SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१३ ४॥५-६] चतुर्थोऽध्यायः आत्मरक्षाः शिरोरक्षोपमाः ।५। आत्मानं रक्षन्तीति आत्मरक्षास्ते शिरोरक्षोपमाः । आवृतावरणाः' प्रहरणोद्यता रौद्राः पृष्ठतोऽवस्थायिनः । अपायाभावात्तत्कल्पनावैयर्थ्यमिति चेत् ; न; ऋद्धिविशेषख्यापनार्थत्वात् प्रीतिप्रकर्षहेतुत्वाच्च । ____ आरक्षिकार्थचरसमा लोकपालाः।६। लोकं पालयन्तीति लोकपाला अर्थचरा रक्षिकसमाः ते वेदितव्याः । दण्डस्थानीयान्यनीकानि ७ पदात्यादीनि' सप्तानीकानि दण्डस्थानीयानि वेदितव्यानि । प्रकीर्णकाः पौरजनपदकल्पाः।८। यह राज्ञां पौरा जानपदाश्च प्रीतिहेतवः तथा तन्द्राणां प्रकीर्णकाः प्रत्येतव्याः ।। आभियोग्या दाससमानाः ।९। यथेह दासा वाहनादिव्यापारं कुर्वन्ति तथा तत्राऽऽभि- १० योग्या वाहनादिभावेनोपकुर्वन्ति । आभिमुख्येन योगोऽभियोगः, अभियोगे भवा आभियोग्याः ततः स्वार्थे चातुर्वर्णादिवत् टयण् । अथवा अभियोगे साधव: आभियोग्या:, अभियोगमहन्तीति वा । 'अन्त्यवासिस्थानीयाः किल्विषिकाः।१०। किल्विषं पापं तदेषामस्तीति किल्विषिकाः ते अन्त्यवासिस्थानीया मताः । एकश इति वीप्सार्थे शस् ।११। एकैकस्य निकायस्य एकश इति वीप्सार्थे द्योत्ये शस् प्रयुज्यते । एत इन्द्रादयो दश विकल्पाश्चतुर्ष निकायेषु उत्सर्गेण प्रसक्तास्ततोऽपवादार्थमाह त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ व्यन्तरेषु ज्योतिषकेषु च त्रास्त्रिशान् लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा द्रष्टव्याः । अथ तेषु निकायेषु किमेकैक इन्द्रः उताऽन्यः प्रतिनियमः कश्चिदस्तीति ? अत आह पूर्वयोज़न्द्राः ॥६॥ पूर्वयोरिति वचनं प्रथमद्वितीयनिकायप्रतिपत्यर्थम् ॥१॥ प्रथमस्य द्वितीयस्य च निकायस्य प्रतिपत्त्यर्थ पूर्वयोरिति द्विवचनं क्रियते। कथं पूर्वशब्दो द्वितीयं गमयति ? तृतीयापेक्षया पूर्वोपपत्तेः । चतुर्थापेक्षया तृतीयस्यापि पूर्वत्वप्रसङ्ग इति चेत् ; न: प्रत्यासत्ते- २५ द्वितीयस्यैवोपादानात् । अथ कथमत्र भेद: ? ननु व्यतिरेकाभावादभेदेन निर्देशो न्याय्यः ? उच्यते समूहसमूहिनोः कथञ्चिदर्थान्तरत्वोपपत्ते दविवक्षा ।२। संज्ञालक्षणप्रयोजनादिभिः कञ्चिदर्थान्तरत्वं समहसमूहिनोलॊके दृष्टम् । यथा व्रीहीणां राशि:, आम्राणां वनमिति । तया देवानां निकाययोश्च भेदविवक्षायाम् अधिकरणत्वेन सम्बन्धित्वेन वा निर्देशः क्रियते। ३० द्वीन्द्रा इत्यन्तीतवीप्सार्थो निर्देशः ।३। द्वौ द्वाविन्द्री येषां ते द्वीन्द्रा इति वीप्सार्थमन्तीय निर्देशः क्रियते यथा द्विपदिका त्रिपदिका इति । युज्यते तत्र वीप्सागतिर्वीप्सायां १ कवचाः । २ तथा चोक्तम् - गजाश्वरथपादातवषगन्धर्वनर्सकोः । सप्तानीकानि ज्ञेयानि प्रत्येकं च महत्तरा इति । ३ अन्तेवासिस्था- श्र० । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy