________________
४।१९] चतुर्थोऽध्यायः
२३३ देवीशतैः परिवृता दशदेवीरूपशतसहस्राणि चतुर्विंशति च देवीरूपसहस्राणि विकरोति । वल्लभिकाश्च पञ्चदश तावदायुविक्रियाः । समिताऽभ्यन्तरपरिषत् पञ्चविंशतिर्देवशतम् । तत्रैकैकः साधिकविंशतिसागरोपमायर्दशदेवीकः। चन्द्रा मध्या, अर्धतृतीयानि देवशतानि । तत्रकैकः देशोनविंशतिसागरोपमस्थितिरष्टदेवीकः । जातुर्बाह्या पञ्चदेवशतानि । तत्रैकैकः अर्धविशतिसागरोपमस्थितिः षड्देवीकः । अनीकानां प्रथमकक्षा एकं देवसहस्रम् । सर्वेषां देवानां ५ तन्महत्तराणां च एकैकस्य त्रिंशद् देव्यः । आत्मरक्षाणां च त्रिंशत् । बालकाभियोग्यस्य चन्द्रायुषः ऊनमायुः, त्रिंशद् देव्यः । पूर्वादिषु दिक्षु स्वयंप्रभादिविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । तेषामेकैकस्य सामानिकशतम् । द्वात्रिंशद् देव्यः, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । जातुसमानायुर्वैश्रवणः । ततो न्यूनायुर्व रुणः । ततो न्यूनायुषो सोमयमौ । तयोरभ्यन्तरपरिषत्त्रयो देवाः। मध्या द्वादश। बाह्या पञ्चविंशतिः । वरुणस्याभ्यन्तरपरिषत् १० पञ्चदेवाः। मध्या पञ्चविंशतिः । बाह्या पञ्चाशत् । वैश्रवणस्याभ्यन्तरपरिषत् षड् देवाः। मध्या पञ्चाशत् । बाह्या शतम् । तेषां यथाक्रमम् एकविंशतिसागरोपमाणि तान्येव देशोनानि तान्येव चा?नान्यायुरवगन्तव्यम्, सप्त पञ्च तिस्रश्च देव्यो ज्ञेयाः ।
आरणाच्युतविमानादुत्तरश्रेण्याम् एकादशविमानविभूषितायां षष्ठं कल्पविमानम् । तस्याधिपतिरच्युतो नाम देवराजः । यस्योनान्यर्धचतुर्थानि विमानशतानि । त्रयस्त्रिशत्रा- " यस्त्रिंशा देवाः । दश सामानिकशतानि । तिस्रः परिषदः । सप्तानीकानि । दश आत्मरक्षशतानि । चत्वारो लोकपालाः । श्रीमत्यादयोऽष्टावग्रमहिष्यः पञ्चपञ्चाशत्पल्योपमायुषः, वल्लभिकाश्च पञ्चदश तावदायुषः । अवशिष्टम् आरणेन्द्रवत् । परिषदादिविधिश्च तथैव नेयः। अयं तु विशेषः वरुणोऽधिकायुः । ततो न्यूनायुर्धनदः । ततोऽप्यूनायुषी सोमयमौ ।
त एते लोकानुयोगोपदेशेन चतुर्दशेन्द्रा उक्ताः । इह द्वादश इष्यन्ते' 'पूर्वोक्तेन क्रमेण ब्रह्मोतरकापिष्ठमहाशुक्रसहस्रारेन्द्राणां दक्षिणेन्द्रानुवर्तित्वात् आनतप्राणतकल्पयोश्च एकैकेन्द्रत्वात् ।
सौधर्मविमानसंख्या प्रागुक्ता। ऐशानेऽष्टाविंशतिविमानशतसहस्राणि । श्रेणिविमानानि चतुर्दशशतानि सप्तपञ्चाशानि । पुष्पप्रकीर्णकानां सप्तविंशतिः शतसहस्राणि अष्ट- २५ नवतिः सहस्राणि पञ्चशतानि त्रिचत्वारिंशानि । सानत्कुमारे द्वादशविमानशतसहस्राणि । श्रेणिविमानानां पञ्चशतानि पञ्चनवत्यधिकानि। प्रकीर्णकानाम् एकादशशतसहस्राणि नवनवतिः सहस्राणि चत्वारि शतानि पञ्चोत्तराणि । माहेन्द्रेऽष्टौ विमानशतसहस्राणि । श्रेणिविमानानाम एक शतं षण्णवत्यधिकम् । प्रकीर्णकानां सप्तशतसहस्राणि नवनवांतसहस्राणि अष्टो शतानि चतुरुत्तराणि । ब्रह्मलोकब्रह्मोत्तरकल्पयोः चत्वारि विमानशत- ३० सहस्राणि । श्रेणिविमानानां त्रीणि शतानि चतुःषष्टयधिकानि। प्रकीर्णकानां त्रीणि शतसहस्राणि नवनवतिः सहस्राणि षट्शतानि षट्त्रिंशानि। लान्तवकापिष्ठयोः पञ्चाशत्सहस्राणि । श्रेणिविमानानां शतम् अष्टपञ्चाशम् । प्रकीर्णकानामेकानपञ्चाशत्सहस्राणि
१-शतसहस्त्राणि विकरोति प्रा०, ब०, २०, मु०।-२ कक्ष्या १०, मू०, ता०। ३ ततोऽयूनायुश्र०। ४ "सोहम्मीसाणसणक्कुमारमाहिदबम्हुलंतवया । महसुक्कसहस्सारा प्राणद पाणद य पारणचुदया। एवं वारसकप्पा......" -त्रिलोकप्र० वैमानिक०। ५ तदेव विवृणोति । ६ तान्येव पथग् पृथग् विवृणोति, एवमुत्तरत्रापि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org