________________
२२०
तत्त्वार्थवार्तिके
[४१३ ज्योतिष्काणां गतिविशेषप्रतिपत्त्यर्थमाह
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ मेरप्रदक्षिणवचनं गत्यन्तरनिवृत्त्यर्थम् । ॥ मेरो: प्रदक्षिणा मेरुप्रदक्षिणा इत्यु'च्यन्ते। किमर्थम् ? गत्यन्तरनिवृत्त्यर्थ विपरीता गतिर्माभूत् ।
गतेः क्षणे क्षणेऽन्यत्वात् नित्यत्वाभाव इति चेत्, न; आभीक्ष्ण्यस्य विवक्षितत्वात् ।२। अयं नित्यशब्दः कूटस्थेष्वविचलेषु भावेषु वर्तते, गतिश्च क्षणे क्षणेऽन्या, ततोऽस्या नित्येति विशेषणं नोपपद्यत इति चेत् ; न; किं कारणम् ? आभीक्षण्यस्य विवक्षितत्वात् । यथा नित्यप्रहसितो नित्यप्रजल्पित इति आभीक्ष्ण्यं गम्यत इति, एवमिहापि नित्यगतयः अनुपरतगतय इत्यर्थः ।
अनेकान्ताच्च ।३। यथा सर्वभावेषु द्रव्यार्थादेशात् स्यान्नित्यत्वं पर्यायादिशात् स्याद१. नित्यत्वं तथा गतावपीति नित्यत्वमविरुद्धमविच्छेदात् ।।
नलोकग्रहणं विषयार्थम् ।४। ये अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोयोतिष्कास्ते मेरुप्रदिक्षणा नित्यगतयो नान्ये इति विषयावधारणार्थ नृलोकग्रहणं क्रियते ।
गतिकारणाभावादयुक्तिरिति चेत्, न; गतिरताभियोग्यदेववहनात् ५। स्यान्मतम्इह लोके भावानां गतिः कारणवती दृष्टा, न च ज्योतिष्कविमानानां गतेः कारणमस्ति ततस्त१५ दयुक्तिरिति; तन्न; किं कारणम् ? गतिरताभियोग्यदेववहनात् । गतिरता हि आभियोग्यदेवा वहन्तीत्युक्तं पुरस्तात् ।
कर्मफलविचित्रभावाच्च ।६। कर्मणां हि फलं वैचित्र्येण पच्यते ततस्तेषां गतिपरिणतिमुखेनैव कर्मफलमवबोद्धव्यम् । एकादशभिः योजनशतैरेकविंशमरुमप्राप्य ज्योतिष्काः प्रदक्षिणाश्चरन्ति ।
तत्र जम्बूद्वीपे द्वौ सूयौं', द्वौ चन्द्रमसौ, षट्पञ्चाशन्नक्षत्राणि, षट्सप्तत्यधिकं ग्रहशतम्, एक कोटीकोटिशतसहस्रं त्रयस्त्रिशत्कोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चाशच्च कोटीकोट्यस्तारकाणाम् । लवणोदे चत्वारः सूर्याः, चत्वारश्चन्द्राः, नक्षत्राणां शतम्, द्वादशम् ग्रहाणाम्, त्रीणि शतानि द्वापञ्चाशानि द्वे कोटीकोटिशतसहस्रे सप्तषष्टिकोटीकोटिसहस्राणि
नव च कोटीकोटिशतानि तारकाणाम्। धातकीषण्ड द्वादश सूर्याः, द्वादश चन्द्राः, नक्षत्राणां २५ त्रीणि शतानि षट्त्रिंशानि, ग्रहाणां सहस्रं षट्पञ्चाशम्, अष्टौ कोटीकोटिशतसहस्राणि सप्त
त्रिंशच्च कोटीकोटिशतानि तारकाणाम् । कालोदे द्वाचत्वारिंशदादित्याः, द्वाचत्वारिंशच्चन्द्राः, एकादश नक्षत्रशतानि षट्सप्तत्यधिकानि, षट्त्रिंशत् ग्रहशतानि षण्णवत्यधिकानि, अष्टा
विंशतिकोटीकोटिशतसहस्राणि द्वादशकोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चाशच्च ___ कोटीकोट्यस्तारकाणाम् । पुष्करार्धे द्वासप्ततिः सूर्याः, द्वासप्ततिश्चन्द्राः, द्वे नक्षत्रसहस्रे षोडशे, ३० त्रिषष्टिः ग्रहशतानि षट्त्रिंशानि । अष्टचत्वारिंशत्कोटीकोटिशतसहस्राणि द्वाविंशतिः कोटी
कोटिसहस्राणि द्वे कोटीकोटिशते तारकाणाम् । बाह्ये पुष्करार्धे च ज्योतिषामियमेव संख्या । ततश्चतुर्गुणाः पुष्करवरोदे, ततः परा द्विगुणा द्विगुणा ज्योतिषां संख्या अवसेया।
जघन्यं तारकान्तरं गव्यूतसप्तभागः, मध्यं पञ्चाशत् गव्यूतानि, उत्कृष्ट योजनसहस्रम् । जघन्यं सूर्यान्तरं चन्द्रान्तरं च नवनवतिः सहस्राणि योजनानां षट्शतानि चत्वा
१ इत्युच्यते प्रा०, ब०, ८०, मु० ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org