________________
४।१९] . चतुर्थोऽध्यायः . . .
-
२२७ शेषं सोमवत् । चतुर्णामपि लोकपालानामेकैकस्याऽर्धचतुर्थकोटीसंख्या अप्सरसः । सौधर्मेन्द्रकविमानानाम् एकत्रिशच्छ्रेणीविमानानां चत्वारि सहस्राणि त्रीणि शंतानि एकसप्तत्यधि- . कानि । पुष्पप्रकीर्णकविमानानाम् एकत्रिशच्छतसहस्राणि पञ्चनवतिः सहस्राणि पञ्चशतान्यष्टनवत्यधिकानि । तान्येतानि समुदितानि द्वात्रिंशद्विमानशतसहस्राणि भवन्तीत्युक्तः सौधर्मकल्पः । .
तथा तस्मात् प्रभाविमानात् उदक्छे ण्यां द्वात्रिंशद्विमानविरचितायां यदष्टादशं 'तत्कल्पविमानम्। तस्य परिवारवर्णना पूर्ववद्वेदितव्या। 'तस्याधिपतिः-ऐशानो देवराजः । यस्याऽष्टाविंशतिविमानशतसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशा ' देवाः, अशीतिः सामानिक- . सहस्राणि, तिस्रः परिषदः, सप्तानीकानि, अशीतिरात्मरक्षसहस्राणि, चत्वारो लोकपालाः ।। श्रीमती सुसीमा वसुमित्रा वसुन्धरा जया जयसेना अमला प्रभा चेत्यष्टावग्रमंहिष्यः सप्त- १० पल्योपमस्थितयः । द्वात्रिंशद्वल्लभि कासहस्राणि सप्तपल्योपमायूंषि । अभ्यन्तरपरिषत्समिता दशदेवसहस्राणि सप्तपल्योपमायूंषि। चन्द्रा मध्यमा परिषत् द्वादशदेवसहस्राणि षट्पल्योपमायूंषि । 'जातुर्बाह्यपरिषत् चतुर्दशदेवसहस्राणि पञ्चपल्योपमायूंषि । लघुपराक्रमः पदात्यनीकमहत्तरः, अमितगतिः अश्वानीकमहत्तरः, द्रुमकान्तो वृषभानीकमहत्तरः, किन्नरो रथानीकमहत्तरः, पुष्पदन्तो गजानीकमहत्तरः, गीतयशा गन्धर्वानीकमहत्तरः, श्वेता नर्तकी- १५ गणमहत्तरिका। तत्र पदात्यनीकमहत्तरस्य प्रथमा कक्षा अशीतिर्देवसहस्राणि, द्वितीया तद्द्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः। एवं शेषाणामप्यनीकानां विक्रियासंख्या। त . . एते सर्वे अनीकदेवाः तन्महत्तराश्च साधिकपल्योपमायुषः । ऐशानस्य दक्षिणस्यां दिशि . समे विमाने सोमो नाम लोकपाल:, अर्धपञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषत् षष्टिदेवाः ।। मध्यमपरिषत् पञ्चदेवशतानि। बाह्यपरिषत् षड देवशतानि सप्त च देवाः । अपरस्यां २० दिशि सर्वतोभद्रे यमो लोकपाल: 'अर्धपञ्चमपल्योपमायुः। शेषः सोमवत् । उत्तरस्यां दिशि . सुभद्रे वरुणो लोकपाल: पञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषदशीतिर्देवाः । मध्यमपरिषत् सप्तदेवशतानि । बाह्यपरिषदष्टौ देवशतानि । पूर्वस्यां दिशि अमिते विमाने वैश्रवणो लोकपालः पादोनपञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषत् सप्ततिर्देवाः। मध्यमपरिषत् षड देवशतानि । बाह्यपरिषत् सप्तदेवशतानि । ईशानस्य पुष्पको नाम आभियोग्यो देव: २५ बालकतुल्यः जम्बूद्वीपप्रमाणपुष्पकयानविमानविकरणसमर्थः । शेषः शक्रवन्नेयः । एवमुत्तरश्रेणिविमानपुष्पकप्रकीर्णकाधिपतिरीशानो वर्णितः।
प्रभाविमानादूर्ध्व बहूनि योजनसहस्राणि उत्पत्य सानत्कुमारमाहेन्द्रकल्पौ. भवतः । तयोः सप्तविमानप्रस्तारा:- अञ्जन-वनमाल-नाग-गरुड-लाङगल-बलभद्र-चक्राभिधानाः ।। तत्राञ्जनविमानाच्चतसृष्वपि दिक्ष । चतस्रो विमानश्रेण्यो निर्गताः । . विदिक्ष ३० पुष्पप्रकीर्णकविमानानि। तत्रैकैकस्यां विमानश्रेण्याम् एकत्रिंशंद्विमानानि एककहीनान्याचक्रात् । तेषामन्तराण्यपि. बहूनि योजनशतसहस्राणि । चक्राख्यादन्तविमानाद् दक्षिणश्रेण्यां पञ्चविंशतिविमानविराजितायां पञ्चदशं कल्पविमान सोधर्मकल्पविमानसदृशम् । तस्याधिपतिः सानत्कुमारो देवराजः। तस्य द्वादशविमानशत
१ ईशान । २ तस्य पतिः प्रा०, ब०, ८०, म०। ३ चातु-भा० २। ४ अर्धपञ्च-पा०, ब०, म०, ता०, म०।५-नि एवंवेणीविमानानि एकक-प्रा०,ब०,०, मु०, ता०, मू०।६.यस्य प्रा०, ब०, ८०, मु०, मू०, ता० ।
To
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org