________________
४१४ ]
चतुर्थोऽध्यायः
रिशदधिकानि । उत्कृष्टमेकं योजनशतसहस्रं षट्शतानि पष्टयुत्तराणि । जम्बूद्वीपादिषु एकैकस्य चन्द्रमसः षट्षष्टिकोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चसप्ततिश्च कोटी कोटयः तारकाणाम् । अष्टाशीतिर्महाग्रहाः, अष्टाविंशतिर्नक्षत्राणि परिवारः । सूर्यस्य चतुरशीतिमण्डलशतम् अशीतिः योजनशतं जम्बूद्वीपस्य अन्तरमवगाह्य प्रकाशयति । तत्र पञ्चषष्टिरभ्यन्तरमण्डलानि लवणोदस्यान्तस्त्रीणि त्रिंशानि योजनशतान्यवगाह्य ५ प्रकाशयति । तत्र मण्डलानि बाह्यान्येकान्नविंशतिशतम् । द्वियोजनमेकैकमण्डलान्तरम् । द्वे योजने अष्टचत्वारिंशद्योजनै कषष्टिभागाश्च एकैकमुदयान्तरम् । चतुश्चत्वारिंशद्योजनसहस्रैः अष्टाभिश्च शतैविंशैरप्राप्य मेरुं सर्वाभ्यन्तरमण्डले सूर्यः प्रकाशयति । तस्य विष्कम्भो नवनवतिः सहस्राणि षट्शतानि चत्वारिंशानि योजनानाम् । तदा अहनि मुहूर्ताः अष्टादश भवन्ति । पञ्चसहस्राणि द्वे शते एकपञ्चाश' योजनानां एकान्नत्रिंशद्योजनषष्टिभागाश्च मुहूर्त - १० गतिक्षेत्रम् । सर्वबाह्यमण्डले चरन् सूर्यः पञ्चचत्वारिंशत्सहस्रैः त्रिभिश्च शतैः त्रिशैर्योजनानां मेरुमप्राप्य भासयति । तस्य विष्कम्भः एकं शतसहस्रं षट् च शतानि षष्ट्यधिकानि योजनानाम् । तदा दिवसस्य द्वादश मुहूर्ताः । पञ्चसहस्राणि त्रीणि शतानि पञ्चोत्तराणि योजनानां पञ्चदशयोजनषष्टिभागाश्च मुहूर्तगतिक्षेत्रम् । तदा एकत्रिंशद्योजनसहस्रेषु अष्टासु च योजनशतेषु अर्धद्वात्रिंशेषु स्थितो दृश्यते । सर्वाभ्यन्तरमण्डले दर्शनविषयपरिमाणं प्रागुक्तम् । १५ मध्ये हानिवृद्धिम यथागमं वेदितव्यः । चन्द्रमण्डलानि पञ्चदश, द्वीपावगाहः समुद्राव - गाहश्च सूर्यवद्वेदितव्यः । द्वीपाभ्यन्तरे पञ्च मण्डलानि । समुद्रमध्ये दश । सर्वबाह्याभ्यन्तरमण्डलविष्कम्भविधिः, मेरुचन्द्रान्तरप्रमाणं च सूर्यवत् प्रत्येतव्यम् । पञ्चदशानां मण्डलानामन्तराणि चतुर्दश । तत्रैकैकस्य मण्डलान्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि योजनैकषष्टिभागास्त्रिंशत् तद्भागस्य चत्वारः सप्तभागाः ३५ - - । सर्वाभ्यन्तरमण्डले पञ्चसहस्राणि २० त्रिसप्तत्यधिकानि योजनानां सप्तसप्ततिर्भागशतानि चतुश्चत्वारिंशानि मण्डलं' त्रयोदशभिभगिसहस्रैः सप्तभिश्च भागशतैः पञ्चविंशैः छित्वा अवशिष्टानि चन्द्रः एकैकेन मुहूर्तेन गच्छति । सर्वबाह्यमण्डले पञ्चसहस्राणि शतं च पञ्चविंशं योजनानाम् एकान्नसप्ततिर्भाग - शतानि नवत्यधिकानि मण्डलं ' त्रयोदशभिः भागसहस्रैः सप्तभिश्च भागशतैः पञ्चविंशः छित्वाऽवशिष्टानि चन्द्रः एकैकेन मुहूर्तेन गच्छति । दर्शनविषयपरिमाणं सूर्यवद्वेदितव्यम् । २५ हानिवृद्धिविधानं च यथागममवसेयम् । पञ्चयोजनशतानि दशोत्तराणि सूर्याचन्द्रमसोश्चारक्षेत्र विष्कम्भः ।
1
गतिमज्ज्योतिः संबन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह
तत्कृतः कालविभागः ॥ १४॥
तदिति किमर्थम् ?
३०
गतिमज्ज्योतिः प्रतिनिर्देशार्थं तद्वचनम् ॥ १। गतिमतां ज्योतिषां प्रतिनिर्देशार्थं तदित्युच्यते । न हि केवलया गत्या नापि केवलैज्र्ज्योतिभिः कालः परिच्छिद्यते, अनुपलब्धेरपरिवर्तनाच्च ।
२२१
१ - पञ्चाशद्यो- प्रा०, ब०, ३०, मु० । २ सूर्यसूर्यान्तर इत्यर्थः । ३ विध्यन्तरस्य । ४ चन्द्रस्य परिधिसमापनकालः ६२।२३ । समच्छेदेनानयोर्मेलने प्रमाणराशिः १३७२५ । फल- ३१५०८९ इच्छ मुहूर्त १ लब्ध ५०७३ शेष ७७४४ । ५ परिधिरित्यर्थः । ६ स्थित्वा प्रा०, ब०, ब०, म० । ७ परिषौ । ८ बाह्यपरिषिम् । ९ स्थित्वा प्रा०, ब०, ५०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org