________________
२१६ तत्वार्थवार्तिक
[१० उक्तमादिनिकायदेवा दश विकल्पा इति तेषां सामान्यविशेषसंज्ञानिर्ज्ञानार्थमाहभवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तानतोदाधहीपदिक्कुमाराः ॥१०॥ ___ भवनेषु वसनशीला भवनवासिनः ।१॥ भवनेषु वसन्तीत्येवंशीला भवनवासिन इति प्रथमनिकायस्येयं सामान्यसंज्ञा।
असुरादयस्तद्विकल्पाः ।। तेषां भवनवासिनामसुरादयो दश विकल्पा द्रष्टव्याः । सर्वे नामकर्महेतुकाः ।३। सर्वे ते नामकर्मोदयापादित विशेषा वेदितव्याः ।
अस्यन्ति देवैः सहासुरा इति चेत् ; न; अवर्णवादात् ।४। स्यान्मतं युद्धे देवैः सहास्यन्ति' प्रहरणादीनित्यसुरा इति; तन्न; किं कारणम् ? अवर्णवादात् । अवर्णवाद एषः देवानामुपरि मिथ्याज्ञाननिमित्तः । कुतः ?
महाप्रभावत्वात् ।। ते हि सौधर्मादयो देवा महाप्रभावाः, न तेषामुपरि इतरेषां निकृष्टबलानां मनागपि प्रातिलोम्येन वृत्तिरस्ति । अपि च,
वैरकारणाभावात् ।६। तेषां प्रतिविशिष्टशुभकर्मोदयापादितविभवानामर्हत्पूजाभोगानुभवनमात्रतन्त्राणां परदारहरणादिनिमित्तं न वैरमस्ति ततो नासुराः सुरैयुध्यन्ते ।
अथ ते कथं कुमाराः ?
कौमारवयोविशेषविक्रियादियोगात्कुमाराः। सर्वेषां देवानामवस्थितवयःस्वभावत्वेऽपि कौमारवयोविशेषस्वभावस्वरूपं विक्रिया च कुमारवदुद्धतवेषभाषाऽऽभरणप्रहरणावरणयानवाहनत्वं च उल्वणरागक्रीडनप्रियत्वं चेत्येतैर्योगात् कुमारा इति व्यपदिश्यन्ते ।।
प्रत्येकमभिसम्बन्धः ।८। तस्य कुमारशब्दस्य प्रत्येकमभिसम्बन्धः क्रियते-असुरकुमारा नागकुमारा इति एवमादि।
अत्राह क्व तेषां भवनानि इति ? अत्रोच्यते
अस्या रत्नप्रभायाः पङ्कबहुलभागेऽसुरकुमाराणां भवनानि चतुःषष्टिशतसहस्राणि । अस्माज्जम्बूद्वीपात् तिर्यगपागसंख्येयान् द्वीपसमुद्रान् अतीत्य पङ्कबहुलभागे चमरस्याऽसुरेन्द्रस्य चतुस्त्रिशद्भवनशतसहस्राणि, चतुःषष्टिसामानिकसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशाः,
तिसः परिषदः, सप्तानीकानि चत्वारो लोकपालाः, पञ्चाग्रमहिष्यः, चत्वारि चतुःषष्टयुत्त३० राणि आत्मरक्षसहस्राणि, एवं विभवपरिवारः दक्षिणार्धपतिः दिव्यान् भोगान् अनुभवति ।
तथोत्तरस्यां दिशि वैरोचनस्य त्रिंशद्भवनशतसहस्राणि षष्टिसामानिकसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशाः, तिसः परिषदः, सप्तानीकानि, चत्वारो लोकपालाः, पञ्चायमहिष्यः, चत्वारि चतुःषष्टयुत्तराणि आत्मरक्षसहस्राणि, एवं विभवपरिवार: उत्तरार्धपति: दिव्यान् भोगान् अनुभुङ्क्ते ।
खरपृथ्वीभागे उपर्यधश्चकैकयोजनसहस्रं वर्जयित्वा शेषे नवानां कुमाराणां भवनानि भवन्ति । तद्यथा-अस्माज्जम्बूद्वीपात्तिर्यगपागसंख्येयान् द्वीपसमुद्रानतीत्य धरणस्य नागराजस्य चतुश्चत्वारिंशत्भवनशतसहस्राणि, षष्टिसामानिकसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशाः, तिस्रः
१-दितावेदि-मा०, २०, २०, मु०। २ क्षिपन्ति । ३ मनसापि प्रा०, २०, २०, म०, १०, टि, ता०। ४-महणा-१०। ५-णाषिप- प्रा०, ब०, मु०। ६ -णि चतुःषष्टि-पा०, 40, २० म०, ता०। ७-तराषिप-प्रा०,०, मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org