SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३८ तत्त्वार्थवार्तिके [ કારર सानत्कुमारमाहेन्द्रीया देवाः पीतपमलेश्याः ॥३॥ सनत्कुमारे माहेन्द्रे च देवाः पीतपद्म'लेश्या: प्रत्येतव्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पयलेश्याः॥४॥ चतुर्वेषु देवाः पद्यलेश्याः द्रष्टव्याः । ५. शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः ।५॥ चतुर्वेषु देवाः 'पद्मशुक्ललेश्या विज्ञेयाः। आनतादिषु शुक्लले श्याः ।६। आनतादिषु शेषेषु देवाः 'शुक्ललेश्याः प्रत्येतव्याः । तत्राप्यनुत्तरेषु परमशुक्ललेश्याः। शुद्धमिश्रले श्याविकल्पानुपपत्तिः सूत्रेऽनभिधानादिति चेत्, न; मिश्रयोरन्यतर ग्रहणात् १० यथा लोके ।। स्यान्मतम्-उक्तो लेश्याविकल्पः शुद्धो मिश्रश्च नोपपद्यते, कुतः ? सूत्रेऽनभि धानात् इति; तन्न; किं कारणम् ? मिश्रयोरन्यतर ग्रहणात्, यथा लोके । तद्यथा-छत्रिणो गच्छन्तीत्यछत्रिष्वपि छत्रिव्यपदेशः, एवमिहापि मिश्रयोरप्यन्यतरग्रहणेन ग्रहणं भवति इति पीतपालेश्याः पूर्वग्रहणेन परग्रहणेन वा गृह्यन्ते, एवं पद्मशुक्ललेश्या अपीति नास्ति दोषः । द्वित्रिशेषग्रहणावग्रहणमिति चेत्, न; इच्छातः संबन्धोपपतः ।। स्यान्मतम्-एवमपि १५ ग्रहणं नोपपद्यते। कुतः ? द्वित्रिशेषग्रहणात् । सूत्रे ह्येवं पठ्यते-द्वयोः पीतलेश्याः, त्रिषु पालेश्याः, शेषेषु शुक्ललेश्या इति, तच्चानिष्टमिति; तन्न; किं कारणम् ? इच्छातः संबन्धोपपत्तेः । एवं हि संबन्धः क्रियते-द्वयोः कल्पयुगलयोः पीतलेश्याः, सानत्कुमारमाहेन्द्रयोः पमलेश्याया अविवक्षातः । ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्याः, शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः । शेषेषु शतारादिषु शुक्ललेश्याः, पद्मलेश्याया अविवक्षातः, इति २० नास्त्यार्ष विरोधः । पाठान्तराश्रयाद्वा ।९। अथवा पाठान्तरमाश्रियते । किं पुनः तत् ? 'पीतमिश्रपद्ममिश्रशुक्ललेश्या द्विद्विचतुश्चतुःशेषेषु' इति, ततो न कश्चिदार्षविरोधः । निवेशवर्णपरिणामसंक्रमकर्मलक्षणगतिस्वामित्वसाधनसंख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वेश्च साध्या लेश्याः ।१०। एतैनिर्देशादिभिः षोडशभिरनुयोग द्वारैः लेश्याः साधयि२५ तव्याः । तत्र निर्देशस्तावत्-कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । वर्णो भ्रमरमयूरकण्ठकपोततपनीयपद्मशङ्खवर्णा यथाक्रमं लेश्याः। वर्णान्तरमासाम् अनन्तविकल्पम् । एकद्वित्रिचतुःसंख्येयाऽसंख्ययाऽनन्तकृष्णगुणयोगात् कृष्णलेश्याः अनन्त३० विकल्पा । एवमितरा अपि। परिणामः-'असंख्येयलोकप्रदेशप्रमाणेषु असंख्येयगुणेष कषायोदयस्थानेषु उत्कृष्टमध्यमजघन्यांशकेषु० संक्लेशहान्या परिणामात्मानः अशुभास्तिस्रः कृष्णनीलकापोतलेश्याः १प्रकृष्टपीतजघन्यपद्मलेश्याः । २ मध्यम । ३ प्रकृष्टपदमजघन्यशक्ललेश्याः। ४ मध्यम । ५-ग्यतरत्रप- प्रा०, ब०, २०, मु०, मू०, ता०। ६ सौधर्मेशानयोः पीता पीतापदमे द्वयोस्ततः । कल्पेषट्स्वतः पदमा पदमशक्ले ततो द्वयोः। प्रानतादिषु शक्लातः त्रयोदशसु मध्यमा। चतुर्दशस सोत्कृष्टाऽनुदिशानुत्तरेषु च । इति । ७ प्रश्न । ८ कथ्यते । ६ बसः । १० प्रागुक्तप्रदेशा एवांशाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy