________________
२३६
तस्वार्थवार्तिके
यथा स्थित्यादिभिरुपर्यधिका एवं गत्यादिभिरपि इत्यतिप्रसङ्गे तन्निवृत्त्यर्थमाह-
गतिशरीरपरिग्रहाभिमानतो हीनाः ||२१||
देशान्तरप्राप्तिहेतुर्गतिः | १| उभयनिमित्तवशात् उत्पद्यमान: कायपरिस्पन्दो गतिरि
युच्यते ।
५
शरीरमुक्तलक्षणम् |२| * ' औदारिकवै क्रियिकाऽऽहार कतैजसकार्मणानि शरीराणि " [त० सू० २।३६] इत्यत्र शरीरमुक्तलक्षणम् ।
कषायोदयान्मूर्छा परिग्रहः | ३ | लोभकषायवेदनीयस्य उदयान्मूर्च्छा संकल्पः परिग्रह इत्याख्यायते ।
३५
[ ४२१
१०
मानकषायोदयापादितोऽभिमानः |४| मानकषायवेदनीयस्य उदयापादितोऽहङ्कारः अभिमान इति कथ्यते । गतिश्च शरीरं च परिग्रहश्च अभिमानश्च गतिशरीरपरिग्रहाभिमानाः तैः गतिशरीरपरिग्रहाभिमानतः । तसिप्रकरणे "आद्यादिभ्य उपसंख्यानम्' [जैनेन्द्रवा० ४। २ ४९ ] इति तसिः । यदि हि अपादानविवक्षा स्यात् "अहीयरुहो :" [जैनेन्द्र० ४ | ३ |५० ] इति प्रतिषेधः स्यात् । गतिग्रहणमादौ लक्षणद्वययोगात् ॥५॥ गतिग्रहणमादौ क्रियते । कुतः ? लक्षणद्वय१५ योगात् द्वन्द्वे सु” [जैनेन्द्र० १|३|९८] #" अल्पाच्तरम्" [जैनेन्द्र० १|३|१०० ] इति । ततः शरीरग्रहणं तस्मिन् सति परिग्रहोपपत्तेः ॥ ६ ॥ ततः परं शरीरग्रहणं क्रियते । कुतः ? तस्मिन् सति परिग्रहोपपत्तेः सति शरीरे परिग्रहो ममेदं बुद्धिरुपजायते ।
तद्वत्वेऽपि केवलिनः परिग्रहेच्छाभाव इति चेत्; न; देवाधिकारात् ॥७॥ स्यादेतत्शरीरवत्त्वेऽपि केवलिनः ममेदमिति संकल्पो न विद्यते ततोऽयं हेतुव्यभिचार इति; तन्न ; किं कारणम् ? देवाधिकारात् । देवा हि रागादिमन्तोऽधिकृताः, तेषामवश्यं सति शरीरे परिग्रहाभिलाषेण भवितव्यमिति नास्ति व्यभिचारः ।
२०
२५
तन्मूलत्वात्तदनन्तरमभिमानग्रहणम् ॥८॥ परिग्रहमूलो हि लोकेऽभिमानो दृष्टः, ततोऽस्य द्रुतदनन्तरं ग्रहणं क्रियते । उपर्युपरीत्यनुवर्तते, तेनोपर्युपरि देवानाम् उक्ता गत्यादयो हीना वेदितव्याः । तद्यथा - सौध मैशानयोर्देवाः क्रीडादिनिमित्तां गतिं महाविषयत्वेन मुहुर्मुहुर्वृत्त्या चाधिकमास्कन्दन्ति न तथोपरि देवाः विषयाभिष्वङगोद्रेकाभावात् । ततस्तन्निमित्ता गतिरपि क्रमेण हीयते । शरीरमपि सौधर्मं शानयोर्देवानां सप्तारत्नि'प्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरनिप्रमाणम् । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पञ्चरत्नि: । शुक्र महाशक्रशतारसहस्रारेषु च चतुररत्नि: । आनतप्राण तयोरर्ध चतुर्थारत्नि: । आरणाच्युतयोररत्नित्रयप्रमाणम् । अधोग्रैवेयकेषु अर्धतृतीयारत्निः, मध्यमग्रैवेय३० केषु अरत्निद्वयमात्रम्, उपरिमग्रैवेयकेषु अनुदिशविमानेषु च अध्यर्धारत्निः, अनुत्तरेष्वरत्निप्रमाणमात्रम् । परिग्रहोऽपि विमानपरिवारादिलक्षण उपर्युपरि हीन इत्युक्तं पुरस्तात् । कुतः पुनरुपर्युपरि परिग्रहाभिमानहानिरिति ? उच्यते
Jain Education International
प्रतनुकषायत्वात्पसंक्लेशावधिविशुद्धितत्वावलोकन संवेगपरिणामानाम् उत्तरोत्तराधिक्याद् अभिमानहानिः । ९ । प्रतनुकषायत्वादल्पसंक्लेशो भवति, ततोऽवधिविशुद्धिर्जायते, संक्लेशवशःदवधियत इत्युक्तं पुरस्तात् । ततोऽवधिविशुद्धेः उपर्युपरि देवाः शारीरमानसदुःखपरीतान्
१ कोऽर्थः ? मानसं कर्म । २ 'सु' इति स्वमते घिसंज्ञा । ३ हस्तो रत्निररलिः स्यात् ।
For Private & Personal Use Only
www.jainelibrary.org