________________
२२६ तत्त्वार्थवार्तिके
[४१९ सहस्राणि देवानां पञ्चपल्योपमायुषाम् । चन्द्रा नाम मध्यपरिषत् चतुर्दशसहस्राणि देवानां चतुःपल्योपमायुषाम् । जातुर्नाम बाह्यपरिषत् षोडशसहस्राणि देवानां त्रिपल्योपमायुषाम् । आभ्यन्तरपरिषदि देवानामेकैकस्य देवस्य देव्यः सप्तशतसंख्या अर्धतृतीयपल्योपमस्थितयः । मध्यमपरिषदि देवानामेकैकस्य देवस्य देव्यः षट्शतसंख्याः द्विपल्योपमस्थितयः । बाह्य५ परिषदि देवानामेकैकस्य देवस्य देव्यः पञ्चशतसंख्याः अध्यर्धपल्योपमस्थितयः, तावदेवी
रूपविकरणसमर्थाः। अष्टानामपि अग्रमहिषीणामभ्यन्तरपरिषत् सप्तदेवीशतानि। मध्यमपरिषत् षड्देवीशतानि । बाह्यपरिषत् पञ्चदेवीशतानि । एतासु तिसृषु अपि परिषत्सु देव्यः अर्धतृतीयपल्योपमस्थितयः ।. पदात्यश्वगजवृषभरथनर्तकीगन्धर्वाख्यानि सप्तानी
कानि पल्योपमस्थितीनि। अनीकमहत्तराश्च पल्योपमायुषः । तत्र वायु म पदात्यनीक१० महत्तरः सप्तभिः कक्षाभिः परिवृतः। प्रथमा कक्षा चतुरशीतिः पदातिशतसहस्राणि ।
द्वितीया तद्विगुणा। एवं द्विगुणा' द्विगुणा पदातिसंख्या आसप्तम्याः । हरिरश्वानीकमहत्तरः । ऐरावतो गजानीकमहत्तरः । दामयष्टिर्वृषभानीकमहत्तरः । मातली रथानीकमहत्तरः । नीलाञ्जना नर्तकीगणमहत्तरिका। अरिष्टयशस्को नाम 'गन्धर्वानीकमहत्तरः।
एषां षण्णामप्यनीकानां संख्या पदातिसंख्यया तुल्या, सैषा विक्रियाकृता। प्राकृती तु १५ एकैकस्यानीकस्य षट्छतसंख्या। तेषां प्राकृतानां देवानां प्रत्येकं षट्छतसंख्यानामेकैकस्य
देवस्य षदेवीशतानि । एकैका चात्र देवी षड्देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । सप्तानामप्यनीकमहत्तराणामेकैकस्य षदेवीशतानि । एकैका चात्र देवी देवीषड्पविकरणसमर्था अर्धपल्योपमस्थितिका। आत्मरक्षाणां चतुरशीतिसहस्रसंख्यानां पल्योपमायुषामेककस्य द्वे द्वे देवीशते । एकैका चात्र देवी षड देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । शक्रस्य बालको नामाऽऽभियोग्यः पल्योपमायः, जम्बद्वीपप्रमाणायामयानविमानविक्रियासमर्थः । तस्य षड्देवीशतानि । एकैका चात्र षड देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका। प्राच्यां दिशि स्वयंप्रभे विमाने सोमो लोकपाल: अर्धतृतीयपल्योपमायुः । तस्य चत्वारि सामानिकसहस्राणि अर्धतृतीयपल्योपमाyषि। चत्वारि देवीसहस्राणि
अर्धतृतीयपल्योपमायूंषि। चतस्रोऽयमहिष्यः अर्धतृतीयपल्योपमायुषः । सोमस्याभ्यन्तर२५ परिषत ईवा नाम पञ्चपञ्चाशददेवाः सपादपल्योपमायषः । दढा नाम मध्यमपरिषत चत्वारि
देवशतानि सपादपल्योपमायूंषि । चतुरन्ता नाम बाह्यपरिषत् पञ्चदेवशतानि सपादपल्योपमायषि । अपाच्यां दिशि वरज्येष्ठे विमाने यमो नाम लोकपालः । शेषं सोमवत्। प्रतीच्यां दिशि अञ्जने विमाने वरुणो नाम लोकपाल: पादोनत्रिपल्योपमायुः। ईषा नाम तस्याऽभ्यन्तरपरिषत् षष्टिर्देवा अध्यर्वपल्योपमायुषः । मध्या दृढा पञ्चदेवशतानि देशोनाध्यपल्योपमायूंषि । बाह्या चतुरन्ता षड देवशतानि देशाधिकाध्यर्धपल्योपमायूंषि । तिसृष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः। शेषं सोमवत् । उदीच्यां दिशि वल्गविमाने वैश्रवणो नाम लोकपाल: त्रिपल्योपमायुः, तस्याऽभ्यन्तरपरिषत् ईषा, सप्ततिर्देवाः अध्यर्धपल्योपमायुषः। मध्या दृढा षड् देवशतानि देशोनाध्यर्धपल्योपमायूंषि। बाह्या चतुरन्ता सप्तदेवशतानि सपादपल्योपमायूंषि । तिसष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः ।
१-णद्विगु- ध० । २ गान्धर्वानी- श्र०। ३- णायामविमा-द०। -णयानवि- प्रा०, ब०, म०। ४-यूषि चतुर्णामपि लोकपालानां चत- प्रा०, ब०,८०, म०। ५ शेषः सो- ता०, ०। ६ स्वभत स्थित्यर्षस्थितयो ता०, १०, म०, द० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org