________________
२२४ तत्वार्थवार्तिके
[१६ 'चातुरथिनाऽणा स्वभावतो वा कल्पाभिधानम् ।। चातुर्थिकेन अणा स्वभावतो वा कल्पस्याभिधानं भवति । अथ कथमिन्द्राभिधानम् ?
स्वभावतः साहचर्या द्वा इन्द्राभिधानम् ।२। स्वभावतो वा साहचर्याद्वा इन्द्राभिधानं द्रष्टव्यम् । तत्कथमिति चेत् ? उच्यते-सुधर्मा नाम सभा, सा अस्मिन्नस्तीत्यण सौधर्मः कल्पः, ५ "तदस्मिन्" [जैनेन्द्र ० ३।२।५८] इत्यण् तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः । ईशानो नाम
इन्द्रः स्वभावतः, ईशानस्य निवासः कल्प: ऐशानः, *"तस्य निवासः' [जैनेन्द्र० ३।२।६०] इत्यम्, तत्साहचर्यादिन्द्रोऽपि ऐशानः । सनत्कुमारो नाम इन्द्रः स्वभावतः, तस्य निवासः कल्पः सानत्कुमारः, तत्साहचर्यादिन्द्रोऽपि सानत्कुमारः । महेन्द्रो नाम इन्द्रः स्वभावतः, तस्य
निवास: कल्पः माहेन्द्रः, तत्साहचर्यात् इन्द्रोऽपि माहेन्द्रः । ब्रह्मा इन्द्रः तस्य लोको ब्रह्मलोकः १० कल्पः, एवं ब्रह्मोत्तरश्च । ब्रह्मणः इन्द्रस्य निवासः ब्राह्म इति कल्पाभिधानं भवति, तत्साह
चर्याद ब्राह्म इतीन्द्रस्याऽभिधानम् । लान्तवस्य इन्द्रस्य निवासः लान्तवः कल्पः, तत्साहचर्याद्वा इन्द्रोऽपि लान्तवः । शुक्रस्य इन्द्रस्य निवासः शौक्रः कल्पः, तत्साहचर्यात् इन्द्रोऽपि शौक्रः । अथवा शुक्रः कल्पः, तत्साहचर्यात् इन्द्रोऽपि शुक्रः । शतारस्येन्द्रस्य निवासः शातार इति कल्पः,
तत्साहचर्यादिन्द्रोऽपि शातारः, । अथवा शतारः कल्पः तत्साहचर्यात् इन्द्रोऽपि शतारः । १५ सहस्रारस्याप्येवम् । आनतस्येन्द्रस्य निवासः आनतः कल्पः, तत्साहचर्यात् इन्द्रोऽपि आनतः ।
अथवा आनतः कल्पः, तत्साहचर्यात् इन्द्रोऽप्यानतः । प्राणतस्य इन्द्रस्य निवासः प्राणतः कल्प: तत्साहचर्यात् इन्द्रोऽपि प्राणतः । अथवा प्राणतः कल्पः तत्सहचरित इन्द्रोऽपि प्राणतः । आरणस्य इन्द्रस्य निवास: आरणः कल्पः, तत्साहचर्यात् इन्द्रोऽप्यारणः । अथवा आरणः कल्पः,
तत्सहचरित इन्द्रोऽप्यारणः । अच्युतस्येन्द्रस्य निवासः आच्युतः कल्पः,तत्साहचर्यात् इन्द्रोऽप्या२० च्युतः । अथवा अच्युतः कल्पः, तत्सहचरित इन्द्रोऽप्यच्युतः । लोकपुरुषस्य ग्रीवास्थानीयत्वात्
ग्रीवाः ग्रीवासु भवानि ग्रैवेयकाणि विमानानि, 'तत्साहचर्यात् इन्द्रा अपि अवेयकाः । विजयादयोऽन्वर्थसंज्ञाः अभ्युदयविघ्नहेतुविजयात् । सर्वार्थानां सिद्धेश्च, विजयादीनि विमानानि, तत्साहचर्यात् इन्द्रा अपि विजयादिनामानः ।
अथ किमर्थ सर्वार्थसिद्धस्य पृथग्ग्रहणं न तैः सह द्वन्द्वः कर्तव्यः ?
सर्वार्थसिद्धस्य पृथग्ग्रहणं स्थित्यादिविशेषप्रतिपत्त्यर्थम् ।३। विजयादिषु चतुर्षु जधन्या स्थितित्रिंशत्सागरोपमाः साधिकाः; उत्कृष्टा त्रयस्त्रिशत्सागरोपमाः । सर्वार्थसिद्धे'जघन्योत्कृष्टा च त्रयस्त्रिशत्सागरोपमा। यः प्रभावः सर्वार्थसिद्धे'कदेवस्य नासो सर्वविजयादिदेवानाम् इत्येवमादिविशेषप्रतिपत्त्यर्थ विजयादिभ्यः सर्वार्थसिद्धस्य पृथग्ग्रहणं क्रियते ।
___अवेयकादीनां पृथग्ग्रहणं कल्पातीतत्वनिपिनार्थम् ।४। 'सौधर्मादयः अच्युतान्ता द्वादश ३० कल्पाः, ततोऽन्ये कल्पातीता इत्येतस्य निपिनार्थ ग्रैवेयकादीनां पृथक् ग्रहणं क्रियते ।
नवशब्दस्य वृत्त्यकरणं अनुदिशसूचनार्थम् ।५। नवशब्दस्य ग्रैवेयकशब्देन वृत्तिः कर्तव्या नववेयकेष्विति, तदकरणम् अन्यान्यपि नव सन्ति इत्येतस्य सूचनार्थम्, तेन अनुदिशसंग्रहः
२५
१ तदस्मिन्नस्ति तेन निवृत्तः तस्य निवासोऽदूरभवो वैति। २-तारः मान-- १०, मू०, ता०, २० । ३ उपयु परि एककवृत्त्या व्यवस्थितानि सुदर्शनामोधसुबुद्धपयोषरसुभद्रसुविशालसुमनःसौमनसप्रियकराख्यानि नव भवन्ति । ४ -वेर्जध-प्रा०। ५ -माः यः मु०।६-द्वपकवे-ता०, ज०, म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org