________________
तत्त्वार्थवार्तिके
[ ४। १९
विमानगणनायां नवमं कल्पविमानम् । तस्याधिपतिः शतारो नाम देवराजः । यस्याधिक त्रीणि विमानसहस्राणि त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, चत्वारि सामानिकसहस्राणि, तिस्रः परिषदः सप्तानीकानि चत्वारि आत्मरक्षसहस्राणि चत्वारो लोकपालाः, पद्मादयोऽष्टावग्रमहिष्यः पञ्चविंशतिपल्योपमायुषः । एकैका चात्र पञ्चभिर्देवीशतैः परि५ वृताः पञ्चदेवीरूपशतसहस्राणि द्वादशदेवी रूपसहस्राणि विकरोति । द्विषष्टिर्वल्लभकास्तावदायुविक्रिया: । समिताऽभ्यन्तरपरिषदर्ध तृतीयानि देवशतानि साधिकषोडशसागरोपमायूंषि । तेषामेकैकस्यैकविंशतिर्देव्यः । चन्द्रा मध्या पञ्चदेवशतानि देशोन षोडशसागरोपमा षि । तेषाम् एकैकस्याऽष्टादश देव्यः । जातुर्बाह्या एकं देवसहस्रं चन्द्रायुरूनायु:, तेषामेकैकस्य पञ्चदश देव्यः । सर्वेषामप्यनीकानां महत्तराणां च जातुवदायुः । प्रथम१० कक्षा चत्वारि देवसहस्राणि । एकैकस्य चत्वारिंशद् देव्यः । पूर्वादिषु दिक्षु स्वयंप्रभादिविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । जातुपरिषत्समायुर्वेश्रवणः । तत ऊनायुवरुण:, ततोऽप्यूनायुषौ सोमयमौ । तयोरभ्यन्तरपरिषत् पञ्चदेवाः । मध्या पञ्चविंशतिदेवाः । बाह्या पञ्चाशद् देवाः । वरुणस्याभ्यन्तरपरिषद् दशदेवाः । मध्या पञ्चाशद् देवाः । बाह्या देवशतम् । वैश्रवणस्याभ्यन्तरपरिषत् पञ्चदशदेवाः । मध्या देवशतम् । बाह्या द्वे १५ देवशते । सर्वाभ्यन्तरपरिषद् देवानामायुः सप्तदशसागरोपमाणि । मध्यमपरिषदेवानामायुः तान्येव देशोनानि । बाह्यपरिषदेवानामायुः सार्धानि षोडशसागरोपमाणि । तेषां यथाक्रमं पञ्चदश दश पञ्चदेव्यो भवन्ति ।
२३२
सहस्रारविमानादुत्तरश्रेण्यां सप्तदशविमानभूषितायां नवमं कल्पविमानम् । तस्याधिपतिः सहस्रारः । यस्योनानि त्रीणि विमानसहस्राणि त्रयस्त्रिंशत्त्रायस्त्रिशा देवा:, द्वे सामानि - २० कसहस्रे, तिस्रः परिषदः, सप्तानीकानि, द्वे आत्मरक्षसहस्रे, चत्वारो लोकपालाः, श्रीमत्यादयोsटावग्रमहिष्यः सप्तविंशतिपत्योपमायुषः । शेषः शतारेन्द्रवत् । परिषदात्मरक्षाऽनीका भियोग्यवर्णना च शतारेन्द्रवत् । अयं तु विशेषः - अनीकानां प्रथम कक्षा द्वे देवसहस्रे । दक्षिणादिषु दिक्षु सम- सर्वतोभद्र- सुभद्र-समितविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । That द्वे सामानिकदेवशते, त्रिषष्टिर्देव्यः, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । शेषः २५ शतारेन्द्रवत् । शतारेन्द्रजात्परिषत्सदृशायुर्वरुणः । ततो न्यूनायुर्धनदः । ततो न्यूनायुषी सोमयमौ । शेषः शतारेन्द्रवत् ।
1
सहस्रार' विमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य' आनतप्राणतारणाच्युतकल्पाः सन्ति । तत्र षड्विमानप्रस्ताराः- आनत-प्राणत- पुष्पक- सातक-आरण-अच्युतसंज्ञकाः । तत्रानतविमानाच्चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः । विदिक्षु ३० पुष्पप्रकीर्णानि । कैकस्यां विमानश्रेण्यां षोडशश्रेणिविमानानि । एवमौ - परिष्टेषु पञ्चसु विमानप्रस्तारेषु एकैकश्रेणिविमानहानिर्वेदितव्या । तत्रारणाच्युतविमानाद् दक्षिणश्रेण्याम् एकादशविमानविरचितायां षष्ठं कल्पविमानम् । तस्यापितिरारणो नाम देवराजः । यस्याधिकान्यर्ध चतुर्थानि विमानशतानि त्रयस्त्रिंशत्त्त्रायत्रिंशा देवाः, दश सामानिकशतानि, तिस्रः परिषदः, सप्तानीकानि दशात्मरक्षशतानि चत्वारो ३५ लोकपालाः, पद्मादयोऽष्टावग्र महिष्यः अष्टचत्वारिंशत्पल्योपमायुषः । एकैका चात्राऽर्धतृतीयैः "
१ कक्ष्या द्वे ता०, भू० श्र० । २ - ते ष- प्रा०, ब०, ब०, मू० । ३ इन्द्रक । ४ - स्य सन्ति तत्र ता०, श्र०, मू० 1 ४ पञ्चाशदधिकद्विशतेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org