________________
४३१२] चतुर्थोऽध्यायः
२१९ क्व पुनस्तेषां निवास इति ? अत्रोच्यते-अस्मात् समात् भूमिभागादूर्ध्व सप्त योजनशतानि नवत्युत्तराणि 'उत्पत्य सर्वज्योतिषाम् अधोभाविन्यस्तारकाश्चरन्ति । ततो दशयोजनान्युत्पत्य सूर्याश्चरन्ति । ततोऽशीतिर्योजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । ततस्त्रीणि योजनान्युत्पत्य नक्षत्राणि । ततस्त्रीणि योजनानि उत्पत्य बुधाः । ततस्त्रीणि योजनानि उत्पत्य शुक्राः । ततस्त्रीणि योजनान्युत्पत्य' बृहस्पतयः । ततश्चत्वारि योजना- ५ न्यत्पत्य अङगारकाः। ततश्चत्वारि योजनान्यत्क्रम्य शनैश्चराश्चरन्ति। स एष ज्योतिर्गणगोचरो नभोऽवकाशः दशाधिकयोजनशतबहुल: तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः । उक्तं च
*"णवत्तरसत्तसया बससोदिच्चदुतिगं च दुगचदुक्कं ।
तारारविससिरिक्खा बधभग्गवगुरुअंगिरारसणी ॥"[ तत्राभिजित् सर्वाभ्यन्तरचारी, मूलः सर्वबहिश्चारी, भरण्यः सर्वाधश्चारिण्यः, स्वातिः । सर्वोपरिचारी । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि अष्टचत्वारिंशद्योजनकषष्टिभागविष्कम्भायामानि तत्त्रिगुणाधिकपरिधीनि चतुर्विंशतियोजनकषष्टिभागबाहुल्यानि अर्धगोलकाकृतीनि षोडशभिर्देवसहस्ररूढानि सूर्यविमानानि । प्रत्येकं पूर्वदक्षिणोत्तरापरान् भागान् क्रमेण सिंहकुञ्जरवृषभतुरगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहन्ति । १५ एषामुपरि सूर्याख्या देवाः । तेषां प्रत्येक चतस्रोऽयमहिष्यः-सूर्यप्रभा सुसीमा अचिमालिनी प्रभङकरा चेति, प्रत्येक देवीरूपचतुःसहस्रविकरणसमर्थाः। ताभिः सह दिव्यं सुखमनुभवन्तोऽसंख्येयशतसहस्राधिपतयः सूर्याः परिभ्रमन्ति। विमलमणालवर्णान्यङकमयानि चन्द्रविमानानि। षट्पञ्चाशद्योजनकषष्टिभागविष्कम्भायामानि अष्टाविंशतियोजनकषष्टिभागबाहुल्यानि, प्रत्येकं षोडशभिर्देवसहस्रः पूर्वादिषु दिक्षु क्रमेण सिंहकुञ्जराश्ववृषभ- २० रूपविकारिभिरूढानि। तेषामुपरि चन्द्राख्या देवाः। तेषां प्रत्येक चतस्रोऽनमहिष्य:-चन्द्रप्रभा सुसीमा अचिमालिनी प्रभङकरा चेति, प्रत्येकं चतुर्दैवीरूपसहस्रविकरणपटवः । ताभिः सह सुखमुप भुजानाश्चन्द्रमसोऽसंख्ययविमानशतसहस्राधिपतयो विहरन्ति । अञ्जनसमप्रभाणि अरिष्टमणिमयानि राहुविमानान्येकयोजनायामविष्कम्भाण्यर्धतृतीयधनुःशतबाहल्यानि । नवमल्लिकाप्रभाणि रजतपरिणामानि शुक्रविमानानि गव्यूतायामविष्कम्भाणि । २५ जात्यमुक्ताद्युतीनि अकमणिमयानि बृहस्पतिविमानानि देशोनगव्यूतायामविष्कम्भाणि । कनकमयान्यर्जुनवर्णानि बुधविमानानि । तपनीयमयानि तप्ततपनीयाभानि शनैश्चरविमानानि । लोहिताक्षमयानि तप्तकनकप्रभाण्यङगारकविमानानि । बुधादिविमानान्यर्धगव्यूतायामविष्कम्भाणि। शुक्रादिविमानानि राहुविमानतुल्यबाहल्यानि । राह्वादिविमानानि प्रत्येकं चतुभिः देवसहस्ररुह्यन्ते । नक्षत्रविमानानां प्रत्येकं चत्वारि देवसहस्राणि वाहकानि। ३० तारकाविमानानां प्रत्येकं द्वे देवसहस्रे वाहके। राह्वा धाभियोग्यानां रूपविकाराश्चन्द्रवन्नेयाः । नक्षत्रविमानानाम् उत्कृष्टो विष्कम्भः क्रोशः । तारकाविमानानां वैपुल्यं जघन्यं कोशचतुर्भागः । मध्यमं साधिक: क्रोशचतुर्भागः । उत्कृष्टम् अर्धगव्यूतम् । ज्योतिष्कविमानानां सर्वजवन्यवैपुल्यं पञ्च धनुःशतानि । ज्योतिषामिन्द्राः सूर्याचन्द्रमसः, ते चाऽसंख्याताः।
१ उत्प्लुत्य मा०, २०, २०, म०। २ जम्बू० ५० १२०६३। उद्धृतेयम्- स० सि० १११२। ३ -पभुजन्तश्च-पा०, २०, २०, मु०। ४ राहाअभियोगानाम् ता०, १०, २०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org