________________
રદર तत्त्वार्थवार्तिके
(ારક सौधर्माधनन्तरं कल्पाभिधाने व्यवधानप्रसङगः ।। यदि सौधर्माद्यनन्तरं कल्पाभिधानं क्रियते व्यवधानं प्रसज्येत । कस्य ? स्थितिप्रभावादिसूत्रत्रयस्य । सति च व्यवधाने तेन विधीयमानोऽर्थः कल्पेष्वेव स्यात् अनन्तरत्वाद्', अवेयकादिषु न स्यात् व्यवहितत्वात् । इह पुनः पाठे सति स्थित्यादि विशेषविधिरविशेषेण सिद्धो भवति । अथ के कल्पातीताः ?
कल्पातीतसिद्धिः परिशेषात् ।२। कल्पातीतानां सिद्धिर्भवति । कुतः ? परिशेषात् । परिशिष्टा' हि अवेयकादयोऽनुत्तरान्ताः ।
भवनवास्यातिप्रसङग इति चेत्, न; उपर्यु परीत्यभिसम्बन्धात् ।। स्यादेतत्, परिशिष्टा यदि कल्पातीता भवनवास्यादीनामपि वैमानिकत्वमपि प्रसज्येत इति ; तन्न;
किं कारणम् ? उपर्यु परीत्यभिसंबन्धात् । उपर्युपरि वैमानिका नाधस्तात् इति । तेन १. कल्पातीता अहमिन्द्रा एव । कथं पुनस्तेषामहमिन्द्रत्वम् ? सामानिकादिविकल्पाभावात् ।
चतुनिकायोपवेशानुपपत्तिः बट्सप्तसम्भवादिति चेत्, न; तत्रवान्तर्भावात् लौकान्तिकबत् ।। स्यान्मतम्-चत्वारो देवनिकाया इत्युपदेशो नोपपद्यते इति । कुतः ? षट्सप्तसंभवात् । षणिकायाः सम्भवन्ति भवनपातालव्यन्तरज्योतिष्क कल्पोपपन्नविमानाधिष्ठानात् ।
भवनवासिनो दशविधा उक्ताः। पातालवासिनो लवणोदादिसमुद्रावासाः सुस्थितप्रभासादयः । १५ व्यन्तरा 'अनादृतप्रियदर्शनादयः जम्बूद्वीपाधिपतयः । ज्योतिष्काः पञ्चविधा व्याख्याताः ।
कल्पोपपन्ना द्वादश वर्णिताः । विमानानि अवेयकादीनि उपदिष्टानि । अथवा सप्तदेवनिकायाः, त एवाऽऽकाशोपपन्नः सह । आकाशोपपन्नाश्च द्वादशविधा:-पांशुतापि-लवणतापि. तपनतापि-भवनतापि-सोमकायिक-यमकायिक-वरुणकायिक-वैश्रवणकायिक-पितृकायिक-अनल
कायिक रिष्टक-अरिष्ट-सम्भवा इति; तन्न; किं कारणम् ? तत्रैवान्तर्भावात्, लौकान्तिकवत् । १०. यथा लौकान्तिकानां कल्पवासिष्वन्तर्भावात् न निकायान्तरत्वं तथा पातालवासिनाम्
आकाशोपपन्नानां व्यन्तरेष्वन्तर्भावात्, कल्पवासिनां च वैमानिकत्वात् न निकायान्तरत्वम् । इति नास्ति चातुर्विध्यहानिः । आह-य एते दृष्टान्तत्वेनोपाताः लौकान्तिकास्ते कस्मिन् कल्पे भवन्तीति? अत्रोच्यते--
ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ एत्य तस्मिल्लीयन्त इत्यालयः ॥१॥ यत्र प्राणिन एत्य लीयन्ते स आलयो निवास इत्यर्थः । ब्रह्मलोक आलयो येषां ते ब्रह्मलोकालयाः।
__सर्वब्रह्मलोकदेवानां लौकान्तिकत्वप्रसङ्ग इति चेत्, न; लोकान्तोपश्लेषात् ।२। स्यादेतत् ब्रह्मलोकालया इत्यविशेषाभिधानात्तेषां सर्वेषां लौकान्तिकत्वं प्रसज्येत इति; तन्न;
किं कारणम् ? लोकान्तोपश्लेषात् । ब्रह्मलोकस्यान्तो लोकान्तः, तस्मिन् भवा लौकान्तिकाः। ३० अथवा, जातिजरामरणाकीर्णो लोकः तस्यान्तो लोकान्तः तत्प्रयोजना लौकान्तिकाः । ते हि परीतसंसाराः, ततश्च्युता एकं गर्भवासमवाप्य परिनिर्वान्ति।
तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमिदमुच्यते--
१-दनन्त-प्रा०,००, म०. ता०, श्र०।२-नन्तरे क- भ०, म०।३ अव्यवहितत्वात । ४-दिविधि- १०, म०। ५-ष्टा प्रमी प्रे-मा०, ब०, द०, म०। ६-कल्पवि-ब०, २०, म०, ता०, श्र०। ७ अनावृतप्रियवर्शनादयः प्रा०,०, द०. म०। ८ संसार इत्यर्थः । एवञ्चान्वर्यसंज्ञाकरणान्न सर्वेषां ब्रह्मलोकालयानां लौकान्तिकत्वं भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org