________________
४।२२] चतुर्थोऽध्यायः
२३७ नारकतैर्यग्योनमानुषान् प्रकर्षेणाऽवलोकयन्ति । ततस्तन्निमित्तसंवेगपरिणामः संसाराद्धीरुता उपजायते । ततो दुःखहेतुषु दुरन्तेषु परिग्रहेषु अभिभानो हीयते । किञ्च,
विशुद्धपरिणामप्रकर्षनिमित्तत्वाच्च उपर्युपर्युपपत्तेः ।१०। इह विशुद्धपरिणामभेदनिमित्तः पुण्यकर्मबन्धविकल्पः, तत्पूर्वको देवेषु उपपाद इति उपर्युपरि अभिमानहानिः । कारणसदृशं हि कार्य दृष्टमिति । तद्यथा-तैर्यग्योनेषु असंज्ञिनः पर्याप्ताः पञ्चेन्द्रियाः ५ संख्येयवर्षायुषः, अल्पशुभपरिणामवशेन पुण्यबन्धमनुभूय भवनवासिषु व्यन्तरेषु च उत्पद्यन्ते । त एव संज्ञिनो मिथ्यादृष्टयः सासादनसम्यग्दृष्टयश्च आसहस्रारादुत्पद्यन्ते। त एव सम्यग्दृष्टयः सौधर्मादिषु अच्युतान्तेषु जायन्ते । असंख्येयवर्षायुषः तिर्यङमनुष्या मिथ्यादृष्टयः सासादनसम्यग्दृष्टयश्च आ ज्योतिष्केभ्य उपजायन्ते, तापसाश्चोत्कृष्टाः। त एव सम्यग्दृष्टयः सौधमै शानयोर्जन्मानुभवन्ति । मनुष्याः संख्येयवर्षायुषः मिथ्यादर्शनाः सासादन- १० सम्यग्दर्शनाश्च भवनवासिप्रभृतिषूपरिमोवेयकान्तेषु उपपादमास्कन्दन्ति । परिव्राजकानां देवेषूपपादः आ ब्रह्मलोकात् । आजीवकानाम् आसहस्रारात् । तत ऊर्ध्वमन्यलिङ्गिना' नास्त्युपपाद: । निर्ग्रन्थलिङ्गधराणामेव उत्कृष्टतपोऽनुष्ठानोपचितपुण्यबन्धानाम् असम्यग्दर्शनानामुपरिमग्रैवेयकान्तेषु उपपादः । तत ऊर्ध्व सम्यग्दर्शनज्ञानचरणप्रकर्षोपेतानामेव जन्म नेतरेषाम् । श्रावकाणां सौधर्मादिष्वच्युतान्तेषु जन्म नाधो नोपरीति परिणामविशुद्धि- १५ प्रकर्षयोगादेव कल्पस्थानातिशययोगोऽवसेयः ।
पुरस्तात्त्रिषु निकायेषु देवानां लेश्याविधिरुक्त इदानीं वैमानिकेषु लेश्याविधिप्रतिपत्त्यर्थमाह
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ किमर्थ पृथग्लेश्याभिधानं क्रियते, ननु यत्रवान्यो लेश्याविधिः तत्रैवेदं वक्तव्यम् ? २० अत उत्तरं पठति'
पृथग्लेश्याभिधानं लघ्वर्थम् ।। पृथगिदं लेश्याभिधानं क्रियते लघ्वर्थम् । तत्र' हि पाठे क्रियमाणे वैमानिकाना स्वामिनां भेदेन निर्देशः कर्तव्यः स्यात् । अथ कोऽयं निर्देशः? पीतपद्मशुक्ललेश्या इति । पीता च पद्मा च शुक्ला च पीतपद्मशुक्लाः, ता लेश्या येषां त इमे पीतपद्मशुक्ललेश्या इति । यद्येवं द्वन्द्वे पुवद्भावात् निर्देशो नोपपद्यते ? नैष दोषः; २५
औत्तरपदिकं ह्रस्वत्वम्, यथाकार्यविपरिणामाद्वा सिद्धम् । द्रुतायां तपरकरणे 'मध्यमबिलम्बितयोरुपसंख्यानम्" [पात० महा० १।१।६९] इत्यत्रौत्तरपदिकं ह्रस्वत्वम्, एवमिहापि वेदितव्यम् ।
तत्र कस्य का लेश्या इत्यत्रोच्यतेसौधर्मेशानीयाः पीतले श्याः ॥२॥ सौधर्मशानीया देवाः पीतलेश्या द्रष्टव्याः। ३०
१ लोके कृत। २ -लिङ्गानां प्रा०, ब०, द०, मु०, मू०, ता० । ३ पठन्ति प्रा०, ब०, २०, म०। ४ तथा सति सूत्रस्य गौरवं स्यात् । ५ सूत्रस्य लघनोपायेन । ६ प्रादितस्त्रिष इत्यादि प्रकरणे । ७ व्रता वत्तिः । ८ मध्यमा च बिलम्बिता च तयोः । इदमेव ज्ञापकं लक्षणाभावेऽपि शिष्टप्रयोगानसारेण प्रौत्तरपदिकं ह्रस्वत्वमस्तीति । १ ."सूत्रे तपरकरणं तत् ज्ञापयति क्वचिद् द्वन्द्वेऽप्यौत्तरपदिक स्वत्वं भवतीति तेन यथा मध्यमा च बिलम्बिता मध्यमबिलम्बिते इत्याद्यौत्तरपविक हस्वत्वं बहुलं दृश्यते तद्वदापीत्यदोषः पाणिनीयमिदं सूत्रम् । १० मध्यम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org