________________
चतुर्थोऽध्यायः
असकृद् देवशब्द उक्तः *“भवप्रत्ययोऽवधिर्देवनारकाणाम्” [त० सू० १ २०] इत्येवमादिषु तत्र न ज्ञायते के देवाः कियन्तो वा इति ? तन्निश्चयार्थमित उत्तरं प्रक्रम्यते । अथवा, सम्यग्दर्शनविषयजीवभेदत्रसस्थावरनिर्णयाय तदधिकरणभूताधस्तिर्यग्लोकनिवेशक्रमो व्याख्यातः, इतस्तद्विशेषप्रतिपत्तये ऊर्ध्वलोकविभागो वक्तव्यः । तत्र 'बहुवक्तव्यसद्भावेऽप्यधिपतिप्रतिपादनपुरस्सरस्तदधिकरणविभागनिर्णय इतीदमुच्यते
देवाश्चतुर्णिकायाः ॥१॥
देवगतिनामकर्मोदये सति द्युत्याद्यर्थावरोधाद् देवाः |१| अन्तरङ्गगहेतो देवगतिनामकमये सति बाह्यादि क्रियासंबन्धमन्तनय दीव्यन्तीति देवा इति व्यपदिश्यन्ते । एकत्वेन निर्देशः कर्तव्यः देवश्चतुर्णिकाय: इति; स जात्यभिधानाद् बहूनामर्थानां प्रतिपादको भवति इति ? अत उत्तरं पठति
बहुत्वनिर्देशो ऽन्तर्गतभेवप्रतिपत्त्यर्थः । २ ॥ इन्द्रादिकृताः स्थित्यादिजनिताश्चाऽन्तर्गता बहवो देवभेदाः सन्ति तेषां प्रतिपत्त्यर्थं बहुत्वनिर्देशः क्रियते ।
स्वधर्मविशेषापादितसामर्थ्यात् निचीयन्त इति निकायाः | ३ | तस्य देवगतिनामकर्मोदयस्वधर्मविशेषापादितभेदस्य सामर्थ्यानिचीयन्त इति निकायाः संघाता इत्यर्थः । चत्वारो निकाया येषां ते चतुर्णिकायाः । के पुनस्ते ? भवनवासिनो व्यन्तरा ज्योतिष्का वैमानि १५ काश्चेति ।
तेषां लेश्यावधारणार्थमुच्यते
आदितस्त्रिषु पीतान्तलेयाः ॥२॥
आदित इति वचनं विपर्यासनिवृत्त्यर्थम् |१| अन्ते अन्यथा वा ग्रहणं मा विज्ञायीति आदित इत्युच्यते । आदी आदितः ।
कनिवृत्त्यर्थं त्रिग्रहणम् । २ ।
द्वयोरेकस्य च निवृत्त्यर्थं त्रिग्रहणं क्रियते । अथ चतुर्णा निवृत्त्यर्थं कस्मान्न भवति ? आदित इति वचनात् ।
श्यावधारणार्थं पीतान्तवचनम् |३| षट्लेश्या उक्ताः । तत्र चतसृणां लेश्यानामवधारणार्थं क्रियते पीतान्तग्रहणम् । पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः, पीतान्तालेश्या येषां ते पीतान्तलेश्या: । तेनैतदुक्तं भवंति - आदितस्त्रिषु निकायेषु भवनवासिव्यन्तरज्योतिष्क नामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्तीति ।
२५
तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह
१ प्रकीर्णकादि । २ प्राविशब्देन कीजादिकं प्राह्यम् । ३ स्वकृतपुण्यकर्म विशेषात् । ४ निकामयोः । ५ पचनाद्यभावात् चतुर्थस्यावित्वाघटनात् ।
५
Jain Education International
For Private & Personal Use Only
२०
www.jainelibrary.org