________________
२१४ तत्त्वार्थवार्तिके
[४७-८ वुनो विधानात्, इह तु न विधानमस्ति ? यथा तहि सप्तपर्णोऽष्टापदमिति न चोच्यतेर वीप्सायामिति गम्यते च, तथेहापि वीप्सार्थसंप्रत्ययः ।।
___ के पुनस्ते द्वित्ववीप्साविषयत्वेन विवक्षिताः इति ? अत्रोच्यते-भवनवासिषु तावत् द्वौ असुरकुमाराणामिन्द्रौ चमरो वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिसिंहो हरिकान्तश्च । 'सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अग्निकुमाराणाम् अग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वशिष्टश्च । दिक्कुमाराणाम् अमितगतिरमितवाहनश्चेति ।
__ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महा१. पुरुषश्च । महोरगाणाम् अतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च । यक्षाणां
पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । पिशाचानां कालो महाकालश्च । भूतानां प्रतिरूपोप्रतिरूपश्च । अथ एषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधार्थमुच्यते
____ कायप्रवीचारा आ ऐशानात् ॥७॥ प्रवीचार इति कोऽयं शब्द: ?
मथुनोपसेवनं प्रवीचारः।। प्रविपूर्वाच्चरेः संज्ञायां घा। प्रविचरणं प्रवीचारः मथुनव्यवहार इत्यर्थः। कार्य प्रवीचारो येषां ते इमे कायप्रवीचाराः।
__ आग्रहणमभिविध्यर्थम् ।। आङयमभिविध्यर्थोवेदितव्यः-ईशानोऽधिपतिः
"तस्येवम्" [जैनेन्द्र.० ३।३१८८] इत्यणि, ऐशानः कल्पः। आ एतस्मादधो ये देवास्ते १. कायप्रवीचाराः संक्लिष्टकर्मत्वात् मनुष्यवत् स्त्रीविषयसुखमनुभवन्तीत्यर्थः । प्राग्ग्रहणे हि क्रियमाणे ऐशाने कल्पे देवान् वर्जयित्वेत्ययमर्थः संप्रतीयेत ।
___ असंहितानिर्देशोऽसन्वहार्यः॥३॥ आ ऐशानादित्यसंहितया' निर्देशः क्रियतेऽसन्देहार्थम् । ऐशानादित्युच्यमाने सन्देहः स्यात्-'किमाङन्तर्भूतः उत दिक् शब्दोऽध्याहार्यः' इति ? अथवा विमुच्य संशयम्, अनिष्टं कल्प्येत पूर्वयोरित्यधिकारात् ऐशानात् पूर्वयोरित्यवधिग्रहणात् । इतरेषां सुखविभागेऽनिर्माते तत्प्रतिपादनार्थमाह
शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥८॥ शेषग्रहणं किमर्थम् ?
उक्तावशिष्टसंग्रहार्थ शेषग्रहणम् ।। उक्तानामवशिष्टानां संग्रहार्थ शेषग्रहणं क्रियते । के पुनस्ते ? सानत्कुमारादिकल्पनिवासिनः, इतरथा हि ग्रैवेयकादिष्वपि संप्रत्ययः स्यात् "परेप्रवीचाराः" [४।९] इति वक्ष्यमाणमनवधारितविषयं स्यात् । स्पर्शश्च रूपं च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि, स्पर्शरूपशब्दमनःसु प्रवीचारो येषां त इमे स्पर्शरूपशब्दमनःप्रवीचाराः। अत्र चोद्यते
१मबीप्सार्थप्रत्ययः भूयते इत्यर्थः - सम्पा० । २ हरिपोषहरि- ता० । हरिसहहरि-भ०। सुवर्गक-म०, मू०। ४-स्यसहितसम्पिरहितया प्रा०। ५ ऐशानात् विशो यावत् इति दिगर्थप्रतिपस्यर्ष विशब्दोऽभ्याहार्य इत्यर्थः - सम्पा० ।
२०
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org