________________
४२० ]
चतुर्थोऽध्यायः
२३५
तानि श्रेणीन्द्रप्रकीर्णकविमानानि कानिचित् संख्येययोजनशतविस्ताराणि । कानिचिदसंख्येययोजनशतविस्ताराणि । यानि संख्येयविस्ताराणि तानि संख्येययोजनशतसहस्रविस्ताराणि यान्यसंख्येयविस्ताराणि तानि असंख्येययोजनशतसहस्रविस्ताराणि । सोधमैंशानयोर्विमानानि पञ्चवर्णानि कृष्णनीलरक्तहारिद्रशुक्लवर्णानि । सानत्कुमार माहेन्द्रयोः चतुर्वर्णानि कृष्णहीनानि । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु त्रिवर्णानि विमानानि कृष्णनीलवजितानि । शुक्र महाशुक्र शतारसहस्राराऽऽनतप्राणतारणाच्युतेषु द्विवर्णानि विमानानि हारिद्र शुक्लवर्णानि । ग्रैवेयकानुदिशानुत्तरविमानानि शुक्लवर्णान्येव । परमशुक्लं सर्वार्थसिद्ध' विमानम् ।
मधिकृतानां वैमानिकानां देवानां परस्परतो विशेषप्रतिपत्त्यर्थमाह-स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥
१०
स्वोपात्तायुष उदयात् स्थानं स्थितिः | १ | स्वेनोपात्तस्य देवायुषः उदयात्तस्मिन् भवे तेन शरीरेण स्थानं स्थितिरित्युच्यते ।
शापानुग्रहलक्षणः प्रभावः । २। शापोऽनिष्टापादनम्, अनुग्रह इष्टप्रतिपादनम्, तल्लक्षणः प्रवृद्धो भाव प्रभाव इत्याख्यायते ।
सद्योदये सति इष्टविषयानुभवनं सुखम् ॥३॥ सद्योदयमूलहेतौ सति बाह्यस्येष्ट - १५ विषयस्य उपनिपाते तद्विषयमनुभवनं सुखमिति कथ्यते ।
शरीरवसनाभरणादिदीप्तिर्युतिः |४| शरीरस्य वसनस्याऽऽभरणादीनां च दीप्तिः द्युतिरिति उपाख्यायते ।
लेश्याशब्द उक्तार्थः । ५। लेश्याशब्द उक्तार्थ एव वेदितव्यः । लेश्याया विशुद्धिः लेश्याविशुद्धिः ।
इन्द्रियावधिभ्यां विषयाभिसंबन्धः | ६ | विषयशब्दस्य इन्द्रियावधिभ्यामभिसंबन्धो भवति । इन्द्रियं चाऽवधिश्च इन्द्रियावधी, तयोर्विषय इन्द्रियावधिविषय' इति ।
इतरथा हि तदाधिक्यप्रसङ्गः ॥ ७॥ अक्रियमाणे ह्येवमभिसंबन्धे उपर्युपरि देवेषु इन्द्रि याणामाधिक्यं प्रसज्येत ।
स्थितिग्रहणमादौ तत्पूर्वकत्वादितरेषाम् ॥८| स्थितिग्रहणमादौ क्रियते तत्पूर्वकत्वादि - २५ तरेषां प्रभावादीनाम् । स्थितिमतां हि प्रभावादयो भवन्ति नाऽस्थितस्येति ।
तेभ्यस्तैर्वाधिक इति तसिः | ९| तेभ्यः स्थित्यादिभ्यः अधिका इति "अपादानेऽहीयरुहोः” [जैनेन्द्र ० ४।३।५० ] इति तसिः । तैर्वाधिका इति तसि प्रकरणे *आद्यादिभ्य उपसंख्यानम्'' [जैनेन्द्र० ४।२।४९] इति तसिः । उपर्यं परि वैमानिकाः इत्यनुवर्तन्ते, तेनैवमभिसंबध्यते उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च स्थित्यादिभिरेभिरधिका इति । तत्र स्थिति: ३० उत्कृष्टा जघन्या च सा उपरिष्टाद्वक्ष्यते । इह तु वचनं येषां समा' भवति तेषामपि गुणतोऽधिकत्वज्ञापनार्थम् । यः प्रभावः सौधर्मकल्पदेवानां निग्रहानुग्रहविक्रियापराभियोगादिषु, उपर्युपरि ततोऽनन्तगुणः मन्दाभिमानतया अल्पसंक्लिष्टत्वाच्च न प्रवर्तते । एवं सुखादयोऽपि प्रत्येतव्याः । लेश्यानियमः उपरि वक्ष्यते । इह तु वचनं यत्र विधानं' समानं तत्रापि कर्मविशुद्धितोऽधिका भवन्ति इति प्रतिपादनार्थम् ।
१ - द्विवि- आ०, ब०, मु० ।
Jain Education International
२ विषयो ज्ञेयपदार्थः । ३ स्थितिः । ४ स्थित्यादि ।
२०
For Private & Personal Use Only
३५
www.jainelibrary.org