________________
४॥१
चतुर्थोऽध्यायः विषयविवेकापरिज्ञानादनिर्देशः ।२। इमे स्पर्शप्रवीचारा एते रूपप्रवीचारा इत्यादिविषयविवेकापरिज्ञानादयमनिर्देश:, अगमको निर्देशः अनिर्देशः ।
द्वयोयोरिति वचनासिद्धिरिति चेत् ; न; आर्षविरोधात् ।३। स्यान्मतं द्वयोयोरिति वक्तव्यं तेन विषयविवेकसिद्धिर्भवति इति ? तन्न; किं कारणम् ? आर्षविरोधात् । आर्षे हयुक्तम्-*"सानत्कुमारमाहेन्द्रयोर्देवाः स्पर्शप्रवीचाराः, बह्मब्रह्मोत्तरलान्तवकापिष्ठेषु ५ रूपप्रवीचाराः । शुक्रमहाशुक्रसतारसहस्रारेषु शब्दप्रवीचाराः। आनतप्राणताऽऽरणाऽच्युतकल्पेषु मनःप्रवीचाराः ।" [ ]
इन्द्रापेक्षयेति चेत्, न; आनतादिषु दोषात् ।४। स्यादेतत्-इन्द्रापेक्षया द्वयोः द्वयोरिति वचनं नार्षविरोधि ? तद्यथा-सानत्कुमारमाहेन्द्रयोः कल्पयोविन्द्रौ तयोर्देवाः स्पर्शप्रवीचाराः, ब्रह्मब्रह्मोत्तरयोरेक इन्द्रः, लान्तवकापिष्ठयोरप्येकः, तयोर्देवा रूपप्रवीचाराः । शुक्र- १० महाशुक्रयोरेक इन्द्रः, सतारसहस्रारयोरप्येकः, तयोर्देवाः शब्दप्रवीचारा इति ? तन्न; किं कारणम् ? आनतादिषु दोषात् । आनतादिषु हि चत्वार इन्द्राः । कथं तहि निर्देश: कर्तव्यः ? यथागममिति । स तहि 'तथानिर्देशः कर्तव्यः ?
न वा पुनःप्रवीचारग्रहणादिष्टार्थगतेः ।५। न वैष दोषः, किं कारणम् ? पुन:प्रवीचारग्रहणादिष्टार्थगतेः । कथम् ? प्रवीचारग्रहणमनुवर्तते । क्व प्रकृतम् ? 'कायप्रवीचाराः' इति । १५ ननु च तद्'वृत्तावुपसर्जनीभूतमशक्यमनुवर्तयितुम् ? अर्थवशात् अनुवर्तत इति व्याख्यायते । तत एवं वक्तव्यं शेषाः स्पर्शरूपशब्दमन:स्विति । एवमप्यनुवर्तमान: प्रवीचारशब्द: भावसाधनो वृत्तिमन्तरेण 'शेषाः' इत्यनेन सामानाधिकरण्यं न प्रतिपद्यते ? शेषाणामिति तर्हि निर्देशः कर्तव्यः, एवं सिद्धे यत्पुनः प्रवीचारग्रहणं तस्यैतत्प्रयोजनम् इष्टप्रवीचारसिद्धिः कथं स्यात् इति । क: पुनरिष्ट: । आर्षाविरोधी-सानत्कुमारमाहेन्द्रयोहि देवान् मैथुनसुखप्रेप्सयोत्प- २० वेच्छान् विदित्वा देव्य उपतिष्ठन्ते, तदङ्गस्पर्शनमात्रादेव प्रीतिमुपलभन्ते विनिवृत्तेच्छाश्च भवन्ति तथा देव्योऽपि । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठेषु देवा दिव्याङ्गनास्वभावसुभगशृंगाराकारविलासचतुरमनोज्ञवेषरूपालोकनमात्रादेव परं सुखमवाप्नुवन्ति । शुक्रमहाशुक्रसतारसहस्रारेषु देवाः सुरवनितानां मधुरसङ्गीतमृदुहसितकथनभूषणरवोपदर्शनश्रवणरसायनं पीत्वैव परां प्रीतिमास्कन्दन्ति । आनतप्राणताऽऽरणाऽच्युतकल्पेषु देवाः स्वाङ्गनामनःसंकल्प- २५ मात्रादेव परं सुखमनुभवन्ति। . अथोत्तरेषां किं प्रकारं सुखमित्युक्ते तन्निश्चयार्थमाह
परेऽप्रवीचाराः ॥६॥ पर इति किमर्थम्, अप्रवीचारा इत्येव सिद्धमुत्तरेषां ग्रहणम् ?
'परवचनं कल्पातीतसर्वदेवसंग्रहार्थम् ।१। कल्पातीतानां सर्वेषां देवानां संग्रहार्थ पर- १० वचनं क्रियते, इतरथाऽनिष्टमपि कल्पयितु शक्येत ।
अप्रवीचारग्रहणं प्रकृष्टसुखप्रतिपत्त्यर्थम् ।२। प्रवीचारो हि वेदनाप्रतीकारस्तदभावे तेषां परमसुखमनवरतमित्येतस्य प्रतिपत्त्यर्थमप्रवीचारा इत्युच्यते ।
१ व्याख्येयम् । २ -णाच्युतेषु प्रा०, ब०, ८०, मु., ता०। ३ शेषाःस्पर्शरूपशब्दमनःप्रवीचारा यथागममिति । ४ समासे- सम्पा०। ५ शेषाणां स्पर्शरूपशब्दमनःसु। ६ परे वच- भा०१।६ इत्युच्यन्ते मा० ब०, म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org