________________
४।१९ ]
चतुर्थोऽध्यायः
२२९
अनीकेषु । अनीकमहत्तराणाम् एकैकस्य त्रीणि देवीशतानि । एकैका चात्र सप्तपल्योपम - स्थितिका । आत्मरक्षाणामायुः साधिकार्ध चतुर्थानि सागरोपमाणि । एकैकस्य सप्तपल्योपमा युषां देवीनां शतम् । दक्षिणादिषु दिक्षु सम-सर्वतोभद्र - सुभद्र - समितविमानवासिनः सोमयमवरुणवैश्रवणलोकपालाः । एकैकस्य दश दश सामानिकशतानि, तावत्संख्या देव्यः, चतस्रोऽग्रमहिष्यः तिस्रः परिषदः । तत्रार्ध चतुर्थसागरोपमस्थितिर्वरुणः, तदूनस्थितिर्धनदः, ततोऽप्यून- ५ स्थिती सोमयमौ, सोमयमयोरभ्यन्तरपरिषत् पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्चदेवशतानि । वैश्रवणस्याऽभ्यन्तरपरिषत् षष्टिर्देवाः । मध्या पञ्चदेवशतानि । बाह्या षड्देवशतानि । वरुणस्याभ्यन्तरपरिषत्सप्ततिर्देवाः । मध्या षड्देवशतानि । बाह्या सप्तदेवशतानि । लोकपालचतुष्टयाभ्यन्तरपरिषद् देवानामैकैकस्य देवीशतम् । मध्यमपरिषद्देवानां एकैकस्य सप्ततिर्देव्यः । बाह्यपरिषदेवानाम् एकैकस्य पञ्चाशद्देव्यः । आयुश्च तेषां यथा- १० साधिकानि समान देशोनानि च त्रीणि सागरोपमाणि । पुष्पकयानविमानाभियोग्यदेवः साधिका चतुर्थ सागरोपमायुः । तस्य देवानां साधिकद्विसागरायुषां शतम् ।
विमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य ब्रह्मलोकब्रह्मोत्तरकल्पौ स्तः । तयोश्चत्वारो विमानप्रस्ताराः -- अरिष्टो देवसमितो ब्रह्म ब्रह्मोत्तर इति । अरिष्टविमानाच्च चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः चतुर्विंशतिविमानगणनाः । विदिक्षु पुष्प - १५ प्रकीर्णानि । एवमेकैकश्रेणिविमानहान्यानेतव्या आ ब्रह्मोत्तरात् । तेषां प्रस्ताराणामन्तराण्यपि बहूनि योजनशतसहस्राणि । ब्रह्मोत्तरविमानाद् दक्षिणश्रेण्याम् एकविंशतिविमानविराजितायां द्वादशं कल्पविमानं पूर्वोक्तवर्णनम् । तस्याधिपतिः ब्रह्मो (ह्म) देवराजः । यस्य साधिके द्वे विमानशतसहस्रे, त्रयस्त्रिशत्त्राय स्त्रिशाः देवाः, षट्त्रिंशत् सामानिकसहस्राणि तिस्रः परिषदः, सप्तानीकानि षत्रिँशदात्मरक्षसहस्राणि चत्वारो लोकपालाः । पद्मादयः २० शाग्र महिषीतुल्यसंज्ञा अष्टावग्रमहिष्यः त्रयोदशपल्योपमस्थितयः चतुर्देवी सहस्रपरिवृताः । द्वे च वल्लभकासहस्रे त्रयोदशपल्योपमस्थितिके । एकैकाग्रमहिषी वल्लभिका चतुष्षष्टिदेवीरूपसहस्रविकरणसमर्था । समिताभ्यन्तरपरिषत् चत्वारि देवसहस्राणि अष्टसागरोपमायूंषि । चन्द्रा मध्यमपरिषत् षड् देवसहस्राणि देशोनाष्टसागरोपमायूंषि । जातुर्बाह्या अष्टौ देवसहस्राणि अष्टसागरोपमायूंषि । अभ्यन्तरपरिषद्देवानामेकैकस्य पञ्चाशद् देव्यः । मध्यमपरिषदेवानां चत्वारिंशद् देव्यः । बाह्यपरिषदेवानां त्रिशद् देव्यः । वाय्वादयः सप्तानीकमहत्तरा अर्धाष्टमसागरोपमायुषः । तत्र वायोः पदात्यनीकमहत्तरस्य प्रथमकक्षा षट्त्रिशत्सहस्राणि द्वितीया तद्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः । सर्वेषामनीकमहत्तart अर्ध तृतीयानि देवीशतानि । चतस्रोऽग्रमहिष्यः । आत्मरक्षदेवानामायुः अर्धाष्टमान सागरोपमाणि । एकैकस्य पञ्चाशद् देव्यः । बालकाभियोग्यदेवोऽपि तावदायुर्देवीकः । ३० पूर्वादिषु दिक्षु स्वयंप्रभवरज्येष्ठस्वयंजनवल्गु विमाननिवासिनः सोमयमवरुणवैश्रवणा लोकपालाः । तेषामेकैकस्य पञ्च सामानिकशतानि पञ्च देवीशतानि चतस्रोऽग्रमहिष्यः । अर्घाष्टमसागरोपमायुर्धनदः । तदूनायुर्वरुणः । ततोऽप्यूनस्थिती सोमयमौ । सोमयमयोरभ्यन्तरपरिषत् त्रिशद्देवाः । मध्या द्वे देवशते । बाह्या त्रीणि देवशतानि । वरुणस्याभ्यन्तरपरिषच्चत्वारिशद् देवाः । मध्या त्रीणि देवशतानि । बाह्या चत्वारि देवशतानि । वैश्रवणस्याभ्यन्तरपरिषत् पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्च देवशतानि । चतसृषु अभ्यन्तरपरिषत्सु देवानामायुरष्टो सागरोपमाणि । मध्यमपरिषदेवानां देशोनान्यष्टी
Jain Education International
For Private & Personal Use Only
२५
३५
www.jainelibrary.org