________________
[કાર
२४०
तत्त्वार्थवार्तिके गतिरुच्यते-कपोतलेश्यापरिणत आत्मा कां गतिं गच्छतीति ? षड्विंशतिविकल्पेषु लेश्यांशकेषु आयुषो ग्रहणहेतवः अष्टावंशकाः' मध्यमाः । कुतः पुनरेतदनुगम्यते इति चेत् ? •"अष्टाभिः' अपकर्ष : मध्यमेन परिणामेनाऽऽयुर्बध्नाति" [ ] इत्यार्पोपदेशात् । शेषा अष्टादशलेश्यांशका गतिविशेषहेतवः पुण्यपापविशेषोपचयहेतुत्वात्तेषां तदपेक्षो मध्यमपरिणामः ५ तद्योग्यायुर्वन्धहेतुर्भवति, तत आयुर्नामकर्मोदयापादितो गतिविशेषो लेश्यावशादवसेयः । तद्यथा-उत्कृष्टशुक्ललेश्यांशकपारिणामादात्मानः कालं कृत्वा सर्वार्थसिद्धं यान्ति । जघन्यशुक्ललेश्यांशकपरिणामात् शुक्रमहाशुक्रशतारसहस्रारान् यान्ति । मध्यमशक्ललेश्यांशकपरिणामात् आनतादिषु प्राक् सर्वार्थसिद्धादुत्पद्यन्ते। उत्कृष्टपद्मलेश्यांशकपरिणामात् सहस्रारमु
पगच्छन्ति । जघन्यपद्मशुक्ललेश्यांशकपरिणामात् सानत्कुमारमाहेन्द्रौ यान्ति । मध्यमपद्म१. लेश्यांशकपरिणामात ब्रह्मलोकादिष आ शतारादपपद्यन्ते । उत्कृष्टतेजोलेश्यांशकपरिणामात
सानत्कुमारमाहेन्द्रकल्पान्त्यचक्रेन्द्रकश्रेणिविमानान्यास्कन्दन्ति । जघन्यतेजोलेश्यांशकपरिणामात् सौधमै शानप्रथमेन्द्रकश्रेणिविमानानि यान्ति । मध्यमतेजोलेश्यांशकपरिणामात् चन्द्रादीन्द्र कश्रेणिविमाना'दिषु आबलभद्रेन्द्रकश्रेणिविमानेभ्य उपपद्यन्ते । उत्कृष्टकृष्ण
लेश्यांशकपरिणामात् अप्रतिष्ठानमधितिष्ठन्ति। जघन्यकृष्णलेश्यांशकपरिणामात् पञ्च१५ म्यामध इन्द्रकनरकं तमिस्रसंज्ञकं संश्रयन्ते । मध्यमकृष्णलेश्यांशकपरिणामात् हिमेन्द्र कादिषु
आ महारोरवादुपजायन्ते । उत्कृष्टनीललेश्यांशकपरिणामात् पञ्चम्यामन्धेन्द्रकमवाप्नुवन्ति । जघन्यनीललेश्यांशकपरिणामात् वालुकायां तप्तेन्द्रकं यान्ति । मध्यमनीललेश्यांशकपरिणामात् वालुकायां त्रस्तेन्द्र कादि झषेन्द्रकान्तेषु उत्पद्यन्ते। उत्कृष्टकपोतलेश्यांशकपरिणामात् वालुकाप्रभायां संप्रज्वलितनरकं यान्ति। जघन्यकपोतलेश्यांशकपरिणामात् रत्नप्रभायां सीमन्तकं यान्ति । मध्यमकपोतलेश्यांशकपरिणामात् रोरुकादिषु आ संज्वलितेन्द्र कादुपपद्यन्ते । मध्यमकृष्णनीलकपोततेजोलेश्यांशकपरिणामात् भवनवासिव्यन्तरज्योतिष्कपृथिव्यम्बुवनस्पतीन् व्रजन्ति । मध्यमकृष्णनीलकपोतलेश्यांशकपरिणामात् तेजोवायु कायिकेषु जायन्ते । देवनारकाः स्वलेश्याभिः तिर्यङमनुष्यान् योग्यानायान्ति ।
स्वामित्वमुच्यते-रत्नप्रभाशर्कराप्रभयो: नारकाः कापोतलेश्याः । वालुकाप्रभायां नील२५ कपोतलेश्याः । पङकप्रभायां नीललेश्याः । धूमप्रभायां नीलकृष्णलेश्याः। तमःप्रभायां
कृष्णलेश्याः । महातमःप्रभायां परमकृष्णलेश्याः । भवनवासिव्यन्तरज्योतिष्काः कृष्णनीलकापोततेजोलेश्याः । एकद्वित्रिचतुरिन्द्रियाः संक्लिष्टत्रिलेश्याः । असंज्ञिपञ्चेन्द्रियतिर्यञ्चः संक्लिष्टचतुर्लेश्याः । संज्ञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च मिथ्यादृष्टिसासादनसम्यग्दृष्टि
सम्यङमिथ्यादृष्टयसंयतसम्यग्दृष्टीनां षडपि लेश्याः । संयतासंयतप्रमत्तसंयताप्रमत्त३० संयतानां तिस्रः शुभाः। अपूर्वकरणादीनां सयोगकेवल्यन्तानां शुक्ललेश्यव। अयोगकेव
लिनोडलेश्याः । सौधर्मेशानीयाः तेजोलेश्याः । सानत्कुमारमाहेन्द्रीयाः तेजःपद्मलेश्याः । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठेषु देवाः पद्मलेश्याः। शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः । आनतादिष्वासर्वार्थसिद्धात् शुक्ललेश्याः । सर्वार्थसिद्धाः परमशुक्ललेश्याः ।
१ तदुक्तम- लेस्साणं खलु अंसा छब्बीसा होति तत्थ मज्झिमया। पाउगबंधणजोग्गा प्र वगरिसकालभवा। सेसट्ठारसभंसा चउगइगमणस्स कारणा होति । सुक्कुक्कस्संसमुदा सव्वळं जांति खल जीवा । २ पूर्वायुरपकृष्य अपकृष्यय परायुध्यत इत्यपकर्षः स्वोपात्तायुषः। प्राकर्षः श्र०, ता०। ३-नाद् भाव-पा०, २०, २०, म०। ४-कायेषु ता०, १०, मू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org