________________
२२८
तत्त्वार्थवार्तिके
[४११९ सहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशा देवाः, द्विसप्ततिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्विसप्ततिः आत्मरक्षसहस्राणि, चत्वारो लोकपालाः। अष्टावग्रमहिष्यः शक्राग्रमहिषीसमाना नवपल्योपमायुषः। एकैका 'चात्राऽष्टाभि: देवीसहस्रः परिवृताः द्वात्रिंशददेवीसहस्रविकरणसमर्थाः । अष्टावन्यानि वल्लभिकानां सहस्राणि तावदायुविकरणसमर्थानि । समिताऽभ्यन्तरपरिषदष्टौ देवसहस्राणि साधिकार्धचतुर्थसागरोपमायूंषि । चन्द्रा मध्यमपरिषद् दशदेवसहस्राणि साधिकार्धचतुर्थसागरोपमायूषि । 'जातुर्बाह्यपरिषत् द्वादशदेवसहस्राणि साधिकार्धचतुर्थसागरोपमायू षि । अभ्यन्तरपरिषदेवानाम् एकैकस्य सप्तदेवीशतानि पञ्चपल्योपमायू षि । मध्यमपरिषदेवानाम् एकैकस्य षड देवीशतानि पञ्चपल्योपमायूषि। बाह्यपरिषदेवानाम् एकैकस्य पञ्चदेवीशतानि पञ्चपल्योपमायूषि। सर्वाणि च तानि तावद्विक्रियासमर्थानि । तस्यानीकमहत्तराः शक्रानीकमहत्तरसमाना' अर्धचतुर्थसागरोपमायुषः । पदातीनां प्रथमकक्षा द्विसप्ततिसहस्राणि । द्वितीया तद्विगुणा । एवं द्विगुणा द्विगुणा आ सप्तम्याः । तथा शेषेष्वपि षट्सु अनीकेषु अनीकमहत्तराणामेकैकस्य त्रीणि देवीशतानि पञ्चपल्योपमायूषि। आत्मरक्षदेवानाम् एकैकस्य देवीशतं पञ्चपल्यो
पमायुः । 'बालकनामाभियोग्यदेवस्याऽऽयुः अर्धचतुर्थानि सागरोपमाणि । त्रीणि देवीशतानि १५ पञ्चपल्योपमायूषि । पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ-स्वयंजन-वल्गुविमानवासिनः सोमयम
वरुणवैश्रवणाः चत्वारो लोकपालाः । एषामेकैकस्य दश दश सामानिकशतानि, दशदशदेवीशतानि, चतस्रोऽयमहिष्यः, तिस्रः परिषदः । सागरोपमत्रयस्थिती सोमयमौ । पादाधिकतावदायुर्वरुणः । अर्धाधिकतावदायुर्वैश्रवणः । सोमयमयोरभ्यन्तरपरिषच्चत्वारिंशद् देवाः ।
मध्यमपरिषत् त्रीणि देवशतानि । बाह्यपरिषच्चत्वारि देवशतानि । वरुणस्याऽभ्यन्तर२० परिषत्पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्चदेवशतानि । वैश्रवणस्य
अभ्यन्तरपरिषत् पष्टिदेवाः । मध्या पञ्चदेवशतानि । बाह्या परिषत् षड्देवशतानि । चतसृष्वपि अभ्यन्तरपरिषत्सु देवानामायुः त्रीणि सागरोपमाणि । एककस्य देवीशतम् । चतसृष्वपि मध्यमपरिषत्सु देवानामायुः देशोनानि त्रीणि सागरोपमाणि। एकैकस्य' पञ्चसप्ततिर्देव्यः । चतसृष्वपि बाह्यपरिषत्सु देवा अर्धतृतीयसागरोपमायुषः, एकैकस्य पञ्चाशद् देव्यः ।
तस्माच्चक्रविमानादुत्तरस्यां दिशि श्रेण्यां पञ्चविंशतिविमानमण्डितायां पञ्चदशं कल्पविमानं पूर्वोक्तवर्णनम् । तस्येश्वरो महेन्द्रो देवराजः। यस्याऽष्टौ विमानशतसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशा देवाः, सप्ततिः सामानिकसहस्राणि , तिस्रः परिषदः, सप्ततिरात्मरक्षसहस्राणि, चत्वारो लोकपालाः, ऐशानाग्रमहिषीतुल्यसंज्ञा अष्टावग्रमहिष्यः एकादशपल्यो
पमायुषः । अष्टौ चास्य वल्लभिकानां सहस्राणि तावदायूंषि। शेषः सानत्कुमाराममहिषी३० वल्लभिकावत् । समिताऽभ्यन्तरपरिषत् षड्देवसहस्राणि। चन्द्रा मध्यमपरिषत् अष्टो
देवसहस्राणि । जातुर्बाह्यपरिषत् दशदेवसहस्राणि । तिसृष्वपि परिषत्सु देवानां सानत्कुमारपरिषदेवस्थितेरधिका स्थितिः । शेषो देवीगणपरिमाणायुविक्रियासामर्थ्यादिविधिः सानत्कुमारपरिषद्वत्। अनीकमहत्तराणामाख्या ऐशानवद्वेदितव्याः। पदात्यनीकस्य प्रथमकक्षा सप्ततिर्देवसहस्राणि, द्वितीया तद्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः । तथा शेषेष्वपि षट्सु
१-टावशभि-मा०, ०,१०, म०। २-णि अपंचतु- ता०, १०, मू०। ३ चातुर्बाभा० २। ४ नाम्ना। ५ बालकविमानाभि-प्रा०, २०, २०, म०, मू०। ६ - स्य सप्तति-पा०, २०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org