________________
२२३ .
४॥१७-१६]
चतुर्थोऽध्यायः
कल्पोपपन्नाः कल्पातीताश्च ॥१५॥ कल्पेषूपपन्नाः कल्पोपपन्नाः, कल्पानतीताः कल्पातीताः । अवेयकादिषु नवादिकल्पनासंभवात् कल्पत्वप्रसङग इति चेत् ; न; उक्तत्वात् ।।
स्यान्मतम्-नवग्रैवेयका नवानुदिशाः पञ्चानुत्तराः इति च कल्पनासंभवात् तेषामपि कल्पत्वप्रसङ्ग इति; तन; कि कारणम् ? उक्तत्वात् । उक्तमेतत्-इन्द्रादिदशतयकल्पना- ५ सद्भावात् कल्पा इति । नवग्रैवेयकादिषु इन्द्रादिकल्पना नास्ति तेषामहमिन्द्रत्वात् । तेषामवस्थानविशेषनिर्ज्ञानार्थमाह
उपर्युपरि ॥१८॥ उपर्युपरिवचनमतिर्यगसमस्थितिप्रतिपत्त्यर्थम् ।१॥ न ज्योतिष्कवत्तिर्यगवस्थिता नापि व्यन्तरवदसमस्थितय इति प्रतिपत्त्यर्थमुपर्युपरीत्युच्यते । कथमत्र द्वित्वम् ? "सामीप्येषोऽध्य- १० परि" [जैनेन्द्र ० ५।३।५] इति । ननु च, नात्र सामीप्यमस्ति असंख्येययोजनान्तरत्वात्तेषाम् ; नैष दोषः; तुल्यजातीयेनाऽव्यवधानं सामीप्यम् । न च तेषां तुल्यजातीयं व्यवधायकं विवक्षितम् । इदं विचार्यते-किमत्राधेयत्वेन कल्प्यमाना देवाः, उत विमानानि, आहोस्वित् कंल्पा इति, किंर वा कामचार: ?
देवा इति चेत् ; न; अनिष्टत्वात् ।२। यदि देवा उपर्युपरीत्यनेनाभिसंबध्यन्ते; तन्न; १५ किं कारणम् ? अनिष्टत्वात् । देवानां हि उपर्युपरि अवस्थानमनिष्टम् ।
विमानानि इति चेत् ; न; श्रेणिप्रकीर्णकानां तिर्यगवस्थानात् ।। अथ विमानान्युपयु परीति कल्प्यन्ते; तदपि नोपपद्यते; श्रेणिप्रकीर्णकानां तिर्यगवस्थानात् । श्रेणिविमानानि पुष्पप्रकीर्णकविमानानि च प्रतीन्द्रकं तिर्यगवस्थितानि इति इहेष्यन्ते।
कल्पा इति चेददोषः।४। यदि कल्पाः; न दोषो भवति । 'यथा न दोषः तथास्तु' कल्पा २० हि उपर्यु परिस्थिता इति ।
उपसर्जनत्वादनभिसंबन्ध इति चेत्, न; दृष्टत्वात् ५। स्यादेतत्-कल्पोपपन्ना इत्यत्र कल्पग्रहणमुपसर्जनं तेनात्र संबन्धो नोपपद्यते इति; तन्न; किं कारणम् ? दृष्टत्वात् । दृष्टो हि उपसर्जनीभूतस्यापि अर्थस्य बुद्धयाऽपेक्षितस्य विशेषणेनाभिसंबन्धः । 'राजपुरुषोऽयम्। कस्य ? राज्ञः' इति, एवमिहापि प्रत्यासत्तेः बुद्धया उपसर्जनमपि कल्पग्रहणमभिसंबध्यते उपर्यु- २५ परि कल्पा इति । ___ अथ कल्पातीतेषु किमभिसंबध्यते ? विमानानि । यद्येवं कियत्सु कल्पविमानेषु ते देवा भवन्ति इत्यत आहसौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्म ब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाऽच्युतयोर्नवसु ग्रैवेयकेषु विजय- ३०
वैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धौ च ॥१६॥ कथमेषां सौधर्मादीनां कल्पाभिधानम् ?
१ किम्चातः श्र०, मू०, ता०। २ -सर्जनभू -प्रा०, ब०, २०, मु.। ३ इत्यर्थः मा०, ब० म०। ४-५ वे-थ०। ५ ब्रह्मलोक - श्र०, मु०। ६-सतार-पा०,ब०, २०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org