________________
२४१
४।२३]
चतुर्थोऽध्यायः साधनमुच्यते-द्रव्यलेश्या नामकर्मोदयनिमित्ता:, भावलेश्याः कषायोदयक्षयोपशमप्रशमप्रक्षयकृताः।
___ संख्या कथ्यते-कृष्णनीलकापोतलेश्या एकशो द्रव्यप्रमाणेनाऽनन्ताः, अनन्तानन्ताभिरुत्सपिण्यवसपिणीभि पह्रियन्ते कालेन । क्षेत्रेणाऽनन्तानन्तलोकाः । तेजोलेश्या द्रव्यप्रमाणेन ज्योतिर्देवाः साधिकाः। पद्मलेश्या द्रव्यप्रमाणेन संज्ञिपञ्चेन्द्रियतिर्यग्योनीनां संख्येय- ५ भागाः । शुक्ललेश्याः पल्योपमस्याऽसंख्ययभागाः।।
क्षेत्रमुच्यते-कृष्णनीलकापोतलेश्या एकशः स्वस्थानसमुद्धातोपपादैः सर्वलोके वर्तन्ते । तेजःपालेश्या एकशः स्वस्थानसमुद्धातोपपादैलॊकस्याऽसंख्येयभागे। शुक्ललेश्याः स्वस्थानोपपादाभ्यां लोकस्यासंख्येयभागे, समुद्घातेन लोकस्याऽसंख्येयभागे, असंख्येयेषु भागेषु सर्वलोकेर वा।
स्पर्शनमुच्यते-कृष्णनीलकापोतलेश्यैः स्वस्थानसमुद्धातोपपादैः सर्वलोकः स्पष्टः । तेजोलेश्यः स्वस्थानेन लोकस्यासंख्येयभागः, अष्टौ चतुर्दशभागा वा देशोनाः, समुद्धातेन लोकस्या:संख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः, उपपादेन लोकस्यासंख्येयभागा अध्यर्धचतुर्दशभागा वा देशोनाः । पमलेश्यः स्वस्थानसमुद्धाताभ्यां लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः, उपपादेन लोकस्यासंख्येयभागः पञ्चचतुर्दशभागा वा देशोनाः। १५ शुक्ललेश्यः स्वस्थानोपपादाभ्यां लोकस्यासंख्येयभागः स्पृष्टः षट्चतुर्दशभागा वा देशोनाः, समुद्घातेन लोकस्याऽसंख्येयभागः षट् चतुर्दशभागा वा देशोनाः, असंख्येया वा भागाः सर्वलोको वा।
__ काल उच्यते-कृष्णनीलकपोतलेश्यानाम् एकशः जघन्येनान्तर्मुहूर्तः; उत्कर्षेण त्रयस्त्रिशत्सागरोपमाणि साधिकानि, सप्तदशसागरोपमाणि साधिकानि, सप्तसागरोपमाणि । साधिकानि । तेजःपद्मशक्ललेश्यानामेकशः कालो जघन्येन अन्तमहर्तः. उत्कर्षण द्वे सागरोपमे साधिके, अष्टादश सागरोपमाणि साधिकानि, त्रयस्त्रिंशत्सागरोपमाणि साधिकानि। ___ अन्तरमभिधीयते-कृष्णनीलकपोतलेश्यानाम्-एकशः अन्तरं जघन्येनान्तर्मुहूर्तः, उत्कर्षण त्रयस्त्रिशत्सागरोपमाणि साधिकानि। तेजःपद्मशुक्ललेश्यानामेकश: अन्तरं जघन्येनाऽन्तर्मुहूर्तः, उत्कर्षणानन्त: कालोऽसंख्ययाः पुद्गलपरिवर्ताः । ___भावो व्याख्यायते-षडपि लेश्या औदयिकभावाः शरीरनाममोहनीयकर्मोदयापादितत्वात् ।
___ अल्पबहुत्वं वक्ष्यते-सर्वतः स्तोकाः शुक्ललेश्याः, पद्मलेश्या असंख्येयगुणा:, तेजोलेश्या असंख्येयगुणाः, अलेश्या अनन्तगुणाः, कपोतलेश्या अनन्तगुणाः, नीललेश्या विशेषाधिकाः, कृष्णलेश्या विशेषाधिकाः। आह-कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इति ? अत्रोच्यते
प्राग्वेयकेभ्यः कल्पाः ॥२३॥ इदं नं ज्ञायते कुत आरभ्य कल्पा भवन्ति इति ? सौधर्मादिग्रहणमनुवर्तते, तेनायमर्थो लभ्यते सौधर्मादयः कल्पा इति । यद्येवं तदनन्तरमेवेदं सूत्रं वक्तव्यम् ? अत उत्तरं पठति
१ -स्य संख्ये-भा० २। २ केवल्यपेक्षया दण्डकवाटादिषु योज्यम्। ३ प्रयोगकेवलिनः सिद्धाश्च । ४-व-मा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org