________________
४.१९] चतुर्थोऽध्यायः
२२५ कृतो भवति । इतरथा हि लघ्वर्था वृत्तिः क्रियेत । किमिदमनुदिशमिति ? प्रतिदिशमित्यर्थः । दिक्शब्दस्य शरत्प्रभृतिषु' पाठात् 'ड: (ट:) अनुदिशं विमानानि अनुदिशविमानानि । आकारान्तो वा दिशाशब्दो दिक्पर्यायवाची इति तेनानोवृत्तिः ।
उपर्यु परीत्यनेन द्वयोर्द्वयोरभिसंबन्धः ।६। आगमाऽपेक्षया व्यवस्था भवति इति उपर्युपरीत्यनेन द्वयोर्द्वयोरभिसंबन्धो वेदितव्यः । प्रथमौ सौधर्मेशानकल्पौ, तयोरुपरि सानत्कुमार- ५ माहेन्द्रौ । तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ । तयोरुपरि लान्तवकापिष्ठी । तयोरुपरि शुक्रमहाशुक्रौ। तयोरुपरि शतारसहस्रारौ । तयोरुपरि आनतप्राणतौ । तयोरुपरि आरणाऽच्युतौ ।
प्रत्येकमिन्द्रसंबन्धो मध्ये प्रतिद्वयम् ७। प्रत्येकमिन्द्रसंबन्धो वेदितव्यः, मध्ये प्रतिद्वयम् । सौधर्मशानकल्पयोविन्द्रौ। सानत्कुमारमाहेन्द्रयोद्वौं । ब्रह्मलोकब्रह्मोत्तरयोरेकः "ब्रह्मा नाम। लान्तवकापिष्ठयोरेको लान्तवाऽऽख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसंज्ञः । १० शतारसहस्रारयोरेकः शतारनामा । आनतप्राणतयोद्वौं । आरणाऽच्युतयोद्वौं।
तथा चोत्तरयोः पृथग्वचनमर्थवत् ।८। एवं कृत्वा उत्तरयोः पृथग्वचनमर्थवत् भवतिआनतप्राणतयोरारणाऽच्युतयोरिति । इतरथा हि लघ्वर्थ एक एव द्वन्द्वः क्रियेत। तद्यथाअस्माद् भूमितलान्नवनवतिर्योजनसहस्राणि चत्वारिंशच्च योजनान्युत्पत्य' सौधर्म शानकल्पी भवतः । तयोरेकत्रिंशद् विमानप्रस्तारा:-ऋतु-चन्द्र-विमल-वल्गु-वीर-अरुण-नन्दन-नलिन- ।। लोहित-काञ्चन-वञ्चन्-मारुत-ऋद्धीश-वैडूर्य-रुचक-रुचिर-अडक-स्फटिक-तपनीय-मेघ-हारिद्रपद्म-लोहिताक्ष-वज्र-नन्द्यावर्त-प्रभङकर-पिष्टक-गज-मस्तक-चित्रप्रभासंज्ञाः । मन्दरचूलिकाया उपरि ऋतुविमानम्, तयोरन्तरं वालाग्रमात्रम् । ऋतुविमानाच्चतसृषु दिक्षु चतस्रो विमानश्रेण्यो निर्गताः, प्रत्येकं द्विषष्टिविमानसंख्याः। विदिक्षु पुष्पप्रकीर्णकविमानानि । एवम् एकैकश्रेणीविमानहानिराप्रभाविमानाद्वेदितव्या । एकैकप्रस्तारान्तरमसंख्येयानि १० योजनशतसहस्राणि। तत्र प्रभासंज्ञादिन्द्रकविमानाद् दक्षिणस्यां दिशि श्रेण्यां द्वात्रिंशद्विमानसंख्यायामष्टादशं श्रेणीविमानं तत्कल्पविमानम् । तस्य स्वस्तिक-वर्धमान-विश्रुताख्यास्त्रयः प्राकाराः। तत्र बाह्यप्राकारान्तरनिवासीनि अनीकानि पारिषदाश्च । मध्यप्राकारान्तरनिवासिन स्त्रिदशसचिवाः, अभ्यन्तरप्राकारनिवासी देवराजः शक्रः सौधर्म इति चोच्यते । तस्य विमानस्य चतसृषु दिक्षु चत्वारि नगराणि-काञ्चन-अशोकमन्दिर-मसार-गल्वसंज्ञानि। तस्य द्वात्रिंशद्विमानशतसहस्राणि, त्रयस्त्रिशत् त्रायस्त्रिशाः, चतुरशीतिरात्मरक्षसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चतुरशीतिः' सामानिकसहस्राणि, चत्वारो लोकपालाः, पद्मा शिवा सुजाता सुलसा अञ्जुका कालिन्दी श्यामा भानुरित्येता अष्टावग्रमहिष्यः। अन्यानि चत्वारिंशद्वल्लभिकानां देवीनां सहस्राणि । सर्वाश्चैता अग्रमहिष्यो वल्लभिकाश्च प्रत्येक पञ्चपल्योपमस्थितिकाः षोडशदेवीसहस्रपरिवृताः। एकैका चाऽग्रमहिषी वल्लभिका च १० षोडशदेवीरूपसहस्रविकरणसमर्था। तत्र शक्रस्याभ्यन्तरपरिषत् समिता नाम, द्वादश
१- षु उपादाना पाठात् - प० ।-षु उपादानात् अ-प्रा०, ब०, ८०, मु०। "हे शरदादेः" जनंद्र० ४।२।१०६। २-ढ: म०।३ अनशब्दस्य समासः-स० । तानि लक्ष्मीलक्ष्मीमालिकवरेवकरोचनकसोमसोमरूप्याडकपल्यडकादित्याख्यानि मध्यभूतेन्द्रकविमानस्य अष्टदिगानगत्येन भवनादन्वर्थानि इति ज्ञातव्यम् । तत्साहवर्यादिन्द्रा अपि अनुदिशाख्याः प्रोच्यन्ते । ४ ब्रह्मनामा प्रा०, ब०, ८०, मू० । ५- प्लुत्य प्रा०, ब०, ८०, मू०। ६ -मेघाभ्रहा-श्र०। ७ सौधर्म। ८-सिनस्त्रास्त्रिशाः विमानाभ्य-प्रा०, ब०, द०, म०। ६-तिसा-श्र०, मू० ।
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org