________________
२२२ तत्त्वार्थवार्तिके
[१५-१६ ज्योतिःपरिवर्तनलभ्यो हि कालपरिच्छेदः ॥२॥ कालो द्विविधो व्यावहारिको मुख्यश्च । तत्र व्यावहारिकः कालविभागः तत्कृतः समयावलिकादिाख्यातः, 'क्रियाविशेषपरिच्छिन्नः 'अन्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः । मुख्योऽन्यो वक्ष्यमाणलक्षणः।
आह-न मुख्यः कालोऽस्ति सूर्यादिगतिव्यतिरिक्तो लिङ्गाभावात् । अपि च, कलानां ५. समहः कालः, कलाश्च क्रियावयवाः । किञ्च, पञ्चास्तिकायोपदेशात् पञ्चैवास्तिकाया
आगमे उपदिष्टा न षष्ठः, ततो न मुख्य: कालोऽस्ति; इत्यपरीक्षिताभिधानमेतत् ; यत्तावदुक्तम्-लिङ्गाभावान्नास्ति मुख्यः काल इति; अत्रोच्यते
क्रियायां काल इति गौणव्यवहारदर्शनात् मुख्यसिद्धिः ।३। योऽयमादित्यगमनादौ क्रियेति रूढः काल इति व्यवहारः कालनिर्वर्तनापूर्वकः, मुख्यस्य कालस्यास्तित्वं गमयति । १० नहि मुख्ये गव्यसति वाहीके गौणे गोशब्दस्य व्यवहारो युज्यते ।
अत एव न कलासमूह एव कालः ।।। अत एव । कुत एव ? मुख्यस्य कालस्यास्तित्वादेव, कलानां समूह एव काल इति व्यपदेशो नोपपद्यते। कल्यते क्षिप्यते प्रेर्यते येन क्रियावद्रव्यं स कालः, तस्य विस्तरेण निर्णय उत्तरत्र वक्ष्यते ।
__प्रदेशप्रचयाभावादस्तिकायेष्वनुपदेशः ।५। प्रदेशप्रचयो हि कायः स एषामस्ति ते १५ अस्तिकाया इति जीवादयः पञ्चैव उपदिष्टाः। कालस्य 'त्वेकप्रदेशत्वादस्तिकायत्वाभावः ।
यदि हि अस्तित्वमेव अस्य न स्यात् षद्रव्योपदेशो न युक्तः स्यात् । कालस्य हि द्रव्यत्वमस्त्यागमे । परलक्षणाभावः स्वलक्षणोपदेशसद्भावात् । इतरत्र ज्योतिषामवस्थाप्रतिपादनार्थमाह
बहिरवस्थिताः ॥१५॥ बहिरित्युच्यते । कुतो बहिः ? नृलोकात् । कथमवगम्यते? अर्थवशाद्विभक्तिपरिणाम इति।
नृलोके नित्यगतिवचनादन्यत्रावस्थानसिद्धिरिति चेत्, न; उभयासिद्धेः ।। स्यान्मतम्'नृलोके नित्यगतयः' इति वचनात् अन्यत्र अवस्थानं ज्योतिषां सिद्धम्, अतो बहिरवस्थिता इति वचनमनर्थकमिति; तन्न; किं कारणम् ? उभयासिद्धेः । नृलोकादन्यत्र बहिर्योतिषाम
स्तित्वमवस्थानं 'चाऽप्रसिद्ध अतस्तदुभयसिद्धयर्थ 'बहिरवस्थिताः' इत्युच्यते । असति हि २५ वचने, नृलोके एव सन्ति नित्यगतयश्च इत्यवगम्येत । तुरीयस्य निकायस्य सामान्यसंज्ञाकीर्तनार्थमाह
वैमानिकाः ॥१६॥ वैमानिकग्रहणमधिकारार्थम् ।। इत ऊर्ध्व ये वक्ष्यन्ते तषु वैमानिकसंप्रत्ययः कथं स्यात् इत्यधिकारः क्रियते । विशेषेण आत्मस्थान सुकृतिनो मानयन्तीति विमानानि, विमा३० नेषु भवा वैमानिकाः । तानि विमानानि त्रिविधानि-इन्द्रक-श्रेणि-पुष्पप्रकीर्णकभेदेन । तत्रेन्द्र
कविमानानि इन्द्रवन्मध्येऽवस्थितानि । तेषां चतसृषु दिक्षु आकाशप्रदेशश्रेणिवदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवत् अवस्थानात् पुष्पप्रकीर्णकानि ।
तेषां वैमानिकानां भेदावबोधनार्थमाह
१ सूर्यगमनादि, घटिकापात्रादि वा। २ प्रोदनपाकवाहवोहावेः । ३ प्रणोरण्वन्तरव्यतिक्रमणादि। ४-खेकत्वप्र-१०। ५ वा श्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org