________________
४।१९] चतुर्थोऽध्यायः
२३१ त्रयस्त्रिंशत्त्रायस्त्रिशा देवाः, द्वाविंशतिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वाविंशतिरात्मरक्षसहस्राणि, चत्वारो लोकपालाः, श्रीमत्यादयोऽष्टावग्रमहिष्यः पञ्चशतसंख्याश्च वल्लभिका एकान्नविंशतिपल्योपमायुषः । अवशिष्टं लान्तवेन्द्रवत्, परिषदश्च । सर्वेषामनीकानां प्रथमकक्षा द्वाविंशतिसहस्राणि, इतरल्लान्तवेन्द्रवत् । आत्मरक्षादिविधिश्च तथैव ज्ञेयः । अयं तु विशेषः लान्तवेन्द्रजातुपरिषत्सदुशायुर्वरुणः । तत ऊनायुः वैश्रवणः। ५ ततोऽप्यूनायुषौ सोमयमौ ।
___ लान्तवविमानाद्बहूनि योजनशतसहस्राणि उत्पत्य महाशुक्रो' नाम विमानप्रस्तारो भवति । ततो महाशुक्रविमानात् दक्षिणश्रेण्याम् अष्टादश विमानपरिमण्डितायां द्वादशं कल्पविमानं पूर्वोक्तपरिवारम् । तस्याधिपतिः शुक्रो नाम देवराजः । यस्याधिकानि विंशतिविमानसहस्राणि, त्रयस्त्रिशत्त्रायस्त्रिशा देवाः, 'चतुर्दश सामानिकसहस्राणि, तिस्रः परिषदः, १० सप्तानीकानि, चतुर्दशाऽऽत्मरक्षसहस्राणि, चत्वारो लोकपालाः, पद्मादयोऽष्टावग्रमहिष्यः, एकैका चात्र दशभिर्देवीसहस्रः परिवृता । वल्लभिकाश्च अर्धतृतीयशतसंख्याः । एकका यत्राग्रमहिषी वल्लभिका चैकविंशतिपल्योपमायुः, द्वे देवीरूपशतसहस्रे षट्पञ्चाशतं च देवीरूपसहस्राणि विकरोति । समिताऽभ्यन्तरपरिषत् पञ्चदेवशतानि चतुर्दशसागरोपमायूषि । तत्रैकैकस्य त्रिचत्वारिंशद् देव्यः । चन्द्रा मध्या एकं देवसहस्रं देशोनचतुर्दशसागरोपमायुः। १५ तत्रैकैकस्याष्टत्रिंशद् देव्यः । जातुर्बाह्या द्वे देवसहस्र मध्यमपरिषद्नायुषी। अत्रकैककस्य पञ्चत्रिंशद् देव्यः । अनीकानां महत्तराणां च जातुवदायुः। सर्वेषां प्रथमकक्षा चतुर्दशदेवसहस्राणि, एकैकस्य पञ्चाशद् देव्यः । बालकाभियोग्योऽपि तावदायुर्देवीकः, आत्मरक्षाश्च। पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ-स्वयंजन-वल्गुविमानवासिनः सोमादयश्चत्वारो लोकपालाः। धनदस्य जातुवदायुः, ततोऽप्यूनायुर्वरुणः, ततोऽप्यूनायुषौ सोमयमौ । तयोरभ्यन्तरपरिषदष्टदेवाः । २० मध्या पञ्चाशत् । बाह्या देवशतम् । वरुणस्याभ्यन्तरपरिषत् विंशतिर्देवाः । मध्या देवशतम् । बाह्या द्वे देवशते । वैश्रवणस्याभ्यन्तरपरिषद्विशतिर्देवाः । मध्या द्वे देवशते । बाह्या त्रीणि देवशतानि । सर्वाभ्यन्तरपरिषद्देवानामायुः पञ्चदशसागरोपमाणि । मध्यमपरिषद्देवानामायुस्तान्येव देशोनानि । बाह्यपरिषदेवानामायुः सार्धचतुर्दशसागरोपमाणि । तेषां यथाक्रम विंशतिः पञ्चदश दश च देव्यो भवन्ति ।।
___ महाशुक्रविमानादुत्तरश्रेण्याम् अष्टादशविमानशोभितायां द्वादशं कल्पविमानम् ।। तस्याधिपतिः महाशुक्रः । यस्पोनानि विंशतिविमानसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्वादश सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वादशात्मरक्षसहस्राणि, चत्वारो लोकपालाः, श्रीमत्यादयोऽष्टावग्र महिष्यः अर्धतृतीयशतसंख्याश्च वल्लभिकाः त्रयोविंशतिपल्योपमायुषः। शेषं शुक्रवत् । तिस्रोऽपि परिषदः शुक्रवदेव वेदितव्याः । ३० अनीकानां प्रथमकक्षा द्वादशदेवसहस्राणि । शेषं शुक्रवत् । आत्मरक्षाणां पुष्पकाभियोग्यस्य च तथैव विधिः। दक्षिणादिषु दिक्षु सम-सर्वतोभद्र-सुभद्र-समितविमाननिवासिनः सोमाद-, यश्चत्वारो लोकपालाः । शुक्रजातुपरिषत्समस्थितिवरुणः । तत ऊनायुवै श्रवणः। ततोऽप्यूनायुषौ सोमयमौ । शेषं शुक्रवत् ।
महाशुक्रविमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य सहस्रार' एकविमानप्रस्तारो ३५ भवति । यत्र दक्षिणोत्तरौ शतारसहस्रारकल्पौ। तत्र सहस्रारविमानाद् दक्षिणश्रेण्यां सप्तदश
१ इनक। २-ति शुक्रमहाशुक्रौस्तःततो प्रा०, ब०, १० । ३ -श देवाः १० । ४ इन्त्रक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org