________________
२१८ तत्त्वार्थवातिके
[४.१२ भीमस्य दक्षिणस्यां दिशि पङकबहुलभागेऽसंख्येयानि नगरशतसहस्राणि आख्यायन्ते । उत्तरस्यां दिशि महाभीमस्य राक्षसेन्द्रस्य पङकबहुलभागेऽसंख्येयानि नगरशतसहस्राणि वर्ण्यन्ते । षोडशानामपि एषां व्यन्तरेन्द्राणां सामानिकादिपरिवारास्तुल्याः । भूमितलेऽपि द्वीपाद्रिसमुद्र
देशग्रामनगरत्रिकचतुष्कचत्वरगृहाङगणरथ्याजलाशयोद्यान'देवकुलादीनि असंख्येयानि आवास५ शतसहस्राणि तेषामाख्यायन्ते।
तृतीयस्य निकायस्य सामान्यविशेषसंज्ञासंकीर्तनार्थमाह-- ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥
योतनस्वभावत्वाज्ज्योतिष्काः ।। द्योतनं प्रकाशनं तत्स्वभावत्वादेषां पञ्चानामपि विकल्पानां ज्योतिष्का इतीयमन्वर्था सामान्यसंज्ञा । काऽस्याः सिद्धिः ?
ज्योतिःशब्दात्स्वार्थ के निष्पत्तिः।२। ज्योतिःशब्दात् स्वार्थे के सति ज्योतिष्का इति निष्पद्यते । कयं स्वार्थे क: ? यावादिषु' पाठात् ।
प्रकृतिलिङगानुवृत्तिप्रसङग इति चेत्, न; अतिवृत्तिदर्शनात् ।३. स्यान्मतम्-यदि स्वाथिकोऽयं कः, ज्योति:शब्दस्य नपुंसकलिङगत्वात् कान्तस्यापि नपुसकलिङ्गता प्राप्नोतीति ?
तन्न; किं कारणम् ? अतिवृत्तिदर्शनात् । प्रकृतिलिङगातिवृत्तिरपि दृश्यते-यथा 'कुटीरः १५ शमीरः शुण्डार इति ।
तद्विशेषाः सूर्यादयः ।४। तेषां ज्योतिष्काणां सूर्यादयः पञ्च विकल्पा द्रष्टव्याः ।। . पूर्ववत्तनिवृत्तिः।५। तेषां संज्ञाविशेषाणां पूर्ववनिर्वृत्तिर्वेदितव्या-देवगतिनामकर्मविशेषोदयादिति ।
सूर्याचन्द्रमसावित्यानड देवताद्वन्द्वे ।६। सूर्यश्च चन्द्रमाश्च द्वन्द्वे कृते पूर्वपदस्य *"देवता२० इन्द्रे" [जैनेन्द्र० ४।३।१३९ ] इत्यानङ भवति ।
__सर्वत्र प्रसङग इति चेत् न; पुनर्द्वन्द्वग्रहणादिष्टे वृत्तिः।७। स्यादेतत्-यदि देवताद्वन्द्वे" . . [ जैनेन्द्र० ४।३।१३९] इत्यानङ भवति, इहापि प्राप्नोति ग्रहनक्षत्रप्रकीर्णकताराः किन्न
रकिम्पुरुषादयः असुरनागादय इति; तन्न; किं कारणम् ? *"आनङ द्वन्द्वे" [ जैनेन्द्र० ४।३।१३८ ] इत्यतः द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणात् इष्ट द्वन्द्वे वृत्तिर्जायते। .
पृथग्ग्रहणं प्राधान्यख्यापनार्थम् ।८। सूर्याचन्द्रमसोर्ग्रहादिभ्यः पृथक् ग्रहणं क्रियते प्राधान्यख्यापनार्थम् । ज्योतिष्केषु, हि सर्वेषु सूर्याणां चन्द्रमसां च प्राधान्यम् । किं कृतं पुनस्तत्? प्रभावादिकृतम्।
सूर्यस्यादौ ग्रहणम् अल्पान्तरत्वात् अभ्यहितत्वाच्च ।९। सूर्यशब्द आदौ प्रयुज्यते। कुतः ? 'अल्पाच्तरत्वात् अहितत्वाच्च । सर्वाभिभवसमर्थत्वाद्धि अभ्यहितः सूर्यः ।। ३० . . ग्रहाविषु च।१०। किम् ? 'अल्पान्तरत्वात् अभ्यहितत्वाच्च पूर्वनिपातः' इति वाक्यशेषः । ग्रहशब्दस्तावत् अल्पान्तरोऽभ्यहितश्च तारकाशब्दात्, नक्षत्रशब्दोऽभ्यहितः ।
... १ देवालय। २-सा- १०, ता०। ३ क प्रत्यये- स०। ४"कोऽवियावावे" -जनेन्द्र० ४।२।३५। ५ ह्रस्वा कुटो कुटीरः, ह्रस्वा शमी शमीरः, ह्रस्वा शुण्डा शुगरः -स० । ५ अल्पाक्षर- भा० २। ६ पशब्दोऽनुक्तसमुच्चयार्थः ततः। म०। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org