________________
२१२ तत्त्वार्थवार्तिके
[ ३-४ दशाष्टपञ्च हादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥३॥ चतुर्णा दशादिभिर्यथासंख्यमभिसंबन्धः ।। चतुर्णा देवनिकायानां दशादिभिः संख्याशब्दैः यथासंख्यमभिसंबन्धो वेदितव्यः । दशविकल्पा भवनवासिनः, अष्टविकल्पा
व्यन्तराः, पञ्चविकल्पा: ज्योतिष्काः, द्वादशविकल्पा वैमानिका इति। सर्वेषां वैमानिकानां ५ द्वादशविकल्पान्तःपातित्वे प्रसक्ते तद्वयपोहार्थमाह
कल्पोपपन्नपर्यन्तवचनं अवेयकादिव्युदासार्थम् ।२। वेयकादयोः वक्ष्यन्ते तेषां द्वादशविकल्पेष्वन्तर्भावो मा विज्ञायीति विशेषणमुपादीयते । अथ कथं कल्पाः ?
इन्द्रादिविकल्प'नाधिकरणत्वात्कल्पा रूढिवशात् ।३। इन्द्रादयः प्रकारा वक्ष्यमाणा दश एषु कल्प्यन्ते इति कल्पाः । भवनवासिषु च दशविकल्पसद्भावात् कल्पप्रसङ्ग इति चेत्, न; रूढिवशादिति विशेष्योक्तत्वात् । कल्पेषूपपन्नाः कल्पोपपन्नाः पर्यन्ता येषां ते इमे कल्पोपपनपर्यन्ताः । कल्पोपपन्ना इति कथं वृत्तिः ? *"साधनं कृता" [जैनेन्द्र० १।३।२९] इति वा मयूरव्यंसकादित्वाद्वा ।
पुनरपि तद्विशेषप्रतिपत्त्यर्थ माहइन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्ण
काभियोग्यकिल्विषिकाश्चैकशः ॥४॥ परमेश्वर्यादिन्द्रव्यपदेशः।। अन्यदेवाऽसाधारणाणिमादिगुणयोगादिन्दन्तीतीन्द्राः।
'तत्स्थानाहत्वात् सामानिकाः ॥२॥ तेषामिन्द्राणामाज्ञैश्वर्यवजितं यत् स्थानायुर्वीर्यपरिवारभोगोपभोगादि तदेतेषां समानम्, समाने भवाः सामानिकाः 'समानस्य तदादेश्च" [जैनेन्द्रवा० ३।३।३५] इति ठञ । महत्तरपितृगुरूपाध्यायतुल्याः ।।
__ मन्त्रिपुरोहितस्थानीयास्त्रायस्त्रिंशाः ।३। यथेह राज्ञां मन्त्रिपुरोहिता हितानुशासिनस्तथा तन्द्राणां त्रायस्त्रिशा वेदितव्याः । कथं त्रायत्रिंशाः ? त्रयस्त्रिशति जाताः त्रायस्त्रिशाः "दृष्टे साम्नि च जाते च 'अण् डिद्वा विधीयते" [पात० महा० २।४।७] इत्यभिधानमस्तीति अण् डिद् भवति । ननु च भेदाभावाद् वृत्तिन प्राप्नोति ? संख्यानसंख्येयभेदविवक्षायाम् आधाराधेयत्वो
पपत्तेर्वृत्तिर्भवति । स्वार्थे को वा, वात् अण्, त्रयस्त्रिशदेव त्रायस्त्रिशा इति । कुत: ? २५ रहत"जनेन्द्र ० ३।१।६१] इति बहुत्वनिर्देशाद् अन्तमादिवत् ।
"वयस्यपीठमईसदृशाः पारिषदाः ।४ परिषदि जाता भवा वा पारिषदाः, ते वयस्यपीठमर्दसदृशा वेदितव्याः ।
१-रूपाधीनक-मा०, ब०, मु० । -ल्पाधानक- द० । -ल्पाधिक-१०। २-बोवतत्वात प्रा०, ब०, द०, मु०, ता०, ०। वैमानिकेष्वेव वर्तते कल्पशब्दः। ३ "मयरव्यंसफादयश्च" -जैनेन्द्र० ॥३॥६६॥ ४ -त्यर्थमिदमाह प्रा०, ब०, २०, मु०, ता०, मू०। ५ -दिग्रहणयो- प्रा०, २०, द०, म०। ६ तत्समानत्वात्सा- भा० १। ७ अध्यात्मादित्वात् -समानादिलोकोत्तरपदाध्यात्मादिभ्यः ठण इति ठण। ८..'अण् डिद् द्विर्वा विधीयते" -पात महा। नैष दोषः । १० विषयप्ति
यति बेत्यनेन । वावण ता०, म०। ११ वात्' इति प्रथमाविभक्तिः इत्यर्थः। इदमेव ज्ञापकं प्रथमावि भक्तेः स्वाथिकोणाविर्भवत्यन्यत्रेति । १२ तद्धितप्रत्ययः। १३ "वेश्याचार्यः पीठमः- वेश्याचार्यों वेश्यानां नत्तोपाध्यायः, पीठं नर्तनस्यानं पावै दनाति पीठमवः ।।' -अभिषा च० २।२४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org