SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३० . तत्त्वार्थवार्तिके [४१९ सागरोपमाणि । बाह्यपरिषदेवानां तान्येवार्धाष्टमानि । तेषां देव्यो यथासंख्यं पञ्चाशच्चत्वारिंशत् त्रिंशच्च वेदितव्याः ।। - ब्रह्मोत्तरादुत्तरश्रेण्यामेकविंशतिविमानायां द्वादशं कल्पविमानं पूर्ववत्। तस्याधिपतिः ब्रह्मोत्तरः । यस्य न्यूने द्वे विमानशतसहस्र, त्रयस्त्रिशत्त्रायस्त्रिशा देवाः, द्वात्रिंशत्सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वात्रिंशदात्मरक्षसहस्राणि, चत्वारो लोकपालाः, ऐशानेन्द्राग्रमहिषीतुल्यसंज्ञा अष्टावग्रम हिष्यः पञ्चदशपल्योपमायुषः, द्वे च वल्लभिकासहस्रे तावदायुषी.। अवशिष्टं ब्रह्मेन्द्रवत् । ब्रह्मोत्तरस्याभ्यन्तरपरिषत् समिता द्वे देवसहस्रे । चन्द्रा मध्या चत्वारि देवसहस्राणि। जातुर्बाह्या षंड्देवसहस्राणि। अवशिष्टं ब्रह्मेन्द्रपरिषद्वत् । . पुष्पकाभियोग्योऽपि तद्वदेव । पदात्यनीकस्य प्रथमकक्षा द्वात्रिंशद् देवसहस्राणि। इतरदं १०. ब्रह्मेन्द्रवत् । आत्मरक्षाश्च तद्वदेव । दक्षिणादिदिक्षु सोमादयो लोकपाला ब्रह्मेन्द्रवन्नेयाः । - ब्रह्मोत्तरविमानादूर्ध्व बहुयोजनशतसहस्राणि उत्पत्य' लान्तवकापिष्ठौ कल्पौ भवतः । - ययोद्वौं विमानप्रस्तारौ ब्रह्महृदयलान्तवाख्यौ । तत्र लांतवविमानाद् दक्षिणश्रेण्याम् एकान्न... विशतिविमानविरचितायां नवमं कल्पविमानं पूर्वोक्तपरिवारम् । तस्याधिपतिर्लान्तवो नाम . देवराजः । यस्याधिकानि पञ्चविंशतिविमानसहस्राणि, त्रयस्त्रिशत् त्रायस्त्रिशा देवाः, १५ चतुर्विंशतिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चतुर्विशतिरात्मरक्ष सहस्राणि, चत्वारो लोकपालाः, शक्रानमहिषीसमानसंज्ञा अष्टावग्रमहिष्यः सप्तदशपल्योप. मायुषः, प्रत्येक द्वाभ्यां देवीसहस्राभ्यां परिवृताः । अन्यानि च वल्लभिकानां तावदायुषां पञ्चशतानि । एकैका चात्राममहिषी वल्लभिका च एक देवीशतसहस्रमष्टाविंशति च देवी- सहस्राणि विकरोति । समिताऽभ्यन्तरपरिषत् एकं देवसहस्रम् । तत्रैकैकस्य साधिकानि दश२० सागरोपमाणि आयुः, सप्ताशीतिश्च देव्यः । मध्या चन्द्रा द्वे देवसहस्रे । अत्रैकैकस्य देशोनानि दशसागरोपमाण्यायुः, पञ्चसप्ततिश्च देव्यः । जातुर्बाह्या चत्वारि देवसहस्राणि । तत्रैकैकस्य · मध्यपरिषदेंवायुषः किञ्चिन्यूनमायुः, त्रिषष्टिश्च देव्यः । बालकाभियोग्यो बाह्य परिषत्समायुः, षष्टिश्चास्य देव्यः । अनीकानां तन्महत्तराणां चायु: मध्यमपरिषदायुषः किञ्चिन्यूनमायुः । सर्वेषां प्रथमकक्षा चतुर्विशतिः सहस्राणि । ततो द्विगुणा द्विगुणा आ २५. सप्तम्याः । तत्रैकैकस्य देवस्य महत्तरस्य च षष्टिव्यः । पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ. स्वयंजन-वल्गुविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । तत्रैकैकस्य चत्वारि सामानि कशतानि, अर्धतृतीयानि देवीशतानि, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । जातुपरिषत्सदृशा युर्वे श्रवणः । ततो न्यूनायुर्वरुणः । ततो न्यूनायुषी सोमयमौ। सोमयमयोरभ्यन्तरपरिषद्विंशति- देवाः, मध्या देवशतम्, बाह्या द्वे देवशते । वरुणस्याभ्यन्तरपरिषत्रिशद् देवाः, मध्या द्वे ३० देवशत, बाह्या त्रीणि देवशतानि । वैश्रवणस्याभ्यन्तरपरिषच्चत्वारिंशद् देवाः, मध्या त्रीणि . देवशतानि, बाह्या चत्वारि देवशतानि । सर्वाभ्यन्तरपरिषद्देवानामायुरेकादशसागरोप. माणि । मध्यमपरिषदेवानां तान्येव किञ्चिन्यूनानि । बाह्यपरिषदेवानां ततोऽपि किञ्चिन्यूनानि । तेषां यथाक्रमं पञ्चविंशतिः विंशतिः पञ्चदशदेव्यः । लान्तवविमानादुत्तरश्रेण्याम् एकान्नविंशतिविमानविराजितायां नवमं कल्पविमानं ३५ पूर्वोक्तवर्णनम् । तस्याधिपतिः कापिष्ठः । यस्योनानि पञ्चविंशतिः विमानसहस्राणि, १ उल्लत्य प्रा०, ब०, २०, मः। २ चाग्रम- प्रा०, २०, ०, मु०। ३ इन्द्रः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy