________________
११]
चतुर्थोऽध्यायः परिषदः, सप्तानीकानि, चत्वारो लोकपालाः, षडग्रमहिष्यः, षडात्मरक्षसहस्राण्याख्यायन्ते । तथा अस्माज्जम्बूद्वीपात्तिर्यगुदगसंख्येयान् द्वीपसमुद्रान् अतीत्य भूतानन्दस्य नागेन्द्रस्य चत्वारिशद्भवनशतसहस्राणि, अवशिष्टं धरणेन्द्रवज्ज्ञेयम् । तान्येतानि नागकुमाराणां चतुरशीतिभवनशतसहस्राणि । तथा सुपर्णकुमाराणां द्विसप्ततिर्भवनशतसहस्राणि । तत्र वेणुदेवस्य दक्षिणाधिपतेः अष्टत्रिंशद्भवनशतसहस्राणि । इतरद्धरणेन्द्रवन्नेयम् । उत्तराधिपतेर्वेणुधारिणः ५ चतुस्त्रिशद्भवनशतसहस्राणि । अवशिष्टं धरणेन्द्र वन्नेयम् । विद्युदग्निस्तनितोदधिद्वीपदिक्कुमाराणां षण्णामपि प्रत्येकं षट्सप्ततिर्भवनशतसहस्राणि । तत्र दक्षिणेन्द्राणां 'हरिसिंहाग्निशिखसुघोषजलकान्तपूर्णामितगतीनां प्रत्येकं चत्वारिंशद्भवनशतसहस्राणि । हरिकान्ताग्निमाणवमहाघोषजलप्रभवशिष्टामितवाहनानाम् उत्तराधिपतीनां प्रत्येकं षट्त्रिंशद्भवनशतसहस्राणि। वातकुमाराणां षण्णवतिर्भवनशतसहस्राणि । तत्र वैलम्बस्य दक्षिणेन्द्रस्य पञ्चाशद्भवनशतस- १० हस्राणि । उत्तराधिपते: प्रभञ्जनस्य षट्चत्वारिंशद्भवनशतसहस्राणि । सर्वेषामेषां धरणेन्द्रवन्नेयम् । तान्येतानि भवनानि समुदितानि सप्तकोटयो द्विसप्ततिश्च शतसहस्राणि ।
द्वितीयनिकायस्य सामान्यविशेषसंज्ञावधारणार्थमाहव्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥
विविषवेशान्तरनिवासित्वाद् व्यन्तराः ।। विविधदेशान्तराणि येषां निवासास्ते १५ व्यन्तरा इत्यन्वर्थाः । सामान्यसंज्ञेयमष्टानामपि विकल्पानाम् ।
किन्नरादयस्तविकल्पाः ।। तेषां व्यन्तराणामष्टो विकल्पाः किन्नरादयो द्रष्टव्याः ।।
नामकर्मोदयविशेषतस्तविशेषसंज्ञाः ।३। देवगतिनाम्नो मूलस्य उत्तरोत्तरप्रकृतिभेदस्योदयाद्विशेषसंज्ञा भवन्ति । किन्नरनामकर्मोदयात् किन्नराः, किम्पुरुषनामकर्मोदयात् किम्पुरुषाः इत्यादि ।
क्रियानिमित्ता एवेति चेत्, न; उक्तत्वात् ।४। स्यादेतत्-क्रियानिमित्ता एवैताः संज्ञा:, किन्नरान् कामयन्त इति किन्नराः, किम्पुरुषान् कामयन्त इति किम्पुरुषाः, पिशिताशनात् पिशाचा इत्यादि ; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत्-अवर्णवाद एष देवानामु. परीति । कथम् ? न हि ते शुचिवैक्रियिकदेहा अशुच्यौदारिकशरीरान् नरान् कामयन्ते, नापि पिशितमश्नन्ति । 'मांसमदिरादिषु दृष्टा लोके प्रवृत्तिरिति चेत्, न; क्रीडासुख- २५ निमित्तत्वात्, मानसाहाराहि ते ।
क्व पुनस्तेषामावासाः इति ? अत्रोच्यते-अस्माज्जम्बूद्वीपात्तिर्यगपागसंख्येयान् द्वीपसमुद्रान् अतीत्य औपरिष्टे खरपृथिवीभागे किन्नरस्य किन्नरेन्द्रस्य असंख्येयानि नगरशतसहस्राणि वर्ण्यन्ते । तस्य चत्वारि सामानिकसहस्राणि, तिसः परिषदः, सप्तानीकानि, चतस्रोऽग्रमहिष्यः, षोडशात्मरक्षसहस्राणि । उदीच्यां दिशि पूर्ववदेव किन्नरेन्द्रः किम्पुरुषस्ता- ३० दृग्विभवपरिवारः । एवं शेषाणां षण्णां दक्षिणेन्द्राणां सत्पुरुषातिकायगीतिरतिपूर्णभद्रस्वरूपकालाख्यानां दक्षिणे भागे आवासाः । तथा महापुरुषमहाकायगीतयशोमाणिभद्राप्रतिरूपमहाकालानां तु उत्तराधिपतीनाम् उत्तरभागे आवासास्तावन्त एव वेदितव्याः। राक्षसेन्द्रस्य
१ हरिसहाग्नि- १०, मू०।२ मत्स्यमदि- मू०, १० टि० । ३ -हारश्च भा० २।
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org