SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ४।२२] चतुर्थोऽध्यायः २३६ परिणमन्ते । तथा जघन्यमध्यमोत्कृष्टांशकेषु विशुद्धिवृद्धया तिस्रः शुभाः तेजःपद्मशुक्ललेश्याः परिणमन्ते । तथोत्कृष्टमध्यमजघन्यांशकेषु विशुद्धिहान्या तिस्रः शुभाः परिणमन्ते । तथा जघन्यमध्यमोत्कृष्टांशेषु संक्लेशविद्धया तिस्रः अशुभाः परिणमन्ते । एकैका चात्र लेश्या असंख्येयलोकप्रदेशप्रमाणपरिणामाऽध्यवसायस्थाना। संक्रमः-कृष्णलेश्यः संक्लिश्यमानो नान्यां लेश्यां संक्रामति, कृष्णलेश्ययैव षट्स्थान- ५ पतितेन संक्रमेण वर्धते । तद्यथा-कृष्णलेश्याया यत्प्राथमिकं संक्लेशस्थानं ततः स्थानादनन्तभागाभ्यधिका वृद्धिरसंख्ययभागाऽभ्यधिका वा संख्येयभागाभ्यधिका वा संख्येयगुणाभ्यधिका वा असंख्येयगुणाभ्यधिका वा अनन्तगुणाभ्यधिका वा। तथा' हीयमानोऽपि लेश्यान्तरसंक्रम न करोति कृष्णलेश्ययैव षट्स्थाननिपतितसंमेक्रण हीयते । तद्यथा-कृष्णलेश्याया यदुत्कृष्ट संक्लेशस्थानं ततः स्थानादनन्तभागहान्या वा असंख्येयभागहान्या वा संख्येयभागहान्या वा १० संख्पेयगुणहान्या वा असंख्येयगुणहान्या वा अनन्तगुणहान्या वा। यदा कृष्णलेश्या अनन्तगुणहान्या हीयते तदा नीललेश्याया उत्कृष्टं स्थानं संक्रामति, तदैव कृष्णलेश्यस्य संक्लिश्यमानस्य एको विकल्पो वृद्धी स्वस्थानसंक्रमो नाम । हानी पुनद्वौं विकल्पो स्वस्थानसंक्रमः परस्थानसंक्रमश्चेति । एवमितरास्वपि लेश्यासु वृद्धिहान्योः संक्रमविकल्पविधिर्वेदितव्यः । अयं तु विशेष:-शुक्ललेश्यस्य विशद्धिवृद्धौ लेश्यान्तरसंक्रमो नास्ति स्वस्थानसंक्रमोऽस्ति । संक्लेश- १५ वृद्धौ विशुद्धिहानौ तु स्वस्थानसंक्रमोऽप्यस्ति परस्थानसंक्रमोऽपि। मध्यलेश्यानां हानौ वद्धौ च उभावपि संक्रमौ स्तः। अनन्तभागपरिवृद्धिः कया परिवृद्धया? सर्वजीवरनन्तभागपरिवृद्धया। असंख्येयभागपरिवृद्धिः कया परिवृद्धया ? असंख्येयलोकभागपरिवृद्धया। संख्येयभागपरिवृद्धिः कया परिवृद्धया ? उत्कृष्टसंख्येयभागपरिवृद्धया। संख्येयगुणपरिवृद्धिः कया परिवृद्धया ? उत्कृष्टसंख्येयगुणपरिवुद्धया। असंख्येयगुणपरिवृद्धि: कया परिवृद्धया? २० असंख्येयलोकगुणपरिवृद्धया। अनन्तगुणपरिवृद्धिः कया परिवृद्धया ? सर्वजीवाऽनन्तगुणपरिवृद्धया। लेश्याकर्म उच्यते-जम्बूफलभक्षणं निदर्शनं कृत्वा, स्कन्धविटपशाखानुशाखा'पिण्डिका'छेदतपूर्वकं फलभक्षणं स्वयं पतितफलभक्षणं चोद्दिश्य कृष्णलेश्यादयः प्रवर्तन्ते'। अथ लक्षणमुच्यते-अनुनयानभ्युपगमोपदेशाग्रहण-वैरामोचनाऽतिचण्डत्व' दुर्मुखत्व- २५ निरनुकम्पता-क्लेशन-मारणापरितोषणादि कृष्णलेश्यालक्षणम् । आलस्य-विज्ञानहानि-कार्यानिष्ठापन-भीरुता-विषयातिगृद्धि-माया-तृष्णाऽतिमान-वञ्चनाऽनृत भाषण-चापलातिलुब्धत्वादि नीललेश्यालक्षणम् । मात्सर्य-पैशुन्य-परपरि भवाऽऽत्मप्रशंसा-परपरिवाद वृद्धि हान्यगणनाऽऽस्मीयजीवितनिराशता-प्रशस्यमानधनदान-युद्धमरणोद्यमादि कपोतलेश्यालक्षणम् । दृढमित्रतासानुक्रोशत्व-सत्यवाद - दानशीलात्मीयकार्यसंपादनपटुविज्ञानयोग - सर्वधर्मसमदर्शनादितेजोले- ३० श्यालक्षणम्। सत्यवाक्य-क्षमोपेत-पण्डित-सात्त्विकदानविशारद-चतुरर्जु गुरुदेवतापूजाकरणनिरतत्वादि पद्मलेश्यालक्षणम् । वैररागमोहविरह-रिपुदोषाग्रहण-निदान वर्जन-सार्वसावद्यकारिम्भौदासीन्य-श्रेयोमार्गानुष्ठानादि शुक्लेश्यालक्षणम् । .. १हीयमानापि प्रा०, २०, २०, म०। २ स्तबकः। ३ छेदनशब्दः प्रत्येक परिसमाप्यते । ४ ते लक्ष-०, म०, ता०। ५ त्वप्रत्ययः प्रत्येक परिसमाप्यते एवमतरत्रापि। ६ चण्डस कोपनः । ७-भाषिता चा-पा०, ब०, ८०, मु०। ८ तिरस्कार । अपवाद, दोषवाद इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy