानीकमहत्तरः । ऐरावतो गजानीकमहत्तरः । दामयष्टिर्वृषभानीकमहत्तरः । मातली रथानीकमहत्तरः । नीलाञ्जना नर्तकीगणमहत्तरिका। अरिष्टयशस्को नाम 'गन्धर्वानीकमहत्तरः। एषां षण्णामप्यनीकानां संख्या पदातिसंख्यया तुल्या, सैषा विक्रियाकृता। प्राकृती तु १५ एकैकस्यानीकस्य षट्छतसंख्या। तेषां प्राकृतानां देवानां प्रत्येकं षट्छतसंख्यानामेकैकस्य देवस्य षदेवीशतानि । एकैका चात्र देवी षड्देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । सप्तानामप्यनीकमहत्तराणामेकैकस्य षदेवीशतानि । एकैका चात्र देवी देवीषड्पविकरणसमर्था अर्धपल्योपमस्थितिका। आत्मरक्षाणां चतुरशीतिसहस्रसंख्यानां पल्योपमायुषामेककस्य द्वे द्वे देवीशते । एकैका चात्र देवी षड देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । शक्रस्य बालको नामाऽऽभियोग्यः पल्योपमायः, जम्बद्वीपप्रमाणायामयानविमानविक्रियासमर्थः । तस्य षड्देवीशतानि । एकैका चात्र षड देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका। प्राच्यां दिशि स्वयंप्रभे विमाने सोमो लोकपाल: अर्धतृतीयपल्योपमायुः । तस्य चत्वारि सामानिकसहस्राणि अर्धतृतीयपल्योपमाyषि। चत्वारि देवीसहस्राणि अर्धतृतीयपल्योपमायूंषि। चतस्रोऽयमहिष्यः अर्धतृतीयपल्योपमायुषः । सोमस्याभ्यन्तर२५ परिषत ईवा नाम पञ्चपञ्चाशददेवाः सपादपल्योपमायषः । दढा नाम मध्यमपरिषत चत्वारि देवशतानि सपादपल्योपमायूंषि । चतुरन्ता नाम बाह्यपरिषत् पञ्चदेवशतानि सपादपल्योपमायषि । अपाच्यां दिशि वरज्येष्ठे विमाने यमो नाम लोकपालः । शेषं सोमवत्। प्रतीच्यां दिशि अञ्जने विमाने वरुणो नाम लोकपाल: पादोनत्रिपल्योपमायुः। ईषा नाम तस्याऽभ्यन्तरपरिषत् षष्टिर्देवा अध्यर्वपल्योपमायुषः । मध्या दृढा पञ्चदेवशतानि देशोनाध्यपल्योपमायूंषि । बाह्या चतुरन्ता षड देवशतानि देशाधिकाध्यर्धपल्योपमायूंषि । तिसृष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः। शेषं सोमवत् । उदीच्यां दिशि वल्गविमाने वैश्रवणो नाम लोकपाल: त्रिपल्योपमायुः, तस्याऽभ्यन्तरपरिषत् ईषा, सप्ततिर्देवाः अध्यर्धपल्योपमायुषः। मध्या दृढा षड् देवशतानि देशोनाध्यर्धपल्योपमायूंषि। बाह्या चतुरन्ता सप्तदेवशतानि सपादपल्योपमायूंषि । तिसष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः । १-णद्विगु- ध० । २ गान्धर्वानी- श्र०। ३- णायामविमा-द०। -णयानवि- प्रा०, ब०, म०। ४-यूषि चतुर्णामपि लोकपालानां चत- प्रा०, ब०,८०, म०। ५ शेषः सो- ता०, ०। ६ स्वभत स्थित्यर्षस्थितयो ता०, १०, म०, द० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454