SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४ तत्त्वार्थवार्तिके [४११९ अष्टौ शतानि द्विचत्वारिंशानि। शुक्रमहाशुक्रयोः चत्वारिंशत्सहस्राणि । श्रेणिविमानानां त्रिसप्ततिः । प्रकीर्णकानाम् एकान्नचत्वारिंशत्सहस्राणि नवशतानि सप्तविंशानि। शतारसहस्रारकल्पयोः षड्विमानसहस्राणि। श्रेणिविमानानाम् एकान्नसप्ततिः। प्रकीर्णकानाम् एकानषष्टिशतानि एकत्रिंशानि । आरणाच्युतकल्पयोः सप्तविमानशतानि । श्रेणिविमानानां ५ त्रीणि शतानि त्रिंशानि। प्रकीर्णकानां त्रीणि शतानि सप्तत्यधिकानि । 'चतुर्दशस्वपि कल्पविमानेषु विमानसंख्या चतुरशीतिः शतसहस्राणि षण्णवतिः सहस्राणि सप्त च विमानशतानि। ___ आरणाच्युतविमानादूर्ध्व बहूनि योजनशतसहस्राण्युत्पत्य सन्ति तत्राधोवेयकविमा नानि । येषु त्रयो विमानप्रस्ताराः सुदर्शनामोघसुप्रबुद्धाः । तत्र सुदर्शनेन्द्रकाच्चतसृष्वपि १. दिक्षु चतस्रो विमानश्रेण्यः । तत्रैकैकस्यां विमानश्रेण्यां दश विमानानि । सुदर्शनादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्याऽस्ति अमोघो नाम विमानप्रस्तारः । अत्रापि चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः । अत्रकस्यां विमानश्रेण्यां नवविमानानि । अमोघादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य अस्ति सुप्रबुद्धो नाम विमानप्रस्तारः। अत्रापि चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो' विनिर्गताः। एकैकस्यां विमानश्रेण्याम् अष्टौ विमानानि । त्रिष्वेप्यतेषु १५ पुष्पप्रकीर्णकविमानानि न सन्ति । तान्येतान्येकादशोत्तरविमानशतम् । सुप्रबुद्धविमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्र मध्यमवेयकविमानानि । येषु त्रयः प्रस्तारा यशोधरसुभद्रविशालाः। पूर्ववदत्रापि एकैकश्रेणिविमानहान्या पञ्चसप्तति'श्रेणिविमानानि। पुष्षप्रकीर्णकानि द्वात्रिंशत् । तान्येतानि सप्तोत्तरं शतम्। सुविशालविमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्रोपरिमग्नैवेयकविमानानि । येषु त्रयः प्रस्ताराः सुमनाः २० सोमनाः प्रीतिङकर इति। पूर्ववदत्राप्येकैकविमानहान्या एकान्नचत्वारिंशत् श्रेणिविमानानि । द्वापञ्चाशत्पुष्पप्रकीर्णकानि । तान्येतानि समुदितानि एकनवतिविमानानाम् । प्रीतिङकरविमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्राऽनुदिशविमानानि । येष्वेक एवाऽऽदित्यो नाम विमानप्रस्तारः । तत्र दिक्षु चत्वारि श्रेणिविमानानि । प्राच्यां दिशि अचिवमानम्, अपाच्यामचिमाली, प्रतीच्यां वैरोचनम्, उदीच्यां प्रभासम्, २५ मध्ये आदित्याख्यम् । विदिक्षु पुष्पप्रकीर्णकानि चत्वारि-पूर्वदक्षिणस्यामचिप्रभम्, दक्षिणा परस्याम् अचिमध्यम्, अपरोत्तरस्याम् अचिरावर्तम्, उत्तरपूर्वस्यामचिविशिष्टम् । तान्येतानि नव । आदित्यविमानादूर्ध्व बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्रानुत्तरविमानानि । यत्रक एव सर्वार्थसिद्ध संज्ञो विमानप्रस्तारः । दिक्षु प्रदक्षिणानि विजयवैजयन्त३० जयन्तापराजितविमानानि चत्वारि, मध्ये सर्वार्थसिद्ध संज्ञम् । पुष्पप्रकीर्णकानि न सन्ति । सौवमै शानयोः कल्पयोविमानानि सप्तविशैकयोजनशतबाहल्यानि पञ्चयोजनशतोच्छायाणि । सानत्कुमारमाहेन्द्रयोर्ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु शुक्रमहाशुक्रशतारसहस्रारेषु आनतप्राणताऽऽरणाऽच्युतेषु नवसु वेयकेषु अनुदिशाऽनुत्तरेषु च विमानानां बाहल्यमेकैकयोजनविहीनम्, उच्छायश्च एकैकयोजनशताधिको यथाक्रमं वेदितव्यः । तान्ये १प्रानतप्राणतयोरन्यतरत्रान्तर्भावात् । २-ज्यो नि-१०, मू० । ३ -तिःश्रे-पा०, २०, २०, म०, मू०। ४ांत्रिशान्येतानि प्रा०, भा० २।५-दिसं-प्रा०, ब०, मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy